ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिर्दर्शनात् ॥ ४० ॥
एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा. उ. ८ । १२ । ३) इति श्रूयतेतत्र संशय्यतेकिं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः, किं वा परं ब्रह्मेतिकिं तावत्प्राप्तम् ? प्रसिद्धमेव तेजो ज्योतिःशब्दमितिकुतः ? तत्र ज्योतिःशब्दस्य रूढत्वात्ज्योतिश्चरणाभिधानात्’ (ब्र. सू. १ । १ । २४) इत्यत्र हि प्रकरणाज्ज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते चेह तद्वत्किञ्चित्स्वार्थपरित्यागे कारणं दृश्यतेतथा नाडीखण्डेअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति मुमुक्षोरादित्यप्राप्तिरभिहितातस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति, एवं प्राप्ते ब्रूमः

बहुलिङ्गविरोधेन श्रुतिबाधवत्प्रकरणानुगृहीतोत्तमपुरुषश्रुत्या ज्योतिःश्रुतेर्मुख्यार्थबाधमाह —

ज्योतिरिति ।

दहराधिकरणे ज्योतिःशब्दं ब्रह्मेति सिद्धवदादाय ब्रह्मरूपेणोच्यते जीव इत्युक्तम् ।

इदानीं ब्रह्मैव ज्योतिःशब्दमित्येतद्विशदयितुं तदेव वाक्यमाह —

एष इति ।

परं ज्योतिरिति श्रुतिभ्यां संशयमाह —

तत्रेति ।

विषयो घटादिस्तस्यावरकं बाह्यं तमस्तदपहतिकारणमादित्याख्यं तेजस्तदिह ज्योतिरुच्यते, ज्योतिःश्रुतेस्तत्र रूढत्वादित्येकः पक्षः ।

ज्योतिर्विशेषणस्य परत्वस्य निरतिशयत्वस्य ब्रह्मणोऽन्यत्रायोगात्तदेव ज्योतिरिति पक्षान्तरं प्रश्नपूर्वकं पूर्वपक्षयति —

किमिति ।

न च प्रकरणात्प्राणस्येव ज्योतिषो ब्रह्मत्वं, तत्र सर्वशब्दश्रुतिसङ्कोचवत्प्रकृते प्रकरणानुग्राहकाभावात् , परशब्दस्य विशेषणार्थस्य विशेष्यानुसारेणादित्येऽपि नेयत्वादुक्तश्रुतेर्निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रूत्यादिसङ्गतयः । पूर्वोत्तरपक्षयोरादित्योपास्त्या क्रममुक्तिः, ब्रह्मज्ञानान्मुक्तिरिति फलभेदः । सर्वशब्दस्येवात्र कस्याश्चिदपि क्षुतेरसङ्कोचात्प्रागिवेहापि ‘समुत्थाय’ इत्यादिश्रुत्यसङ्कोचाद्वा युक्तमादित्यग्रहणमिति भावः ।

प्रसिद्धस्याप्रतिपाद्यत्वात्तद्ग्रहणं नेति शङ्कते —

कुत इति ।

अप्रतिपाद्यत्वेऽपि तस्योपास्यत्वेनादेयत्वमाह —

तत्रेति ।

ज्योतिरधिकरणन्यायेनास्यापि निर्णयात्पूर्वपक्षानुत्थानादनारभ्यमेतदधिकरणमित्याशङ्क्याह —

ज्योतिरिति ।

ब्रह्मणो गायत्रीवाक्ये प्रकृतत्वात्तस्य सर्वनाम्ना परामृष्टस्य द्युसम्बन्धलिङ्गात्प्रत्यभिज्ञानात्तत्र ज्योतिःशब्दो ब्रह्मणि प्रसिद्धिमुल्लङ्घ्य नीतः । न च तथास्मिन्वाक्ये ज्योतिःशब्दस्य स्वार्थत्यागे हेतुरदृष्टत्वादित्यगतार्थतेत्यर्थः ।

नन्वत्रापि परं ज्योतिरिति ज्योतिषो विशेषणं स्वरूपाभिनिष्पत्तिरुत्तमपुरुषत्वं चादित्येऽनुपपन्नं ज्योतिःशब्दस्य प्रसिद्धार्थत्यागे हेतुरस्तु, नेत्याह —

तथा चेति ।

‘अथ या एता हृदयस्य नाड्यः’ इत्यादि नाडीखण्डः । तत्रादित्यग्रहानुरोधेन मुमुक्षोस्तत्प्राप्तिरभिहितेति सम्बन्धः । विशेषज्ञानोपरमानन्तर्यमथशब्दार्थः । यत्रेत्यारब्धकर्मावसानकालोक्तिः । एतदुत्क्रमणं यथा तथेति क्रियाविशेषणम् । अस्मादभिमानविषयाद्देहादुत्क्रमणं यदा करोत्यथ तदैतैरादित्यस्य रश्मिभिरालम्बनैरूर्ध्वः सन्नाक्रमत उपरि गच्छतीत्युपक्रम्यादित्यं गच्छतीत्युपसम्पत्तव्यस्य ज्योतिषो यथादित्यत्वं तथा श्रुतं तस्यापि परत्वमर्चिरादिभ्यो युक्तं समुत्थायोपसम्पद्येति च पूर्वकालार्थक्त्वाश्रुतेर्ब्रह्मपक्षे बाधाद्देहाभिमानत्यागरूपमुत्थानं कृत्वोपसम्पद्य कार्यब्रह्मलोकं गत्वा स्वेन रूपेणाभिनिष्पद्यते स चोत्तमः पुरुष इत्यङ्गीकारे सर्वाविरोधादादित्यपक्षो ज्योतिःश्रुत्या क्त्वाश्रुतिभ्यां चाभ्युपेय इत्यर्थः ।

भार्गपर्वभूतादित्योपास्त्या तत्प्राप्तिद्वारा क्रममुक्तिपरं वाक्यमित्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामाह —

एवमिति ।