ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
अथ यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं परमेश्वरस्येति, तत्परिहर्तव्यम्अत्रोच्यतेपरिहृतं चैतत् नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ (ब्र. सू. १ । १ । ३१) इत्यत्रत्रिविधं ह्यत्रोपासनमेवं सति प्रसज्येतजीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति चैतन्न्याय्यम्उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यतेतत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम्उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते — ‘सर्वान्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति एवं वेदइतिनन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत निर्णीयते, ‘यस्य वैतत्कर्मइत्यस्य ब्रह्मविषयत्वेन तत्र अनिर्धारितत्वात्तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवर्त्यतेप्राणशब्दोऽपि ब्रह्मविषयो दृष्टः प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इत्यत्रजीवलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ १७ ॥

सिद्धान्तमुक्त्वा परोक्तमनूद्य प्रत्याह —

जीवेति ।

अनुवादं विवृणोति —

अथेति ।

सूत्रावयवेन परिहरति —

अत्रेति ।

उक्तमेव सङ्क्षिप्य स्मारयति —

त्रिविधमिति ।

अस्तूपास्तित्रैविध्यं, का क्षतिः, तत्राह —

न चेति ।

उपक्रमोपसंहारैकरूप्यसिद्धवाक्यैक्यभङ्गान्न त्रैविध्यमित्यर्थः ।

हेत्वसिद्धिमाशङ्क्योक्तम् —

तत्रेति ।

दर्शितम् ।

उपक्रमसामर्थ्यादित्यादिनेति शेषः ।

तथापि कथमुपसंहारस्य ब्रह्मार्थत्वं, तत्राह —

उपसंहारस्येति ।

श्रैष्ठ्यं गुणाधिक्यम् । आधिपत्यमैश्वर्यम् । स्वाराज्यमनन्याधीनत्वम् ।

प्रातर्दनविचारेण गतत्वादधिकरणमिदमनर्थकमिति शङ्कते —

नन्विति ।

तत्रोपक्रमोपसंहारैकरूप्यादेकवाक्यत्वे जीवप्राणलिङ्गे ब्रह्मपरतया नीते तुल्यमत्रापि वाक्यैक्यमिति नार्थोऽधिकरणस्येत्यर्थः ।

कर्मशब्दस्यात्र चलनादृष्टयो रूढेस्तद्वशाद्वाक्यस्य जीवप्राणान्यतरपरत्वाद्वाक्यभेदे शङ्किते तन्निरासार्थमधिकरणमित्याह —

नेत्यादिना ।

तस्मात् ।

अनन्तरोक्ताद्यस्येत्यादिवाक्यादिति यावत् । प्रकृताधिकरणं सप्तम्यर्थः ।

यत्तु वाक्यशेषे प्राणशब्दान्मुख्यप्राणार्थं वाक्यमिति, तत्राह —

प्राणेति ।

मनस्तदुपाधिको जीवः । प्राणबन्धनं परमात्माश्रयः ।

यत्तु वाक्यशेषे जीवलिङ्गं दृष्टमिति, तत्राह —

जीवेति ॥ १७ ॥