श्रुतिभिस्तेजसो ग्राह्यत्वे कुतो ब्रह्मधीरिति पृच्छति —
कस्मादिति ।
हेतुमादाय व्याचष्टे —
दर्शनादिति ।
परस्य ब्रह्मणोऽस्मिन्प्रकरणे वक्तव्यत्वेनानुवृत्तिदर्शनं हेतुना साधयति —
य इति ।
प्रकरणाविच्छेदं कथयति —
एतमिति ।
किञ्चार्चिराद्यपेक्षया परं ज्योतिरादित्यश्चेत्तत्प्राप्त्या विदुषो नाशरीरत्वं, आदित्यस्य देवतात्मनः सशरीरत्वात् ।
न च तत्प्राप्त्या स्वरूपाभिनिष्पत्तिः, अन्यस्यान्यात्मतायोगादित्याह —
अशरीरमिति ।
उपास्त्या तत्प्राप्तावशरीरत्वमाशङ्क्याह —
ब्रह्मेति ।
इतश्चात्र ब्रह्मैव ज्योतिरित्याह —
परमिति ।
शरीरादुत्थितस्यानन्तरमुपसम्पत्तव्यत्वमादित्यस्य नाडीखण्डे दृष्टमिति लिङ्गानुगृहीतां ज्योतिरादिश्रुतिमपहतपाप्मत्वादिपरमात्मप्रकरणानुगृहीतोत्तमपुरुषादिश्रुत्या बाधित्वा परं ब्रह्म ज्योतिरास्थेयं, एकवाक्यतापादकफलवत्प्रकरणोपेतश्रुतेर्विफललिङ्गसङ्गतिश्रुतितो बलीयसीत्वात् , अस्य हि निर्गुणविद्यायां श्रूताशरीरताफलायामर्चिराद्यनवतारादादित्यानर्थक्यान्मार्गपर्वत्वेन तस्य सगुणविद्यासूपदिष्टत्वादेवोत्कर्षायोगादत्र ज्योतिर्मात्रश्रुतेर्मार्गानुक्तेरादित्योक्तौ श्रुतित्रयानर्थक्यात् , ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् ‘इति न्यायाद्बलवत्प्रकरणोपेतप्रागुक्तश्रुत्या ब्रह्मैव ज्योतिरिति भावः ।
परोक्तमनुभाष्य दूषयति —
यत्त्विति ।
आत्यन्तिकेऽपि मोक्षे तदुभयं स्यादित्याशङ्क्य बादर्यधिकरणविरोधान्मैवमित्याह —
नहीति ।
पूर्वापरालोचनायामत्र क्रममुक्त्यप्रतीतेर्बाधित्वा क्त्वाश्रुतिं परस्य ज्योतिषो ब्रह्मणः प्राप्तिरेव स्वरूपाभिनिष्पत्तिः, तस्यैवोत्तमपुरुषतेत्युपेत्य वाक्यस्य ब्रह्मपरत्वमास्थेयम् । अतो ब्रह्माज्ञानात्तत्प्राप्तिरिति भावः ॥ ४० ॥