कार्ये विप्रतिपत्तिमुपेत्य कारणे तां निराकुर्वन्प्रतिजानीते —
सत्यपीति ।
स्रष्टरि यत्कारणत्वं तस्मिन्निति शेषः ।
तत्रापि विप्रतिपत्तिरुक्तेति शङ्कते —
कुतइति ।
हेतुमुक्त्वा व्याचष्टे —
यथेति ।
यथाभूतत्वं विशिनष्टि —
सर्वेत्यादिना ।
सर्वकारणत्वोपयुक्तमाद्यं विशेषणद्वयं, तेन फलितं तृतीयं, तेनोपलक्षितं तुरीयगोचरमवशिष्टम् ।
वेदान्तानां मिथो विप्रतिपत्त्यभावं मत्वोक्तम् —
तथेति ।
मिथो विरुद्धार्थत्वेनानिश्चायकानां सर्वशब्दानां मानान्तरसिद्धप्रधानलक्षणाश्रयणाद्वरं बहुशब्दानुरोधेन कतिपयलक्षणाश्रयणं लाघवादिति वक्तुमनेकशब्दानामविरोधं तावदाह —
तद्यथेति ।
तद्विषयेणेत्यत्र तच्छब्दो ब्रह्मार्थः । ‘सोऽकामयत’ इति कामयितृत्ववचनम् ।
जगदुपादानस्य ब्रह्मणः सृज्यमानज्ञतया सर्वज्ञतोक्तेत्याह —
चेतनमिति ।
अपरप्रयोज्यत्वम् ‘इदं सर्वमसृजत’ इति स्वातन्त्र्यम् ।
तेन सर्वेश्वरत्वं दर्शितमित्याह —
अपरेति ।
सर्वात्मत्वमपि सङ्गीतमित्याह —
तदिति ।
तत्पदं पूर्ववत् । सत्यादिवाक्यापेक्षया तस्मादित्यादिवाक्यस्थात्मशब्दस्य परत्वम् ।
तस्य सर्वप्रत्यक्त्वमप्युक्तमित्याह —
शरीरादिति ।
एकत्वमपि तस्योक्तमित्याह —
बहु स्यामिति ।
अद्वितीयत्वमपि तस्यैवोक्तमित्याह —
तथेति ।
तैत्तिरीये यथोक्तब्रह्मोक्तावपि कुतो वेदान्तान्तरेषु तदुक्तिरित्याशङ्क्याह —
तदिति ।
तत्रादौ छन्दोगश्रुतिमाह —
सदिति ।
‘एकमेवाद्वितीयम्’ इत्येकत्वाद्वितीयत्वयोरुक्तिः । ‘तदैक्षत’ इति सर्वजगदीक्षणश्रुत्या सर्वज्ञत्वोक्तिः । ‘ऐतदात्म्यमिदं सर्वम् ‘ इति सर्वात्मत्वोक्तिः । ‘बहु स्याम्’ इति स्वातन्त्र्योक्तेरैश्वर्यगीः ।
ऐतरेयश्रुतावपि तादृग्ब्रह्मोक्तमित्याह —
तथेति ।
इति च । एकत्वाद्वितीयत्वादि पूर्वश्रुताविवोक्तमिति शेषः ।
यथोक्तं ब्रह्माथर्वणादावपि कथितमित्याह —
एवमिति ।
अविगीतार्थत्वान्न कारणे विप्रतिपत्तिरिति शेषः ।
कथं तर्हि कार्यवाक्यानि तानि तद्वारा कारणे विगानं सूचयन्ति, तत्राह —
कार्येति ।
तर्हि कार्यद्वारा कारणे ब्रह्मण्यपि विगानमुक्तं, नेत्याह —
नचेति ।
स्थाण्वादिविप्रतिपत्त्या घटादिष्वसाधारणस्वरूपनिरूपितेष्वपि तदापत्तिरिति प्रसङ्गः ।
ननु स्थाण्वादेर्घटादेश्च भेदान्न तत्तद्वारा घटादौ विप्रतिपत्तिः, कार्यकारणयोस्त्वभेदात्कार्यद्वारा कारणेऽपि स्यात् , तत्राह —
समाधास्यतीति ।
सृष्टिवाक्यानां सृष्टौ तात्पर्यमुपेत्य कार्यविगानसमाधिरुक्तः । तेषां तत्र तात्पर्यमेव नास्तीत्याह —
भवेदिति ।
हेतुं साधयति —
नहीति ।
तस्य प्रतिपादयितुमिष्टत्वाभावं स्पष्टयति —
न हीति ।
‘पूषा प्रपिष्टभाग’ इत्यादौ विधिवद्विश्वजिदादौ फलवच्चात्र फलं कल्प्यमित्याशङ्क्य ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्फलवद्वाक्यसंनिध्याम्नातानां तेनैकवाक्यत्वान्मैवमित्याह —
नचेति ।
न्यायादेकवाक्यत्वमुक्त्वा श्रुतेरपि तत्सिद्धिरित्याह —
दर्शयतीति ।
शुङ्गं कार्यम् ।
सृष्टिवाक्यानां स्वार्थातात्पर्यं युक्त्यापीत्याह —
मृदादीति ।
दृष्टान्तेषु कार्यकारणयोरभेदाज्जगतोऽपि ब्रह्माभेदः साध्यते । दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्यर्थः ।
सृष्ट्यादिप्रपञ्चस्याविवक्षितत्वे वृद्धसंमतिमाह —
तथाचेति ।
लोहं सुवर्णम् । अन्यथान्यथेति वीप्सा ज्ञेया ।
अवताराय ।
ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः ।
सृष्टिवाक्यानां फलवद्वाक्यसम्बन्धार्थं ब्रह्मवाक्योत्थधियः फलवत्त्वमाह —
ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ।
विदुषामनुभवसिद्धं चैतदित्याह —
प्रत्यक्षेति ।
ननु विद्वद्भिरपि नास्माभिरिदमवगम्यते, तत्राह —
तत्त्वमिति ॥ १४ ॥