ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या । ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’ — इदमत्र प्रतिज्ञातम् — ‘आत्मनि विदिते सर्वमिदं विदितं भवतिइदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति ; उपपादितं सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात्; तस्या एव प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् , यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यतेअभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । ‘उत्क्रमिष्यत एवंभावादित्यौडुलोमिः’ — उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्सम्प्रसन्नस्य परेणात्मनैक्यसम्भवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते । ‘अवस्थितेरिति काशकृत्स्नः’ — अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यतेनूच्छेदाभिधानमेतत्एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति प्रेत्य संज्ञास्ति’ (बृ. उ. २ । ४ । १२) इतिकथमेतदभेदाभिधानम् ? नैष दोषःविशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् , नात्मोच्छेदाभिप्रायम् । ‘अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तिइति पर्यनुयुज्य, स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् — ‘ वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवतिइतिएतदुक्तं भवतिकूटस्थनित्य एवायं विज्ञानघन आत्मा; नास्योच्छेदप्रसङ्गोऽस्तिमात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवतिसंसर्गाभावे तत्कृतस्य विशेषविज्ञानस्याभावात् प्रेत्य संज्ञास्तिइत्युक्तमितियदप्युक्तम् — ‘विज्ञातारमरे केन विजानीयात्इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यत्वमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्अपि यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १५) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य, ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधातिपुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्क्य, ‘विज्ञातारमरे केन विजानीयात्इत्याहततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यतेदर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदः, पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यःसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)ब्रह्मैवेदं सर्वम्इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्येवंरूपाभ्यः श्रुतिभ्यःस्मृतिभ्यश्चवासुदेवः सर्वमिति’ (भ. गी. ७ । १९) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्येवंरूपाभ्यःभेददर्शनापवादाच्चअन्योऽसावन्योऽहमस्मीति वेद यथा पशुः’ (बृ. उ. १ । ४ । १०) मृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इत्येवंजातीयकात् वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) इति आत्मनि सर्वविक्रियाप्रतिषेधात्अन्यथा मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्चनिरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यतेवेदान्तविज्ञानसुनिश्चितार्थाः’ (मु. उ. ३ । २ । ६) इति श्रुतेःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति स्थितप्रज्ञलक्षणस्मृतेश्चस्थिते क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकःएको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति हि सत्यं ज्ञानमनन्तं ब्रह्मयो वेद निहितं गुहायाम्’ (तै. उ. २ । १ । १) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम् ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति, तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेव प्रवेशश्रवणात्ये तु निर्बन्धं कुर्वन्ति, ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्तेकृतकमनित्यं मोक्षं कल्पयन्तिन्यायेन सङ्गच्छन्त इति ॥ २२ ॥

द्वितीयं पूर्वपक्षबीजमनुभाषते —

यदपीति ।

प्रकृतत्रिसूत्र्या प्रत्याह —

तत्रापीति ।

योजनाप्रकारमेव दर्शयितुमाश्मरथ्यमतमाह —

प्रतिज्ञेति ।

तद्व्याख्या तु प्रतिज्ञास्वरूपमाह —

इदमिति ।

आत्मनि विदिते विदितत्वं कथं प्रपञ्चे स्यादिति सन्दिहानं प्रत्याह —

इदं सर्वमिति ।

सर्वस्यात्ममात्रत्वमुक्तमपि कुतो मुख्यमित्याशङ्क्याह —

उपपादितं चेति ।

सर्वस्यात्ममात्रत्वमिति शेषः ।

उपपादनप्रकारं सूचयति —

एकेति ।

‘स यथार्द्रैधोग्नेः’ इत्यादिनैकप्रसवत्वं, ‘स यथा सर्वासामपाम्’ इत्यादिना चैकप्रलयत्वं सर्वस्योक्तम् । यच्च यस्मादुत्पद्यते यत्र लीयते तत्ततो नातिरिच्यते, यथा घटादि मृदादेः । तस्मादात्मप्रभवत्वादात्मप्रलयत्वाच्च सर्वस्य जगतस्तन्मात्रत्वम् । तथाचात्मधिया सर्वधीरित्यर्थः ।

दृष्टान्तश्रुतेरपि सर्वस्य कार्यप्रपञ्चस्यात्ममात्रत्वसिद्धेर्मुख्यमेव प्रतिज्ञातमैक्यमित्याह —

दुन्दुभ्यादीति ।

प्रतिज्ञां व्याख्यायावशिष्टं व्याचष्टे —

तस्या इति ।

प्रतिज्ञां घटयितुं परस्य जीवत्वेनोत्थानं किमित्युच्यते, तत्राह —

अभेदे हीति ।

मतान्तरमाह —

उत्क्रमिष्यत इति ।

सिद्धान्तमाह —

अवस्थितेरिति ।

परापरयोरभेदाभिधानमिदमित्युक्तमाक्षिपति —

नन्विति ।

विनाशोक्तेर्विषयान्तरसम्भवादात्मन उच्छेदाविषयत्वाद्युक्तमभेदाभिधानमित्याह —

नेति ।

अविशेषश्रुतेर्विशेषार्थत्वे नियामकमाह —

अत्रेति ।

मोहं मोहनं वाक्यमिति यावत् । अविनाशीति विनाशायोग्यत्वमनुच्छित्तिधर्मेति विनाशायागित्वमुक्तमिति भेदः ।

