ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
अपि नैवात्र विवदितव्यम्जीवप्रधानं वेदं वाक्यं स्यात् ब्रह्मप्रधानं वेतियतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यतेकस्मात् ? प्रश्नव्याख्यानाभ्याम्प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यतेक्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्’ (कौ. ब्रा. ४ । १९) इतिप्रतिवचनमपियदा सुप्तः स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. ब्रा. ४ । २०) इत्यादि, ‘एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःइति सुषुप्तिकाले परेण ब्रह्मणा जीव एकतां गच्छति; परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादातस्माद्यत्रास्य जीवस्य निःसम्बोधतास्वच्छतारूपः स्वापःउपाधिजनितविशेषविज्ञानरहितं स्वरूपम् , यतस्तद्भ्रंशरूपमागमनम् , सोऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यतेअपि चैवमेके शाखिनो वाजसनेयिनोऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २ । १ । १६) इति प्रश्नेप्रतिवचनेऽपि एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इतिआकाशशब्दश्च परमात्मनि प्रयुक्तः दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । २) इत्यत्र । ‘सर्व एत आत्मानो व्युच्चरन्तिइति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यतेप्राणनिराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः ॥ १८ ॥

जीवलिङ्गेनापि लक्ष्यते प्रत्यग्ब्रह्मेत्युक्तम् । इदानीं तल्लिङ्गाज्जीवोक्तिमुपेत्य वाक्यतात्पर्यगम्यं ब्रह्मैवेत्याह —

अन्यार्थं त्विति ।

इतश्च वाक्यं ब्रह्मर्थमेवेति ।

सूत्रं व्याकरोति —

अपि चेति ।

तत्र तुशब्दं व्याकुर्वन्प्रतिजानीते —

नैवेति ।

तत्र हेतुत्वेनान्यार्थमित्यादि विभजते —

यत इति ।

जीवपरामर्शस्य ब्रह्मप्रतिपत्त्यर्थत्वे हेतुं पृच्छति —

कस्मादिति ।

सौत्रं पदमादाय प्रश्नं व्याचष्टे —

प्रश्न इति ।

जीवाधिकरणभवनापादानविषयत्वाज्जीवातिरिक्तार्थता प्रश्नस्येत्यर्थः ।

तत्राधिकरणप्रश्नमुदाहरति —

क्वैष इति ।

हे बालाके, शयनमेतद्यथा तथैव पुरुषः कस्मिन्नधिकरणे स्वापे शयनं कृतवानित्यर्थः ।

भवनायतनं पृच्छति —

क्वेति ।

एतद्भवनं यथा स्यात्तथा क्वाश्रये सुप्तोऽभूदित्यर्थः ।

स्वापेशयनभवनयोराधारं पृष्ट्वोत्थानावस्थायामागमनापादानं पृच्छति —

कुत इति ।

एतदागमनं यथा तथा कस्मादुद्बोधदशायामागादुत्थानं कृतवानित्यर्थः ।

व्याख्यानं व्याचष्टे —

प्रतिवचनमिति ।

तत्र प्राणशब्दात्कुतो ब्रह्मधीः, तत्राह —

एतस्मादिति ।

सर्वकारणत्वोक्तेरत्र ब्रह्म सिद्धमित्यर्थः ।

सर्ववेदान्तप्रसिद्धं चैतदित्याह —

सुषुप्तीति ।

उक्तमर्थमुपसंहारव्याजेनोपपादयति —

तस्मादिति ।

यतो निःसम्बोधः स्वच्छतारूपः स्वापो विक्षेपाभावात् , सोऽस्य जीवस्य यत्र भवति स परमात्मेति योज्यम् ।

ननु निःसम्बोधित्वं स्वापस्यासिद्धं, ‘नहि द्रष्टुः’ इत्यादिश्रुतेः, तत्राह —

उपाधीति ।

अत एवोक्तं ‘पश्यन्वै तन्न पश्यति’ इति ।

आगत्यपादानमपि ब्रह्मैवेत्याह —

यत इति ।

तद्भ्रंशेत्यत्र तच्छब्दः स्वापार्थः ।

न केवलं कौषीतकिनां प्रश्नादिना जीवातिरिक्ताम्नानं किन्तु वाजसनेयिनामपीत्याह —

अपिचेति ।

तदेति स्वापोक्तिः ।

नन्वाकाशस्तत्र शयनस्थानमुक्तं न ब्रह्म, तत्राह —

आकाशेति ।

इतश्च प्रत्युक्तेर्ब्रह्मार्थतेत्याह —

सर्व इति ।

जीवनिरासतया सूत्रं व्याख्याय प्राणनिरासेऽपि तस्य तात्पर्यमाह —

प्राणेति ।

अस्मिन्वाक्ये प्राणोपदेशमन्यार्थमेवातिरिक्तात्मप्रतिपत्त्यर्थं जैमिनिर्मन्यते । प्राणातिरिक्ताज्जीवादपि व्यतिरिक्तार्थाभ्यामुक्तप्रश्नप्रत्युक्तिभ्यां प्राणमात्रे वाक्यस्यापर्यवसानात् । किञ्च वाजसनेयिनोऽपि ‘यत्रैष एतत्’ इत्यादिना प्राणादिव्यतिरिक्तं जीवं वदन्तो वाक्यस्य परस्मिन्पर्यवसानं पश्यन्तीति सूत्रस्यात्र योजना । तदेवं जीवप्राणातिरिक्ते ब्रह्मणि दर्शितवाक्यान्वयादनपवादं वेदान्तानां ब्रह्मणि गतिसामान्यमिति ॥ १८ ॥