मतान्तरमाह —
उत्क्रमिष्यत इति ।
विभजते —
विज्ञानेति ।
मुक्तावेवाभेदः संसारे भेद एवेत्युक्तेऽर्थे मानमाह —
श्रुतिश्चेति ।
अभिन्नस्यापि जीवस्यौपाधिकभेदविगमादभिनिष्पत्तिरौपचारिकीत्याशङ्क्य नामरूपाश्रयत्वकालुष्यस्य श्रुत्यन्तरे स्वाभाव्योक्तेः । साध्य एवाभेदो न स्वभावत इत्याह —
क्वचिदिति ।
उक्तं कालुष्यमपि किमित्यौपचारिकं न स्यादित्याशङ्क्य वाक्ये दृश्यमानमर्थमाह —
यथेति ।
नदीनां नामरूपाश्रयत्वेऽपि कुतो जीवस्य तदाश्रयत्वं, तत्राह —
दृष्टान्तेति ॥ २१ ॥