ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
प्रतिपादितं ब्रह्मणो लक्षणम्प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम्प्रतिपादितं प्रधानस्याशब्दत्वम्त्रेदमपरमाशङ्क्यते जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम्कस्मात् ? विगानदर्शनात्प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते, क्रमादिवैचित्र्यात्तथा हिक्वचित् आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्याकाशादिका सृष्टिराम्नायतेक्वचित्तेजआदिका तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतिक्वचित्प्राणादिका प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इतिक्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते इमाँल्लोकानसृजतअम्भो मरीचीर्मरमापः’ (ऐ. उ. १ । १ । २) इतितथा क्वचिदसत्पूर्विका सृष्टिः पठ्यतेअसद्वा इदमग्र आसीत्ततो वै सदजायत’ (तै. उ. २ । ७ । १) इति, असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्’ (छा. उ. ३ । १९ । १) इति क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायतेतद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य, कुतस्तु खलु सोम्यैवꣳ स्यादिति होवाच कथमसतः ज्जायेतेतिसत्त्वेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । २) इतिक्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यतेतद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत’ (बृ. उ. १ । ४ । ७) इतिएवमनेकधा विप्रतिपत्तेर्वस्तुनि विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्यास्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः

पूर्वाधिकरणत्रयेण प्रधाननिराकरणेन वेदान्तानां ब्रह्मकारणत्वं प्रत्यविगीतत्वमुक्तम् । इदानीं कारणविषयाणां तेषां मिथोऽव्याहतार्थत्वेन स्वतोनिश्चायकत्वान्मानान्तरसिद्धप्रधानलक्षकत्वे गतिसामान्यासिद्धिरित्याशङ्क्याह —

कारणत्वेन चेति ।

अधिकरणतात्पर्यं वक्तुं जन्मादिसूत्रे वृत्तं कीर्तयति —

प्रतिपादितमिति ।

शास्त्रयोनित्वाधिकरणमारभ्यानुमानिकसूत्रात्प्राक्तनाधिकरणानां तात्पर्यमनुवदति —

प्रतिपादितमिति ।

अधिकरणत्रयार्थमनुवदति —

प्रतिपादितं चेति ।

सम्प्रति कारणे ब्रह्मण्यन्वयपर्यवसानाय कारणविषयकवाक्यानामविरोधार्थमधिकरणमारभमाणो जगत्कारणवादिवाक्यानि ब्रह्मणि मानं न वेति विप्रतिपत्तेर्विशये पूर्वत्रान्नज्योतिषोर्विकल्पेन निर्देशादविरोधे सिद्धेऽपि प्रकृते सिद्धे कारणे विकल्पायोगाद्विरोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह —

तत्रेति ।

कारणत्वं ब्रह्मणो गतिसामान्यादुक्तमित्याशङ्क्याह —

ब्रह्मेति ।

न चाविरोधार्थमधिकरणं नेह सङ्गतमिति वाच्यं, समन्वयतो वाक्यार्थज्ञाने मानान्तरविरोधाशङ्कानिरासस्याविरोधाध्यायार्थत्वात् । इह च कारणविषयवाक्यानामेव मिथो विरोधान्न समन्वयो ब्रह्मणीत्यशङ्क्य तन्निरासेनैव समन्वयस्यैव साध्यत्वादध्यायसङ्गतिसिद्धेः । कार्यश्रुतिविरोधस्यापीह परिहर्तुं शक्यत्वेऽपि वेदान्तानां न कार्ये तात्पर्यमिति ज्ञापयितुं नात्र परिह्रियते । कार्यस्यापि प्रतिपाद्यत्वमुपेत्योत्तरत्र तदीयश्रुतिविरोधः परिहरिष्यते । एतेन श्रुतिशास्त्रसङ्गती सिद्धे । क्वाचित्कासत्पदस्य कर्मकर्तृप्रयोगस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गतिसामान्यस्थापनात्पादसङ्गतिः । पूर्वपक्षे कार्यद्वारा स्वतश्च कारणे विप्रतिपत्त्या तल्लक्षिते परस्मिन्नपि तदापत्तेर्न कारणे तुरीये च समन्वयधीरिति गतिसामान्यासिद्धिः । सिद्धान्ते ब्रह्मणि कारणत्वस्य कल्पितत्वात्तत्र वस्तुतोऽविवादात्तल्लक्षिते सत्यज्ञानादिलक्षणे तस्मिन्नन्वयसिद्धेर्गतिसामान्यसिद्धिः ।

प्रतिपादितस्यासिद्धिरयुक्तेति शङ्कते —

कस्मादिति ।

कार्ये कारणे च विप्रतिपत्तिदर्शनादुक्तस्यापि भवत्यसिद्धिरित्याह —

विगानेति ।

कार्यविषयं विगानं तावद्दर्शयति —

प्रतीति ।

क्रमादीत्यादिशब्दादक्रमो गृह्यते ।

क्रमवैचित्र्यकृतं विगानमाह —

क्वचिदिति ।

आदिशब्दार्थमक्रमं कथयति —

क्वचिदिति ।

ईक्षिता परः सर्वनामार्थः ।

लोकान्विशिनष्टि —

अम्भ इति ।

अम्मयशरीरप्रचुरः स्वर्गो लोकोऽम्भःशब्दार्थः । मरीचिरिति रश्मिप्रधानोऽन्तरिक्षलोकः । मर इति मरणप्रधानोऽयं लोकः । आप इत्यब्बहुलः पाताललोक इति विवेकः ।

कार्ये विप्रतिपत्तिवत्कारणेऽपि सा दृष्टेत्याह —

तथेति ।

इदमसदिवाव्यक्तमग्रे प्रागवस्थायामिति यावत् । ततोऽनभिव्यक्तनामरूपात्कारणादभिव्यक्तनामरूपं जगज्जातम् ।

अनभिव्यक्तमेव हि व्यक्तं भवतीत्याह —

तत इति ।

छान्दोग्यश्रुतिस्तैत्तिरीयश्रुत्या तुल्यार्थेत्याह —

असदिति ।

तत्समभवत्तत्कारणं यदात्मनासीत्तत्सदर्थक्रियोन्मुखं कार्यरूपेण च संवृत्तमित्यर्थः ।

तथापि कुतो विप्रतिपत्तिः, तत्राह —

क्वचिदिति ।

प्रक्रिया सृष्टिः ।

तत्तत्र कारणे केचिदाहुः, तेषां मतं दूषयति —

कुतस्त्विति ।

तदेव स्फुटयति —

कथमिति ।

व्यतिरेकमुक्त्वान्वयमाह —

सतीति ।

विप्रतिपत्त्यन्तरमाह —

क्वचिदिति ।

तदिदं जगत्तर्हि प्रागवस्थायामव्याकृतकारणमासीत्तत्किल शब्दात्मनार्थात्मना च व्याक्रियत व्यक्तमभवदित्यर्थः ।

विप्रतिपत्तीरुपसंहृत्य तत्फलमाह —

एवमिति ।

वस्तुनीति कार्यकारणयोरुक्तिः ।

किं तर्हि न्याय्यं, मानान्तरेण कारणे निश्चिते वेदान्तानां तल्लक्षकत्वमित्याह —

स्मृतीति ।

स्मृतिः साङ्ख्यस्मृतिः । न्यायो ‘भेदानां परिमाणात्’ इत्यादिः । कारणान्तरं प्रधानम् ।

कार्यद्वारा स्वतश्च कारणे विप्रतिपत्तेस्तल्लक्ष्येऽपि परत्र तद्भावाद्गतिसामान्यासिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति —

एवमिति ।