लिङ्गसिद्धेरीश्वरे निरस्ते नियमासिद्धिरिति शङ्कते —
कस्मादिति ।
यद्वाक्यशेषे सन्दिग्धं तन्निश्चितेनोपक्रमेण नेतव्यमित्याह —
उपक्रमेति ।
तत्सामर्थ्यं दर्शयितुमुपक्रममाह —
इहेति ।
तद्वाक्ये ब्रह्मणोपक्रमेऽपि किमिति राज्ञो वाक्यं तद्विषयं नियम्यते, नहि भ्रान्तवाक्यादभ्रान्तवाक्यं नियन्तुं शक्यं, तत्राह —
स चेति ।
बालाकिना ब्रह्म नोक्तं चेत्तस्यैवोपक्रमो विरुध्येत, राज्ञस्तु तथानुपक्रमान्न तद्विरोधः, तेन तद्वाक्यस्याब्रह्मार्थतेत्याशङ्क्याह —
तमिति ।
तथापि कथं वेदितव्यस्य ब्रह्मत्वं, तत्राह —
यदीति ।
राज्ञा बालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता मुख्यं ब्रह्मैव वाच्यम् , अन्यथा स्वस्यापि मृषावादित्वात्ततोऽविशेषादित्यर्थः ।
उपक्रमसामर्थ्यसिद्धमुपसंहरति —
तस्मादिति ।
इतश्चेश्वर एव वेदितव्य इत्याह —
कर्तृत्वं चेति ।
प्राणावस्थाविशेषत्वादादित्यादीनां तस्य तत्कर्तृत्वं युक्तं, भोक्तुरप्यदृष्टद्वारा भोगोपकरणादित्यादिकर्तृत्वं स्यादित्याशङ्क्य निरङ्कुशं तत्कर्तृत्वमीश्वरस्यैवेति विशिनष्टि —
स्वातन्त्र्येणेति ।
किञ्च कर्मशब्दस्य चलनादृष्टयो रूढस्यान्यतरार्थत्वानियमात् क्रियत इति जगदर्थत्वात्तत्कर्तृत्वेन ब्रह्मैव ग्राह्यमित्याह —
यस्येति ।
एतच्छब्दस्य प्रकृतार्थत्वात्तत्समभिव्याहृतकर्मशब्दस्य तद्वशादन्यतरार्थत्वधीरित्याशङ्क्याह —
तयोरिति ।
उपपदाभावाच्च तस्य नान्यतरार्थतेत्याह —
असंशब्दितत्वाच्चेति ।
एतच्छब्देन प्रकृतगामिना प्रकृतत्वात्पुरुषा एव परामृश्यन्ते न जगदित्याशङ्क्याह —
नापीति ।
तदनुक्तौ हेत्वन्तरमाह —
लिङ्गेति ।
पुरुषाणां बहुत्वात्पुंलिङ्गशब्दवाच्यत्वात् , एतदित्येकस्य नपुंसकस्य चोक्तेर्न पुरुषोक्तिरित्यर्थः ।
पुरुषाणां पृथक्कथनेऽपि तदर्थक्रियायास्तत्फलस्य च कार्यजन्मनोऽनुक्तत्वादेतत्कर्मेति तदुक्तौ न पौनरुक्त्यमित्याशङ्क्याह —
नापीति ।
क्रियातत्फले कर्तारं वदता कर्तृशब्देनैवाक्षिप्ते । ताभ्यां कर्तुरवच्छेदादित्यर्थः ।
परिशेषसिद्धमर्थमाह —
पारिशेष्यादिति ।
तस्य कथं कर्मशब्दत्वं, नहि तच्चलनमदृष्टं वा, तत्राह —
क्रियत इति ।
प्रकरणोपपदयोरसत्त्वाविशेषे सर्वनामसमानाधिकृतकर्मशब्दस्य कर्मव्युत्पत्त्या कुतो जगदर्थतेति शङ्कते —
नन्विति ।
सर्वनाम्नः संननिहितार्थत्वादुपपदाद्यभावे विशेषे सङ्कोचायोगादेतच्छब्दसहितकर्मशब्देन जगदेवोक्तमित्याह —
सत्यमिति ।
किञ्चाप्रकृतत्वमपि जगतो नास्ति, तदेकदेशानां पुरुषाणां प्रकृतत्वात्तद्वारा कृत्स्नजगदुक्तियोगादित्याह —
पूर्वत्रेति ।
तर्हि तन्मात्रमेव सर्वनाम्नां ग्राह्यं, श्रुतिलक्षणयोः श्रुतेरौचित्यादित्याशङ्क्य तदत्यागान्मैवमित्याह —
अविशेषितमिति ।
तर्हि सर्वनाम्ना जगद्ग्राहिणा पुरुषाणामपि ग्रहादेतेषामित्यादिपृथगुक्तिरनर्थिकेत्याशङ्क्याह —
एतदिति ।
यस्य कृत्स्नं जगत्कर्म स वेदितव्य इति सम्बन्धः ।
वाशब्दाद्वेदितृविकल्पं प्रत्याह —
वाशब्द इति ।
तथापि ‘पुरुषाणां कर्ता यस्य वैतत्कर्म’ इति कुतो भेदोक्तिः, जगत्कर्तृत्वोक्तेरेवादित्यादिकर्तृत्वसिद्धेरित्याशङ्क्याह —
य इति ।
उक्तन्यायात्कर्मशब्दस्य जगदर्थत्वे वाक्यार्थमुपसंहरति —
एवमिति ।
ब्रह्माणा भोजयितव्याः परिव्राजकाश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणग्रहणवदत्रापि व्यपदेशाभ्यां सर्वजगत्कर्ता वेदितव्यत्वेनोक्त इत्यर्थः ।
तथापि कथं वाक्यस्य ब्रह्मपरत्वमपरस्यापि जगत्कर्तुर्वेदितव्यत्वयोगात्, तत्राह —
परमेति ।
उपनिषदामैदम्पर्यालोचनायामन्यस्य सर्वजगत्कर्तृत्वायोगादत्र कृत्स्नजगत्कर्ता वेदितव्यः पर एवेत्यर्थः ॥ १६ ॥