ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
व्यपदेशादित्यनुवर्ततेबृहदारण्यके षष्ठे प्रपाठके कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४ । ३ । ७) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतःतत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यम् , उतासंसारिस्वरूपप्रतिपादनपरमिति संशयःकिं तावत्प्राप्तम् ? संसारिस्वरूपमात्रविषयमेवेतिकुतः ? उपक्रमोपसंहाराभ्याम्उपक्रमेयोऽयं विज्ञानमयः प्राणेषुइति शारीरलिङ्गात्उपसंहारे वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इति तदपरित्यागात्मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादित्येवं प्राप्ते ब्रूमः

श्रुत्युपेतलिङ्गेन श्रुतेर्बाधमुक्त्वा लिङ्गेन लिङ्गस्यैव बाधमाह —

सुषुप्तीति ।

साकाङ्क्षत्वं वारयति —

व्यपदेशादिति ।

षष्ठाध्यायवाक्यजातं विषयत्वेनोदाहरति —

बृहदिति ।

देहादीनामन्यतमो वा तदतिरिक्तो वात्मेति जनकस्य प्रश्ने याज्ञवल्क्यस्योत्तरम् —

योऽयमिति ।

विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । प्राणेषु हृदीति व्यतिरेकार्थे सप्तम्यौ । प्राणबुद्ध्यातिरिक्त इत्यर्थः ।

बुद्धिवृत्तेर्विविनक्ति —

अन्तरिति ।

अज्ञानाद्भिनत्ति —

ज्योतिरिति ।

पुरुषः पूर्णो योऽयमेवंभूतः स आत्मेत्यर्थः ।

तदेव वाक्यमधिकृत्योपक्रमस्थविज्ञानमयशब्दादुपसंहारस्थसर्वेशानादिशब्दाच्च संशयमाह —

तदिति ।

अङ्गुष्ठमात्रश्रुतावुपक्रमोपसंहारौ न जीवार्थावत्र तथेत्यगतार्थत्वं मत्वा प्रश्नपूर्वकं पूर्वपक्षयति —

किं तावदिति ।

नामरूपाभ्यां भेदवादादाकाशं ब्रह्मेत्युक्ते भेदवादो नैकान्तः, असत्यपि भेदे ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति भेदोपचारादित्याशङ्क्यात्रापि मुख्यभेदसाधनादधिकरणसङ्गतिः । षष्ठाध्यायस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवानुवादेन कर्तृस्तुतिः, सिद्धान्ते तदनुवादेन तद्याथार्थ्यधीरिति फलभेदः ।

जीवे महानित्याद्ययुक्तमित्याह —

कुत इति ।

आदिमध्यावसानेषु जीवोक्तेस्तत्परे सन्दर्भे महानज इत्यादि तत्रैव कथञ्चिन्नेयमित्याह —

उपक्रम इति ।

जीवानुवादेन कर्मापेक्षितकर्तृस्तुत्या तदधिकारसिद्धिरत्रेष्टेत्युपसंहर्तुमितिशब्दः ।

पूर्वपक्षमनुभाष्य सिद्धान्तयन्बहिरेव प्रतिज्ञामाह —

एवमिति ।