तैत्तिरीयश्रुत्यनुसारेण व्याख्यातुं प्रतिज्ञां पूरयति —
असदिति ।
मन्त्रब्राह्मणयोरैकार्थ्याद्ब्राह्मणस्यासन्दिग्धतया कारणार्थत्वान्मन्त्रस्यापि तादर्थ्यमेवेति पूर्वापरानुसन्धानेन साधयति —
यत इति ।
ब्रह्मास्तित्वलक्षणं निर्धार्य तस्मिन्नैव श्लोकमुदाहरतीति सम्बन्धः ।
कोशपञ्चकोक्तिद्वारा तस्य प्रत्यक्त्वमुक्तमित्याह —
अन्नेति ।
ब्रह्मणः सत्त्वे प्रत्यक्त्वेऽपि कारणस्यास्तित्वं कथमित्याशङ्क्य सूत्रं योजयति —
स इति ।
‘इदं सर्वमसृजत यदिदं किञ्च’ इत्याद्या सृष्टिश्रुतिः ।
उपक्रमोपसंहारयोरैकरूप्याद्वाक्यस्य कारणास्तित्वे तात्पर्यं सिध्यतीत्याह —
तदिति ।
मन्त्रब्रह्मणयोरैकार्थ्ये नियामकाभावाद्ब्राह्मणस्य कारणास्तित्वार्थत्वेऽपि मन्त्रस्य तन्न स्यादित्याशङ्क्याह —
तदपीति ।
व्यतिरेकद्वारोक्तं स्फोरयति —
यदीति ।
कथं तर्हि सति कारणेऽसच्छब्दप्रवृत्तिः, श्रुतिर्हि वाक्याद्बलीयसीत्याशङ्क्योपचाराद्युक्ता श्रुतिरित्याह —
तस्मादिति ।
सदेवेत्यत्र नामादिव्याकरणात्प्रगेव ब्रह्मणि सच्छब्दोऽस्तीति प्रायेणेत्युक्तम् ।
तैत्तिरीयकश्रुतावुक्तन्यायं बृहदारण्यकच्छान्दोग्यश्रुतावतिदिशति —
एषेति ।
ननु तैत्तिरीयके ब्राह्मणोक्तेऽर्थे मन्त्रोक्तेस्तयोरैकार्थ्याद्युक्तं कारणास्तित्वार्थत्वमिह तदभावात्कथं सदर्थत्वं, तत्राह —
तदिति ।
पूर्वमसदेव पुनः सद्भवतीति समाकर्षोपपत्तिमाशङ्क्याह —
अत्यन्तेति ।
शशविषाणादौ कालान्तरेऽपि सत्त्वानुपलम्भादासीच्छब्दस्य तच्छब्दस्य सच्छब्दस्य वाऽयोगादत्यन्तासत्त्वे समाकर्षासिद्धिरित्यर्थः ।
उक्तन्यायं छान्दोग्येऽपि योजयति —
तद्धेति ।
उदितानुदितहोमवद्विरुद्धार्थत्वेऽपि प्रामाण्यसिद्धेः शाखान्तरीयाभिप्रायेणैकीयमतोक्तौ का हानिरित्याशङ्क्याह —
क्रियायामिति ।
तर्हि का गतिरेकीयमतोक्तेरित्याशङ्क्याह —
तस्मादिति ।
सत्त्वेव सोम्येति समाकर्षादित्यत्रापि सूत्रं नेयम् ।
यत्तु स्वयङ्कर्तृकत्वमव्याकृतवाक्ये श्रुतं तद्दूषयति —
तद्धेदमिति ।
तत्रापि हेतुत्वेन सूत्रं योजयति —
स इति ।
ननु सर्वनामप्रसिद्धार्थं नाप्रसिद्धमुत्थापयति, तत्राह —
निरध्यक्षेति ।
यद्यपि यन्मदन्यदित्यत्रोक्तौ मच्छब्दार्थः सइति सर्वनाम्ना परामृश्यते तथाप्यव्याकृतवाक्येऽध्यक्षस्यासंनिहितत्वे कार्यानुप्रवेशित्वेनैष इति संनिहितावलम्बिना पराम्रष्टव्याभावात्तद्विरोधः स्यादित्यर्थः । तथापि कथं परामृष्टस्याध्यक्षत्वं, तत्राह —
चेतनस्येति ।
कार्यानुप्रविष्टस्य कुतश्चेतनत्वं, तत्राह —
प्रविष्टस्येति ।
पश्यन्नाम्ना चष्ट इति चक्षुरुक्तः । तथासौ कर्तृव्युत्पत्त्या श्रौत्रादिसंज्ञो भवति ।
इतश्च जगतो व्याकरणं साध्यक्षमेवेत्याह —
अपिचेति ।
विमतं सकर्तृकं, कार्यत्वात् , घटवदित्याह —
यादृशमिति ।
घटस्य सकर्तृकत्वेऽपि क्षित्यादेस्तन्नेति व्यवस्थामाशङ्क्याह —
दृष्टेति ।
न केवलमनुमानाज्जगतो व्याक्रिया साध्यक्षा किन्तु छान्दोग्यश्रुतेरपीत्याह —
श्रुत्यन्तरमिति ।
बृहदारण्यकापेक्षयान्तरशब्दः ।
श्रुत्यनुमानाभ्यां जगतः सकर्तृकत्वे कर्मकर्तरि लकारश्रुतिरयुक्तेत्याशङ्क्याह —
व्याक्रियत इति ।
तत्र सम्प्रतिपत्त्त्यर्थं दृष्टान्तमाह —
यथेति ।
कर्मकर्तरि लकार इत्येतदुक्तं, कर्मण्येवासावित्याह —
यद्वेति ।
कथं तर्हि जगतः सकर्तृकत्वं, तत्राह —
अर्थेति ।
तत्रापि लोकसिद्धं दृष्टान्तमाह —
यथेति ।
तदेवं श्रुतीनामविगानाद्ब्रह्मणि गतिसामान्यं सिद्धम् ॥ १५ ॥