प्रकरणोपेतोत्तमपुरुषादिश्रुत्या ज्योतिरादिश्रुतेर्बाध उक्तः । इदानीमात्मब्रह्मश्रुतिभ्यां लिङ्गानुगृहीताभ्यामाकाशश्रुतेर्बाधमाह —
आकाश इति ।
छान्दोग्यवाक्यमुदाहरति —
आकाश इति ।
आकाशब्रह्मश्रुतिभ्यां संशयमुक्त्वा पूर्वपक्षयति —
तदित्यादिना ।
यथोपक्रमादर्थान्तरे प्रसिद्धोऽपि ज्योतिःशब्दः स्वार्थात्प्रच्यावितस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दः स्वार्थात्प्रच्याव्यतामिति मत्वा हेतुमाह —
आकाशेति ।
निर्विशेषे ब्रह्मण्युक्तश्रुतेरन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे वाय्वादिमात्राधिष्ठानाकाशात्मकब्रह्मोपास्त्या क्रममुक्तिः, सिद्धान्ते सर्वाधिष्ठानब्रह्मधिया साक्षान्मुक्तिरिति फलभेदः ।
रूढिग्रहे तस्य नामरूपनिर्वहणमयुक्तमित्याशङ्क्य नामरूपशब्दाभ्यां प्रसिद्धदेवदत्तादिसंज्ञानां सितासितादिरूपाणां च स्वीकारात्तदाश्रयावकाशदानद्वारा भूताकाशेऽपि तन्निर्वहणं युक्तमित्याह —
नामेति ।
‘आकाशस्तल्लिङ्गात्’ इत्यनेन गतार्थत्वमाशङ्क्याह —
स्रष्टृत्वादेश्चेति ।
तत्र हि सर्वजगदुत्पत्तेरेवकारसिद्धनिरपेक्षकारणत्वस्य प्रश्नप्रत्युक्तिसामानाधिकरण्यसामर्थ्यस्य च दृष्टेर्ब्रह्मपरत्वं, नैवमिह तत्परत्वे किञ्चिदसाधारणं लिङ्गमित्यगतार्थतेत्यर्थः । तस्य च श्रुत्या प्रसिद्धवदुपादानात्प्रमितस्य बृहत्त्वाद्ब्रह्मत्वं, आभूतसम्प्लवस्थानादमृतत्वं, आप्नोतीत्यात्मत्वं व्यापित्वात् । तस्मान्नामादिवद्भूताकाशोपास्त्यर्थं वाक्यमित्यर्थः ।
पूर्वपक्षमनूद्य सूत्रमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।