ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वाक्यान्वयात् ॥ १९ ॥
परमात्मोपदेश एवायम्कस्मात् ? वाक्यान्वयात्वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रत्यन्वितावयवं लक्ष्यतेकथमिति? तदुपपाद्यते — ‘अमृतत्वस्य तु नाशास्ति वित्तेनइति याज्ञवल्क्यादुपश्रुत्ययेनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहिइत्यमृतत्वमाशासानायै मैत्रेय्यै याज्ञवल्क्य आत्मविज्ञानमिदमुपदिशति चान्यत्र परमात्मविज्ञानादमृतत्वमस्तीति श्रुतिस्मृतिवादा वदन्तितथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते चैतदौपचारिकमाश्रयितुं शक्यम् , यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति — ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेदइत्यादिनायो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति, तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति भेददृष्टिमपोद्य, ‘इदꣳ सर्वं यदयमात्माइति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयतिदुन्दुभ्यादिदृष्टान्तैश्च’ (बृ. उ. ४ । ५ । ८) तमेवाव्यतिरेकं द्रढयतिअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः’ (बृ. उ. ४ । ५ । ११) इत्यादिना प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्चकारणतां व्याचक्षाणः परमात्मानमेनं गमयतितथैवैकायनप्रक्रियायामपि सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयतितस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते ॥ १९ ॥

जीवोपदेशस्य दर्शितत्वान्नियमासिद्धिरित्याह —

कस्मादिति ।

नियामकं सूत्रमादायाक्षराणि व्याचष्टे —

वाक्येति ।

आदिमध्यावसानेषु जीवे भाति ब्रह्म प्रति वाक्यस्यान्वितावयवत्वं नेति शङ्कते —

कथमिति ।

जीवपरामर्शस्यान्यथासिद्धिं वक्ष्यमाणां विवक्षित्वाह —

तदिति ।

वित्तेन तत्साध्येन कर्मणेत्यर्थः ।

कर्मसाधनं वित्तं न चेदिष्टं किं तर्हि तवेष्टं , तदाह —

यदेवेति ।

अमृतत्वसाधनत्वेनात्मज्ञानस्योक्तेरात्मनो ज्ञातव्यस्य ब्रह्मतेत्यर्थः ।

अमृतत्वायोक्तमपि ज्ञानं जीवविषयं स्यादित्याशङ्क्याह —

न चेति ।

ब्रह्मज्ञानं विना नामृतत्वमित्यत्र मानमाह —

इति श्रुतीति ।

‘नान्यः पन्था’ ‘न कर्मणा’ इत्यादयः श्रुतिवादाः । ‘ज्ञानादेव तु कैवल्यम्’ इत्यादयः स्मृतिवादाः ।

इतश्च ब्रह्मपरमेव वाक्यमित्याह —

तथेति ।

परस्य परमकारणत्वात्तज्ज्ञानाद्युक्तं सर्वज्ञानमिति विशिनष्टि —

परमेति ।

भोक्त्रर्थत्वाद्भोग्यजातस्य सर्वविज्ञानं जीवेऽपि गौणं स्यात्किं मुख्येनेत्याशङ्क्य प्रतिपादनवैयर्थ्यान्मैवमित्याह —

न चेति ।

भेददृष्टिनिन्दापूर्वकमभेदं वददिदं वाक्यमेकविज्ञानेन सर्वविज्ञानं वक्तीति वक्तुमस्यार्थमाह —

यो हीति ।

जगतो ब्रह्माधीनस्य प्रातीतिकमन्यत्वमनुज्ञातुं स्वातन्त्र्येणेत्युक्तम् । पराकरोति पुरुषार्थात्पराकुर्यात् । प्रच्यावयेदिति यावत् ।

किञ्चात्मैव जगतस्तत्त्वमिति दृष्टान्तेन वदन्ती श्रुतिरेकधिया सर्वधियं साधयतीत्याह —

दुन्दुभ्यादीति ।

यथा दुन्दुभेर्हन्यमानस्य यथा शङ्खस्य ध्मायमानस्य यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणायेत्यादिदृष्टान्तैर्दुन्दुभ्यादिशब्दसामान्याद्दुन्दुभ्यादिशब्दभेदाभेदेनागृह्यमाणाः शुक्त्यग्रहे ग्राह्यरजतवत्तत्र कल्पिताः । तथा चिद्रूपस्फुरणं विना स्थितिकाले स्फुरणशून्यं जगच्चिद्रूपे कल्पितमित्यैक्यमुक्तमित्यर्थः ।

एकविज्ञानेन सर्वविज्ञानस्योपपाद्यमानत्वात्तदनौपचारिकमिति प्रकरणं ब्रह्मविषयमित्युक्तम् । इदानीं द्रष्टव्यस्य जगत्कारणत्वोक्तेरपि तद्वाक्यं ब्रह्मार्थमित्याह —

अस्येति ।

किञ्च ‘स यथा सर्वासामपां समुद्र एकायनम्’ इति दृष्टान्तेन ब्रह्मणः सर्वजगदवसानत्वेनाभिधानात्तद्विषयमेव द्रष्टव्यादिवाक्यमित्याह —

तथेति ।

स्थित्युत्पत्तिलयोक्त्यालोचनातः सिद्धमुपसंहरति —

तस्मादिति ॥ १९ ॥