ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हतिकस्मात् ? अर्थान्तरत्वादि व्यपदेशात् । ‘ते यदन्तरा तद्ब्रह्मइति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं सम्भवति, सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्नामरूपयोरपि निर्वहणं निरङ्कुशं ब्रह्मणोऽन्यत्र सम्भवति, अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति ब्रह्मकर्तृकत्वश्रवणात्ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्तिबाढमस्तिअभेदस्त्विह विवक्षितःनामरूपनिर्वहणाभिधानादेव स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवतितद्ब्रह्म तदमृतं आत्मा’ (छा. उ. ८ । १४ । १) इति ब्रह्मवादस्य लिङ्गानिआकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यस्यैवायं प्रपञ्चः ॥ ४१ ॥

आकाशशब्दाद्भूताकाशो भाति, कुतो ब्रह्मधीरित्याह —

कस्मादिति ।

हेतुमादायार्थान्तरत्वव्यपदेशं विशदयति —

अर्थान्तरत्वादीति ।

भूताकाशस्यापि नामरूपाभ्यामर्थान्तरत्वं, देवदत्तादिशब्दस्य नामत्वान्नीलपीतादे रूपत्वात्ताभ्यामन्यत्वस्य भूताकाशे सिद्धत्वादित्याशङ्क्याह —

न चेति ।

यत्र नामरूपशब्दौ सम्भूयोक्तौ तत्र शब्दार्थावेव श्रुतिषु गृह्येते ‘तन्नामरूपाभ्यामेव’ इत्यादौ तथा दृष्टेः । न च शब्दार्थान्तर्भूतस्य भूताकाशमपि ततोऽर्थान्तरत्वमित्यर्थः ।

किञ्च भूताकाशमपि विकारतया नामरूपान्तर्भूतं कथमात्मानमुद्वहेत् , न च तन्निर्वाहकत्वं निरङ्कुशं श्रुुतं परतन्त्रभूताकाशे कथञ्चिन्नेयमित्याह —

नामेति ।

अन्यत्र तन्निर्वहणस्य ब्रह्मकर्तृकत्वसिद्धेस्तदेवात्रापि प्रत्यभिज्ञातमित्याह —

अनेनेति ।

नामरूपनिर्वाहकत्वमादिशब्दोक्तं न ब्रह्मसाधारणमिति शङ्कते —

नन्विति ।

जीवस्य तन्निर्वाहकत्वेऽपि ब्रह्माभेदात्तस्य ब्रह्मासाधारणतेत्याह —

बाढमिति ।

स्रष्टृत्वादिब्रह्मलिङ्गमिह नेत्युक्तं प्रत्याह —

नामेति ।

आकाशशब्दस्य ब्रह्मार्थत्वे लिङ्गान्येव सन्ति, भूताकाशार्थत्वे श्रुतिलिङ्गे स्तः । तथा च केवललिङ्गेभ्यस्तयोर्बलीयस्त्वाद्भूताकाशग्रहणमित्याशङ्क्यात्रापि ब्रह्मात्मश्रुती विद्येते इत्याह —

तदिति ।

उपक्रमस्थाकाशश्रुतेः ‘आकाशो वै नाम’ इति प्रसिद्धलिङ्गाच्च नामरूपनिर्वहणतदर्थान्तरत्वामृतत्वलिङ्गानुगृहीते ब्रह्मात्मश्रुती बलवत्याविति भावः ।

‘आकाशस्तल्लिङ्गात् ‘ इत्यत्रोपक्रमोपसंहाराभ्यां प्रतिपाद्यतया तात्पर्यवदानन्त्यलिङ्गादाकाशस्य ब्रह्मत्वमुक्तं, इहापि श्रुत्यन्तरसिद्धनामादिनिर्वाहकत्वसंवादेन तात्पर्यवल्लिङ्गादाकाशस्य ब्रह्मत्वमुच्यते, तत्कथं पृथगारम्भ इत्याशङ्क्याह —

आकाश इति ।

तत्र स्रष्टृत्वस्पाष्ट्यवदिह नेति विशेषोऽस्तीति भावः ॥ ४१ ॥