यत्प्रतिज्ञाबलान्मैत्रेयीब्राह्मणस्य ब्रह्मपरत्वं तस्मादेवोपादानत्वं ब्रह्मणः साधयति —
प्रकृतिश्चेति ।
व्यवहितसम्बन्धादपौनरुक्त्यं वक्तुं वृत्तं कीर्तयति —
यथेति ।
सदृष्टान्तमाद्यसूत्रार्थमनूद्य ब्रह्मलक्षणस्य कारणत्वस्य द्वितीयसूत्रार्थस्य विचारप्रतिज्ञया सङ्गतिमाह —
ब्रह्म चेति ।
ब्रह्मकारणत्वार्थाधिकरणस्य कारणविशेषविचारस्य च सम्बन्धोक्तिपूर्वकमवशिष्टमर्थमाचक्षाणः सनिमित्तं संशयमाह —
तच्चेति ।
जन्मादिसूत्रे त्वेतदधिकरणसिद्धवत्कारेणोभयकारणत्वोक्तिः, तदनन्तरमस्यारभ्यत्वेऽपि निर्णीततात्पर्यैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमितेर्विरोधोक्तिः सुकरेति समन्वयावसाने लिखितमेतदधिकरणमुक्ते विषये समन्वयो दुःसाध्य इति कारणतामात्रं तत्रोक्तमिति भावः । ब्रह्मलक्षणस्याध्यायादिसम्बन्धादस्यापि तद्योगिनस्तत्सिद्धिः । पूर्वपक्षे प्रतिज्ञागौणत्वं सिद्धान्ते तन्मुख्यत्वं फलमिति ।
समानधर्मदृष्ट्या विमर्शमेव विशदयति —
किमिति ।
प्रतिज्ञाया मुख्यत्वेन वाक्यस्य जीवपरत्वे परास्ते निमित्तोपादानभेदाद्गौणी सेति पूर्वपक्षयति —
तत्रेति ।
एवकारार्थं स्फुटयति —
केवलमिति ।
तत्र मानं पृच्छति —
कस्मादिति ।
न ब्रह्म कार्यद्रव्योपादानं, चेतनत्वात्कर्तृत्वाच्च, कुलालादिवदित्याह —
ईक्षेति ।
हेतुद्वयं श्रुत्या स्फुटयति —
ईक्षेत्यादिना ।
ब्रह्मणश्चेतनस्य कर्तुरेव कार्यद्रव्योपादानत्वे किं बाधकमित्याशङ्क्य कुलालादेरपि तत्प्रसक्तिरित्याह —
ईक्षेति ।
अनुमानान्तरं वक्तुं या द्रव्योत्पत्तिः सा भिन्ननिमित्तोपादानपूर्वा, यथा घटाद्युत्पत्तिरिति व्याप्तिमाह —
अनेकेति ।
जगद्द्रव्योत्पत्तिर्भिन्ननिमित्तोपादानपूर्वा, द्रव्योत्पत्तित्वात् , घटोत्पत्तिवदित्यनुमिनोति —
स चेति ।
न ब्रह्म कार्यद्रव्योपादानं ईश्वरत्वात् , लौकिकेश्वरवदित्याह —
ईश्वरत्वेति ।
साध्यवैकल्यं प्रत्याह —
ईश्वराणां हीति ।
दार्ष्टान्तिकं निगमयति —
तद्वदिति ।
विमतमचेतनोपादानं, कार्यद्रव्यत्वात् , घटवदित्याह —
कार्यं चेति ।
कार्यत्वं साधयति —
सावयवमिति ।
विमतं न ब्रह्मोपादानं, अचेतनत्वादशुद्धत्वाच्च, घटादिवदित्याह —
अचेतनमिति ।
तथापि जगच्चेतनोपादानं किं न स्यात् , तत्राह —
कारणेनेति ।
ब्रह्मैव तर्हि तादृगस्तु, नेत्याह —
ब्रह्म चेति ।
निष्कलं निरवयवम् । निष्क्रियं परिणामपरिस्पन्दरहितम् । शान्तं रागद्वेषादिशून्यम् । निरवद्यं पुण्यापुण्यवर्जितम् । निरञ्जनं सुखदुःखादिभिरस्पृष्टम् । आदिशब्देन ‘शुद्धमपापविद्धम्’ इत्याद्या श्रुतिरुक्ता ।
ब्रह्मणश्चेन्न जगदुपादानत्वं, तर्हि किं तदुपादानं, नहि निमित्तमात्राद्भावरूपं कार्यं, तत्राह —
पारिशेष्यादिति ।
तत्र ब्रह्मण्युक्तमसारूप्यं नास्तीत्याह —
अशुद्ध्यादीति ।
नच तस्याप्रमितत्वादनुपादानत्वमित्याह —
स्मृतीति ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य निषेधे साङ्ख्यीयप्रधानादन्यत्राप्रसङ्गात्तदेव परिशेषतो जगदुपादानमित्यर्थः ।
‘सदेव’ इत्यादिश्रुतेस्तर्हि का गतिरित्याशङ्क्यानुमानविरोधाद्विशेषे सङ्कोच इत्याह —
ब्रह्मेति ।
जन्मादिसूत्रोक्तलक्षणस्यासम्भावितत्वमितिशब्दोपसंहृतमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।