कथं तर्हि ‘न प्रेत्य' इत्यादि, तत्राह —

मात्रेति ।

कथमेतावता मिथोविरोधसमाधिरित्याशङ्क्य श्रुतितात्पर्यमाह —

एतदिति ।

तृतीय पूर्वपक्षबीजमनुवदति —

यदपीति ।

उपसंहारात्कर्तृत्वस्य च विज्ञानात्मन्येव सम्भवादिति शेषः ।

भेदाभेदवादे जीवस्येश्वरेण भिन्नेनावगतियोगात् ‘विज्ञातारमरे केन’ इत्याक्षेपायोगादत्यन्ताभेदे कर्मकरणयोरभावादाक्षेपसिद्धेरन्तिमपक्षस्यैकदेयत्वमित्युत्तरमाह —

तदपीति ।

तन्मते जीवपरयोरभेदाज्जीवस्य भ्रान्तं ज्ञातृत्वं भूतपूर्वगत्या तृजन्तेनोक्तमिति भावः ।

श्रुतिपौर्वापर्यालोचनायामपि जीवस्य भ्रान्तं ज्ञातृत्वमित्याह —

अपि चेति ।

अन्वयव्यतिरेकाभ्यां द्वैतदृष्टेराविद्यकत्वेऽपि प्रत्यग्दृष्टिरविद्यानपेक्षेत्याशङ्क्याह —

पुनश्चेति ।

एकस्यैव कर्मकर्तृत्वविरोधादित्यर्थः ।

विज्ञातारमित्यादिवाक्यस्यान्यपरत्वे फलितमाह —

ततश्चेति ।

ननु पक्षेषु त्रिषु सत्सु काशकृत्स्नस्यैव पक्षे पक्षपाते को हेतुः, तत्राह —

दर्शितं त्विति ।

तस्य श्रुतिमत्त्वे फलितमुपसंहरति —

अतश्चेति ।

उक्तार्थस्योपगन्तव्यत्वे श्रुतिस्मृतिमत्त्वं पुनरुपन्यस्यति —

सदित्यादिना ।

इतोऽपि परापरयोराविद्यो भेदो न पारमार्थिक इत्याह —

भेदेति ।

भेदाभेदवादेऽपि सर्वमेतदभेदांशाद्युक्तमित्याशङ्क्य तत्पक्षे जीवस्य कार्यत्वादात्मविक्रियानिषेधविरोधः स्यादित्याह —

स वा इति ।

अभेदांशेन निषेधादिसिद्धेरेतदपि मतद्वयं श्रुतिमदेवेत्याशङ्क्य तत्पक्षे वैदिकात्मैक्यधियो निरपवादत्वायोगान्मुक्तेरसिद्धिरित्याह —

अन्यथेति ।

भिन्नाभिन्नत्वमिति निश्चितार्था धीरनपवादेत्याशङ्क्य भेदाभेदयोर्विरोधादसमुच्चयादेकस्य बलीयस्त्वे तदितरज्ञानस्य बाधातुल्यबलत्वे संशयान्निरपवादत्वासिद्धिरित्याह —

सुनिश्चितेति ।

ज्ञानं सिध्यति चेत्तावतैव पुमर्थसिद्धौ कृतं निरपवादत्वेनेत्याशङ्क्याह —

निरपवादं हीति ।

न केवलमङ्गीकारमात्रं, श्रुत्यनुकूलं चैतदित्याह —

वेदान्तेति ।

ये यतयो यतनशीला नियतबाह्यकरणाः श्रुद्धबुद्धयश्च ते विषयवैतृष्ण्यद्वारा सर्वकर्मसंन्यासपूर्वकश्रवणाद्यनुष्ठानरूपाद्योगाभ्यासाद्वेदान्तकरणकसाक्षात्कारादपरोक्षीकृतात्मानो मुच्यन्त इत्यर्थः ।

इतश्चैकमेव तत्त्वं नानेकमपीत्याह —

तत्रेति ।

एकत्वमाचार्योपदेशमनुपश्यतः शोकमोहोपलक्षितसर्वानर्थोपशान्तिरिति श्रूयते न त्वेकत्वनानात्वे अनुपश्यत इति श्रुतिरित्यर्थः ।

