ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येततेऽपि हियस्मिन्पञ्च पञ्चजनाःइत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयतेतद्देवा ज्योतिषां ज्योतिःइतिकथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्गृह्यते केषाञ्चिन्नेतिअपेक्षाभेदादित्याहमाध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवतितदलाभात्तु काण्वानां भवत्यपेक्षाअपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणेयथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत्तदेवं तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्तिस्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ १३ ॥

सूत्रान्तरमवतारयितुं श्रुत्योर्मिथोऽविरोधं चोदयति —

भवेयुरिति ।

सूत्रमुत्तरत्वेनावतारयति —

अत इति ।

तद्व्याकरोति —

असत्यपीति ।

ज्योतिरपि पञ्चसङ्ख्यापूरकमात्मातिरिक्तं काण्वश्रुतावश्रुतमित्याशङ्क्याह —

तेऽपीति ।

यत्पूर्वकालापरिच्छेद्यमुक्तं तज्ज्योतिषामादित्यादीनां भासकममृतत्वेनायुष्ट्वेन जीवनगुणवत्तयोपासते देवाः, तेनायुष्मन्तस्ते जाता इत्याह —

तदिति ।

अस्मिन् मन्त्रे षष्ठ्यन्तज्योतिषा पञ्चसङ्ख्यापूरणं, न त्वात्मज्योतिषा, तस्यैकस्याधाराधेयत्वायोगात् ।

केषाञ्चित्पञ्चसङ्ख्यापूरकं ज्योतिरन्येषां नेति न विकल्पो वस्तुनीति शङ्कते —

कथमिति ।

ग्राहकसामर्थ्यभेदादविरोधमाह —

अपेक्षेति ।

तदेव स्फुटयति —

माध्यन्दिनानामिति ।

तथापि कथमेकस्यैव ज्योतिषस्तुल्ये मन्त्रे ग्रहाग्रहौ, नहि वस्तुनि विकल्पोऽस्ति, तत्राह —

अपेक्षेति ।

उक्तं दृष्टान्तेन स्पष्टयति —

यथेति ।

विरोधेऽपि तुल्यबलत्वाज्ज्योतिर्विहाय वाक्यशेषस्थानामेव प्राणादीनां सान्नानां क्वचिद्ग्रहणं, अन्यत्र सज्योतिषां तेषामेव ग्रहणं, क्रियायामिव वस्तुन्यपि दृष्टिक्रियायां विकल्पसिद्धेरितिमत्वाह —

तद्वदिति ।

पञ्चजनमन्त्रात्प्रधानस्य श्रुतिमत्त्वाभावेऽपि प्रकारान्तरेण तस्य तद्वत्त्वमाशङ्क्य तद्विषयत्वेन सम्भावितश्रुतीनामन्यविषयत्वेन नीतत्वान्मैवमित्याह —

तदेवमिति ।

तथापि न ब्रह्मणि समन्वयः प्रधानार्थस्मृतिन्यायविरोधादित्याशङ्क्य भाविनं समाधिं सूचयति —

स्मृतीति ॥ १३ ॥