उपक्रमोपसंहारपरामर्शानां जीवार्थतया तत्परे सन्दर्भे कथमीश्वरोक्तिरित्याह —
कस्मादिति ।
तत्र हेतुं सोपस्कारमवतारयति —
सुषुप्ताविति ।
सौषुप्तं भेदवादमुदाहरति —
सुषुप्तौ तावदिति ।
करशिरश्चरणादिमति शरीरे पुरुषशब्दात्कुतः शारीरात्परस्य भेदः, तत्राह —
तत्रेति ।
तस्य वेदितृत्वेऽपि प्रकृते वेदितृत्वं नापेक्ष्यं, तदा बाह्यान्तरार्थधीनिषेधादित्याशङ्क्याह —
बाह्येति ।
पुरुषस्य शारीरत्वेऽपि प्रकर्षेणाज्ञ इति व्युत्पत्त्या प्राज्ञशब्देनापि तस्यैवोक्तेर्भेदोक्तेरौपचारिकत्वान्न शारीरात्परस्य भेदोक्तिरित्याशङ्क्याह —
प्राज्ञ इति ।
योगाद्रूढेर्बलीयस्त्वं मत्वा हेतुमाह —
सर्वेति ।
औत्क्रान्तिकीमपि भेदोक्तिं दर्शयति —
तथेति ।
अन्वारूढोऽधिष्ठित उत्सर्जन्नानावेदनातः शब्दं कुर्वन्निति यावत् ।
शारीरशब्दस्य शरीरसम्बन्धिमात्रत्वात्प्राज्ञश्च प्रज्ञातिशयत्वात्कुतो भेदधीरित्याशङ्क्य रूढिबलीयस्त्वन्यायेनाह —
तत्रेत्यादिना ।
भेदोक्तिफलमाह —
तस्मादिति ।
पूर्वपक्षबीजमनुभाष्य दूषयति —
यदुक्तमिति ।
उपक्रमस्य संसार्यर्थत्वं निरस्यति —
उपक्रम इति ।
तस्य प्रश्नद्वारा विषयमाह —
किमिति ।
अनुवादमात्रमेवात्रेष्टं किं न स्यादित्याशङ्क्याह —
यत इति ।
बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव चलन्त्यां चलतीव । वस्तुतो न ध्यायति न चलतीत्यर्थः ।
उपसंहारानुसारेणोपक्रमस्यैकस्मिन्वाक्ये नेयत्वात्तस्य संसार्यर्थत्वादुपक्रमस्य तदर्थतेत्याशङ्क्याह —
तथेति ।
तस्य परमार्थत्वं वाक्यार्थोक्त्या वक्ति —
योऽयमिति ।
परामर्शस्य संसारिगामित्वमुक्तमनूद्य पूर्वापरविरोधेन प्रत्याह —
यस्त्विति ।
बुद्धान्तो जागरितम् ।
संसारिस्वरूपबुद्धेर्वाक्याननुगुणत्वे हेतुमाह —
यत इति ।
अवस्थावत्त्वेन संसारित्वे दृष्टेऽपि तद्राहित्यमभिप्रेतमित्यत्र नियामकं पृच्छति —
कथमिति ।
एकस्मिन्वाक्ये प्रसिद्धाप्रसिद्धयोर्लिङ्गेषु प्रसिद्धार्थानुवादेनाप्रसिद्धार्थ एव प्रतिपाद्यो वाक्यस्यापूर्वार्थत्वायेति न्यायेन जीवलिङ्गैस्तदनुवादेन तस्य ब्रह्मता वाक्येनोच्यतेऽन्यथा प्रश्नायोगादित्याह —
यदिति ।
अतः कामादिविवेकानन्तरं विमोक्षाय तदौपयिकसाक्षात्कारायैव ब्रूहीति पुनः पुना राजा यस्मात्पृच्छति तस्मात्प्रश्नसामर्थ्यात्प्रतीचो ब्रह्मता प्रतिपाद्येत्यर्थः ।
न केवलं प्रश्नसामर्थ्यादेवम् , उत्तरसामर्थ्यादपीत्याह —
यच्चेति ।
तेन जाग्रद्भोगादिनानन्वागतोऽस्पृष्टो भवति, असङ्गत्वादिति प्रत्युक्तेरित्यर्थः ।
प्रतिवचनान्तरं दर्शयति —
अनन्वागतमिति ।
आत्मतत्त्वं पुण्यपापाभ्यामनाघ्रातमिति यावत् ।
तदा सुप्तौ हृदयस्य बुद्धेः सम्बन्धिनः शोकान्कामादीनशेषानतिक्रान्तो भवतीत्याह —
तीर्णो हीति ।
अनुवादमात्रस्य प्रश्नप्रत्युक्तिभ्यामयोगे फलितमाह —
तस्मादिति ॥ ४२ ॥