निरपवादमेवात्मापरोक्ष्यं मोक्षापेक्षमित्यत्र स्मृतिमाह —

स्थितेति ।

नहि भेदाभेदवादे स्मृतिसिद्धा स्थितप्रज्ञता ब्रह्मैवास्मीति ज्ञानस्थैर्यायोगादब्रह्मत्वस्यापि तद्विषयत्वात् । तस्मादेकत्वमैकान्तिकमित्यर्थः ।

अस्तु तर्हि परापरयोर्नामभेदादविद्यावत्त्वतदभावाभ्यां रूपभेदाच्च घटपटदिवद्भेदभावः संसारावस्थायामिति, नेत्याह —

स्थिते चेति ।

आत्यन्तिकभेदे जीवस्य पूर्वसिद्धब्रह्मत्वायोगात्कोशकारादीनामपि पूर्वसिद्धकीटत्वानुपगमात्तत्सदृशस्यैवोत्पत्तेर्मोक्षासिद्धिः । नच बिम्बप्रतिबिम्बवदुपाधिकल्पितभेदयोस्तात्त्बिकमैक्यं प्रातीतिकविरुद्धधर्माध्यासेन शक्यं बाधितुमिति भावः ।

निर्बन्धनैरर्थक्ये हेतुः —

एको हीति ।

नामग्रहणं रूपोपलक्षणम् । इतिशब्दादुपरिष्टाद्यस्मादर्थो हिशब्दः सम्बन्धनीयः ।

ननु ‘यो वेद निहितं गुहायाम्’ इति परस्य गुहाहितत्वश्रुतेस्तस्यास्फुटत्वात्तद्विपरीताज्जीवाद्भेदः स्यात् , नेत्याह —

नहीति ।

गुहाशब्देनाविद्यान्तःकरणयोर्ग्रहणात्तत्र जीवभावेन प्रतिबिम्बितस्य ब्रह्मणः स्फुटत्वेऽपि बिम्बस्थानीयस्यास्फुटत्वं तस्यैव न विरुध्यतेऽविद्यौशक्तेरघटमानपटीयस्त्वादिति भावः ।

काञ्चिदेवैकामिति ।

जीवभावेन प्रतिबिम्बाधारातिरिक्तामित्यर्थः ।

अस्तु तर्हि ब्रह्मणोऽन्यदेवान्तःकरणादि गुहां प्रविष्टं, नेत्याह —

नचेति ।

श्रोत्राकाशयोरिव जीवब्रह्मणोरङ्गाङ्गिभावादभेदवद्भेदोऽपि स्यात् । अन्यथा जीवमुद्दिश्य ब्रह्मविधानायोगात् । अतस्तत्त्वमिति सामानाधिकरण्यं भेदाभेदविषयमित्याशङ्क्याह —

ये त्विति ।

कार्यकारणत्वंशून्यद्रव्ययोरुद्देश्येपादेयत्वेन सामानाधिकरण्यं सोऽयमितिवदेकस्यैव द्रव्यस्यौपाधिकभेदापेक्षं न द्रव्यभेदमाकाङ्क्षति । नच ब्रह्मणोंऽशो जीवः, निष्फलश्रुतेः । न च श्रोत्रस्य कर्णनेमिमण्डलावच्छेदेऽपि नभसोंऽशत्वमवच्छेदकाभावे तन्मात्रत्वात् । अतो जीवस्यापि ब्रह्मांशत्वाभावान्न भिन्नाभिन्नत्वम् । नच भेदः शास्त्रार्थः, लौकिकत्वात् । अभेदस्य त्वैकान्तिकस्य शास्त्रीयत्वात्तदनुपगमे सम्यग्धीरेव मुक्तिहेतुर्बाधिता स्यादिति भावः ।

कर्मैव मुक्तिहेतुरिति कृतं सम्यग्धियेत्याशङ्क्याह —

कृतकमिति ।

कृतकत्वेऽपि ध्वंसवन्नित्यतेत्याशङ्क्याह —

न्यायेनेति ।

मोक्षो निरतिशयानन्दत्वेन भावत्वात्कृतकश्चेदनित्यः स्यात् , एवं बन्धध्वंसतया तस्याभावत्वेऽपि कृतकत्वे कथं नानित्यता । ध्वंसध्वंसे च ध्वस्ताध्वस्तेर्बन्धस्य पुनरुत्पत्तावपुनरावृत्तिश्रुतिर्विरुध्येत । नच ध्वंसध्वंसेऽपि कारणाभावान्न ध्वस्तस्य पुनरुत्पत्तिस्तद्ध्वंसस्य प्रतियोगिभेदेऽनवस्थानात् , तदभेदे च तदुत्पत्तेरावश्यकत्वात् । अतो न कर्मसाध्या मुक्तिः । न चास्मन्मते बन्धध्वंसोऽपि वस्तुव्यतिरिक्तोऽस्तीति भावः । तदेवं प्रत्यग्भूते ब्रह्मणि मैत्रेयीब्रह्मणमन्वितमित्युपसंहर्तुमितीत्युक्तम् ॥ २२ ॥