बहूनां शब्दानां मिथो विरुद्धार्थानामविरोधेनैककारणार्थत्ववदेकस्य शब्दस्यानेकार्थस्य विशेषार्थत्वेन वाक्यस्य कारणपरत्वमाह —
जगदिति ।
अधिकरणस्य विषयमाह —
कौषीतकीति ।
श्रुतिं दर्शयन्नजातशत्रूक्तिमाह —
यो वा इति ।
एतेषामादित्यादीनाम् ।
न केवलं जगदेकदेशस्य कर्ता किन्तु जगतः सर्वस्येत्याह —
यस्येति ।
सामान्यविशेषार्थवाक्याभ्यां जगत्कर्ता ततो निष्कृष्टो द्रष्टव्य इत्याह —
स इति ।
कर्मशब्दस्य रूढियोगाभ्यां संशयमाह —
तत्रेति ।
विमृश्य पूर्वपक्षमाह —
किमिति ।
प्राणस्य प्रथमप्राप्तौ हेतुं पृच्छति —
कुत इति ।
एकवाक्ये सति सच्छब्दादसच्छब्दो नीतः, वाक्यभेेदे कर्मशब्दो ब्रह्मशब्दान्न शक्यो नेतुम् ।
अत्राप्येकवाक्यत्वे यथोत्तरसच्छब्दात्प्राचीनोऽसच्छब्दो नीतस्तथोत्तरकर्मशब्दाद्ब्रह्मशब्दस्य नयनमिति मत्वा हेतुमाह —
यस्येति ।
क्वाचित्कहैरण्यगर्भमतद्योतिकर्मशब्दस्य ब्रह्मानुगुण्योक्तिद्वारा गतिसामान्यं संसाध्य समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणजीवान्यतरस्य वेदितव्यतया ब्रह्मणि गतिसामान्यासिद्धिः, उत्तरत्र परस्यैव तथात्वात्तत्सिद्धिरिति फलम् ।
श्रुतेऽपि कर्मशब्दे कथं प्राणधीरन्यत्रापि तद्योगात् , तत्राह —
परिस्पन्देति ।
कर्मशब्दस्य क्रियादृष्टसाधारण्यादसाधारणप्रमाणाभावे कथं परिस्पन्देन प्राणधीः, तत्राह —
वाक्येति ।
करणोपरमानन्तर्यमथशब्दार्थः ।
प्राणशब्दस्यापि साधारण्यादनिर्णयं शङ्कित्वोक्तम् —
प्राणेति ।
पुरुषकर्तृत्वेनोक्तस्य न प्राणत्वं तस्य तदकर्तृत्वादित्याशङ्क्याह —
ये चेति ।
आदित्यादीनां प्राणावस्थााविशेषत्वे मानमाह —
कतम इति ।
‘महिमान एवैते’ इत्यादिना पूर्वोक्तदेवतानां प्रश्नप्रत्युक्तिभ्यां प्राणत्वोक्त्या तदवस्थात्वमुक्तमित्यर्थः ।
वाक्यान्तरे च लिङ्गस्यामूर्तरसस्य त्यदिति परोक्षसूत्रत्वोक्तेस्तस्येह त्यदिति प्राणत्वेन प्रत्यभिज्ञानात्तस्य लिङ्गरूपादित्यादिदेवतात्वमित्याह —
स इति ।
पक्षान्तरमाह —
जीवो वेति ।
तस्मिन्नमूर्ते कर्मशब्दायोगमाशङ्क्याह —
तस्येति ।
तथापि तनुमहिम्नोऽस्य नादित्यादिकर्तृत्वमित्याशङ्क्यादृष्टद्वारा तद्योगमाह —
सोऽपीति ।
कर्मशब्दस्य साधारणस्यादृष्टार्थत्वमुपेत्य कथं जीवोक्तिरित्याशङ्क्याह —
वाक्येति ।
तदेव स्फुटयति —
यदिति ।
‘तौ ह सुप्तं पुरुषमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहत्पाण्डरवासः सोमराजन्निति स नोत्तस्थौ’ इत्यादिना सम्बोधनशब्दाश्रुतेरचेतनत्वेनानात्मत्वं प्राणादेरुक्तातिरिक्तजीवोक्तेर्वाक्यशेषस्तदर्थः । नहि ततोऽन्यो भोक्तास्तीत्यर्थः ।
इतोऽपि वेदितव्यो जीव एवेत्याह —
तथेति ।
परस्तादिति ।
अनन्तरवाक्यापेक्षया पश्चादिति यावत् । श्रेष्ठी प्रधानपुरुषः। स्वैर्भृत्यैः । उपकरणैरित्येतत् ।
भृत्या वा प्रधानमशनाच्छादनादिनोपजीवन्तीत्याह —
यथेति ।
एवं जीवोऽप्यादित्यादिभिः । प्रकाशादिना भोगोपकरणैर्भुङ्के ।
भृत्यवदादित्यादयोऽपि जीवं हविर्ग्रहणादिनोपजीवन्तीत्याह —
एवमिति ।
‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दो जीवे कथं स्यात् , तत्राह —
प्राणेति ।
प्राणजीवयोरन्यतरस्य वेदितव्यत्वाद्गतिसामान्यासिद्धिरित्युपसंहरति —
तस्मादिति ।
‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमात् , उपसंहारे च स्वाराज्यफलोक्तेः, सर्वपाप्मदाहलिङ्गात् , क्रियत इति कर्मशब्दस्य जगदर्थत्वात् , तत्कर्तृत्वस्य परस्मिन्नेव युक्तत्वात् , परमात्मैवायमित्याशङ्क्य बालाकिवाक्यादजातशत्रुवाक्यनियमायोगात् , योगरूढ्योश्च रूढेर्बलीयस्त्वात् , फलोक्तेश्चोपचरितार्थत्वान्मैवमित्याह —
नेति ।
पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति —
एवमिति ।