सिद्धान्तमाह —
अवस्थितेरिति ।
सूत्रं व्याचष्टे —
अस्यैवेति ।
जीवपरयोरभेदाज्जीवेनोपक्रमः परेणैवोपक्रमः । भोक्त्रोपक्रमश्च स्थूलदर्शिलोकसौकर्यायेति भावः ।
परस्यैव जीवेनावस्थाने मानमाह —
तथाचेति ।
न केवलं ब्राह्मणं परापरयोरैक्यं दर्शयति किन्तु मन्त्रश्चेत्याह —
मन्त्रेति ।
धीरः सर्वज्ञः सर्वाणि रूपाणि चराचराणि शरीराणि विचित्य निर्माय तेषां नामानि च कृत्वा स्वयं तत्रानुप्रविश्याभिवदनादि कुर्वन्यो वर्तते तमेवंभूतं विद्वानिहैवामृतो भवतीति मन्त्रोऽपि परस्यैव जीवेन स्थितिमाहेत्यर्थः ।
तेजःप्रभृतीनामिव जीवस्य ब्रह्मकार्यत्वाद्ब्रह्मज्ञाने सर्वज्ञानसिद्धेरात्यन्तिकमैक्यं श्रुतमप्युक्तमित्याशङ्क्याह —
न चेति ।
समीचीनसङ्ग्रहार्थं पक्षत्रयं विभजते —
काशेति ।
आश्मरथ्यपक्षेऽपि तुल्यं जीवस्य परस्मादनन्यत्वं नेत्याह —
आश्मरथ्यस्येति ।
अभेदवद्भेदस्यापि भावात्कियानपीत्युक्तम् ।
आद्यपक्षादपि द्वितीयपक्षस्यानपेक्षितत्वार्थं तत्रत्यमर्थमाह —
औडुलोमीति ।
अवस्थान्तरे बन्धमोक्षौ ।
संप्रत्यन्तिमस्यादेयत्वमाह —
तत्रेति ।
इतरस्यापि द्वयस्य दर्शितं श्रुतिमूलत्वमित्याशङ्क्योक्तश्रुतेस्तत्रातात्पर्यान्मैवमित्याह —
प्रतीति ।
पारोक्ष्यसद्वयत्वनिवृत्त्या तत्त्वमर्थयोरैक्यवादिवाक्यानुसारित्वादन्तिमस्यादेयतेत्यर्थः ।
कथमीदृग्वाक्यार्थस्येष्टत्वं, तत्राह —
तत्त्वमिति ।
किञ्च भेदाभेदयोर्वस्तुत्वे वस्तुभूतभेदस्य ज्ञानेनानुच्छेदाज्ज्ञानान्मुक्तिश्रुतिरयुक्ता स्यात् , तस्मादात्यन्तिकमैक्यमेव तात्त्विकमित्याह —
एवं चेति ।
चकारोऽवधारणे ।
जीवस्य ब्रह्मकार्यत्वेऽपि तत्तादात्म्यरूपममृतत्वं स्यादित्याशङ्क्याह —
विकारेति ।
जीवस्योत्पत्तिप्रलयौ चेत्काण्डद्वयं विरुध्येतेति भावः ।
नदीदृष्टान्तेन स्वगतं नामरूपमन्यथा दृष्टान्तवैषम्यादतोऽन्यत्वमपीत्युक्तमित्यासङ्क्याह —
अतश्चेति ।
आत्यन्तिकाभेदे ज्ञानादमृतत्वयोगादित्यतः शब्दार्थः । दृष्टान्तश्रुतेरन्यथापि नेतुं शक्यत्वात्तदनुरोधात्तत्त्वमादिविरुद्धं न कल्प्यमिति भावः ।
जीवस्याग्निविस्फुलिङ्गदृष्टान्तात्प्राणादिवज्जन्मश्रुत्या भेदाभेदपक्षस्य प्रामाणिकत्वं, तत्राह —
अत इति ।
अनौपाधिके जन्मनि ज्ञानादमृतत्वासिद्धेरेवेत्यर्थः ।