वाक्यस्यासंसारिपरत्वे हेत्वन्तरमाह —
पत्यादीति ।
सूत्रे हेत्वन्तरद्योतिचकाराभावात्तदविषयत्वमाशङ्क्य व्याचष्टे —
इतश्चेति ।
तत्र हेतुभावं योजयति —
यदिति ।
तत्रासंसारिविषयं शब्दजातमुदाहरति —
सर्वस्येति ।
स्वाधीनं सर्वमपि नियन्तुं शक्तिरस्तीति वक्तुं द्वितीयं विशेषणम् । स्वाधीनं स्वनियम्यं च सर्वमधिष्ठाय पालयतीति वक्तुं तृतीयम् ।
संसारिस्वभावनिषेधकं शब्दजातमादत्ते —
स नेति ।
श्रुतिलिङ्गसिद्धमुपसंहरति —
तस्मादिति ।
निर्विशेषप्रचुराणां वाक्यानां सिद्धोऽन्वयो ब्रह्मणीति पादार्थमुपसंहरति —
इत्यवगम्यत इति ॥ ४३ ॥