प्रथममाश्मरथ्यमतमाह —
प्रतिज्ञेति ।
प्रतिज्ञासिद्ध्यर्थं प्रतिज्ञामाह —
अस्तीति ।
अत्रेति प्रकृतब्राह्मणवाक्योक्तिः ।
तदर्थं प्रतिज्ञान्तरमाह —
इदमिति ।
ऐक्यप्रतिज्ञया सर्वविज्ञाने विवक्षितेऽपि जीवोपक्रमस्य किं जातं, तदाह —
तस्या इति ।
तदेव व्यतिरेकद्वारा स्पष्टयति —
यदीति ।
‘प्रितज्ञासिद्धेर्लिङ्गम्’ इति व्याख्यायावशिष्टं व्याख्यास्यन्नुपसंहरति —
तस्मादिति ।
भेदोभेदवादद्योतनायाभेदांशेनेत्युक्तम् ॥ २० ॥