जीवेतरपरविषयत्वे प्रश्नादिना वाक्यस्योक्ते जीवपरभेदमाशङ्क्यात्मशब्दोपक्रान्तस्य ब्रह्मधर्मवत्तया मैत्रेयिब्राह्मणे निर्देशादौपाधिको भेदो वास्तवमैक्यमित्याह —
वाक्येति ।
विषयवाक्यमादत्ते —
बृहदिति ।
आत्मशेषत्वेन पत्यादेः सर्वस्य प्रियत्वादनन्यार्थतया निरुपाधिप्रियत्वेनानतिशयानन्दस्यात्मनो ज्ञातव्यत्वं मत्वाह —
न वा इति ।
आत्मनो दर्शनयोग्यतामुक्त्वा तद्दर्शनमनूद्य तद्धेतुत्वेनाङ्गाङ्गितया श्रवणादिनि दर्शयति —
आत्मेति ।
आत्मवेदने वेदितव्यान्तराभावात्कृतकृत्यतेत्याह —
आत्मन इति ।
उक्तवाक्यस्थमात्मानमधिकृत्य संशयमाह —
तत्रेति ।
प्रश्नपूर्वकं जीवब्रह्मलिङ्गदर्शनं संशयहेतुमाह —
कुत इति ।
प्रियसंसूचितेन पतिजायादिभिः प्रियैर्भौग्यैरनुमितेन भोक्त्रेत्यर्थः ।
विमृश्य पूर्वपक्षयति —
किं तावदिति ।
सत्युभयलिङ्गे विशेषदृष्टौ हेतुं पृच्छति —
कस्मादिति ।
ब्रह्मोपक्रमात्तत्परत्ववदत्रापि जीवोपक्रमात्तत्परतेत्याह —
उपक्रमेति ।
मैत्रेयीब्राह्मणस्य जीवमात्रत्वं निषिध्य ब्रह्मण्यन्वयोक्त्या गतिसामान्यदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे ब्राह्मणस्य भोक्त्रर्थतया गतिसामान्यासिद्धौ ब्रह्मकारणत्वासिद्धिः, सिद्धान्ते तस्य प्रत्यग्ब्रह्मार्थत्वेन गतिसामान्यसिद्धेस्तत्सिद्धिरिति फलभेदः ।
उपक्रमसामर्थ्यमेव स्फुटयन्नुपक्रमं दर्शयति —
पतीति ।
जीवस्योपक्रान्तत्वेऽपि परस्य द्रष्टव्यत्वमाशङ्क्य तत्सामर्थ्यं कथयति । अनन्तरमिति । अन्यस्य दर्शनाद्युक्तावुपक्रमो भज्येतेत्यर्थः ।
इतश्च जीवस्यैव द्रष्टव्यतेत्याह —
मध्येऽपीति ।
इदं प्रत्यक्तत्वम् । महदनवच्छिन्नम् । भूतं परमार्थसत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् । विज्ञानघनो विज्ञानमात्रम् । तत्र जात्यन्तरासंमिश्रत्वमेवार्थः । स वै तेभ्यः कार्यकारणाकारपरिणतेभ्योऽविद्याभूतेभ्यो भूतेभ्यः साम्येनोत्थाय जीवत्वमनुभूय तान्येव भूतानि ज्ञानाद्विनश्यन्त्यनु पश्चाद्विनश्यति विशेषात्मत्वं त्यजति । नच तत्त्यागानन्तरमस्य रूपादिधीरस्तीत्यर्थः ।
ब्रह्मणो द्रष्टव्यत्वे तस्य जीवत्वेनोत्थानोक्तेरयोगात्तस्यैवात्र द्रष्टव्यतेति वाक्यार्थं सङ्गृह्णाति —
प्रकृतस्येति ।
ज्ञानकर्तृत्वोक्तेरुपक्रमादिवदुपसंहारस्यापि जीवपरत्वमाह —
तथेति ।
जीवपक्षे कथमेकविज्ञानेन सर्वविज्ञानमित्याशङ्क्योपक्रमादिना तदौपचारिकमित्याह —
तस्मादिति ।
भोक्तुर्भोग्यं प्रति प्राधान्यात्तज्ज्ञाने तद्धीरुपचरितेत्यर्थः ।
आदिमध्यावसानेभ्यो मैत्रेयीब्रह्मणस्य जीवेऽन्वयान्न ब्रह्मणि गतिसामान्यमित्येतदनूद्य सिद्धान्तमवतार्य बहिरेव प्रतिजानीते —
एवमिति ।