ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
प्रकृतिश्चोपादानकारणं ब्रह्माभ्युपगन्तव्यम् , निमित्तकारणं केवलं निमित्तकारणमेवकस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात्एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येतेप्रतिज्ञा तावत्उत तमादेशमप्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इतितत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयतेतच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति, उपादानकारणाव्यतिरेकात्कार्यस्यनिमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात्दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इत्युपादानकारणगोचर एवाम्नायतेतथा एकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ स्यात्’ (छा. उ. ६ । १ । ५) एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्यात्’ (छा. उ. ६ । १ । ६) इति तथान्यत्रापि कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति प्रतिज्ञा; यथा पृथिव्यामोषधयः सम्भवन्ति’ (मु. उ. १ । १ । ७) इति दृष्टान्तःतथा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’ (बृ. उ. ४ । ५ । ६) इति प्रतिज्ञा; यथा दुन्दुभेर्हन्यमानस्य बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ (बृ. उ. ४ । ५ । ८) इति दृष्टान्तःएवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौयत इतीयं पञ्चमीयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यत्र जनिकर्तुः प्रकृतिः’ (पा. सू. १ । ४ । ३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्यानिमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम्यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातॄनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रागुत्पत्तेःएकमेवाद्वितीयम्इत्यवधारणात्अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यःअधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥

उक्तानुमानेषु जीवत्सु नोभयकारणतेति शङ्कते —

कस्मादिति ।

हेतुमादाय व्याचष्टे —

प्रतिज्ञेति ।

एवमिति ।

उभयकारणत्वे सतीति यावत् ।

तयोरनुपरोधं वक्तुं प्रतिज्ञामाह —

प्रतिज्ञेति ।

तद्वाक्यार्थमाह —

तत्रेति ।

तदनुपरोधं स्वमते दर्शयति —

तच्चेति ।

निमित्तकारणज्ञानादेव सर्वज्ञानं किं न स्यात् , तत्राह —

निमित्तेति ।

दृष्टान्तानुपरोधमाह —

दृष्टान्तोऽपीति ।

मृदि ज्ञातायां तद्विकारणस्य ज्ञेयत्वेनानवशेषे हेतुः —

वाचेति ।

घटादेर्वाचारम्भणत्वं वस्तुतोऽसत्वं साधयति —

नामेति ।

शून्यशेषत्वं निषेधति —

मृत्तिकेति ।

विपरीतदृष्टान्तोऽपि स्यादिति शङ्कां निरसितुं दृष्टान्तान्तराण्याह —

तथेति ।

गतिसामान्यार्थमाथर्वणगतौ प्रतिज्ञादृष्टान्तावाह —

तथेति ।

बृहदारण्यकेऽपि तौ निर्दिशति —

आत्मनीति ।

घटः प्रकाशते पटो वेत्यनुगतप्रकाशातिकेण घटादेरसिद्धेस्तत्रैव कल्पितत्वात्प्रकाशोऽनुगतोऽधिष्ठानं प्रकृतिरित्यनुगतः स दृष्टान्तो यथा तथोच्यते ।

बाह्यान् ।

दुन्दुभिशब्दसामान्यबहिर्भूतानिति यावत् । दुन्दुभेस्तच्छब्दसामान्यस्येत्यर्थः । दुन्दुभ्याघातस्य जनकस्य जन्यतया सम्बन्धी वा शब्दो विशेषशब्द इत्यर्थः ।

वेदान्तत्रयगतं न्यायं वेदान्तान्तरेष्वतिदिशति —

एवमिति ।

प्रतिज्ञाद्यनुपरोधलिङ्गादुपादानत्ववत्पञ्चमीश्रुत्यापि तद्धीरित्याह —

यत इति ।

यत इत्यादिश्रुतौ यत इतीयं पञ्चम्यपि प्रकृतिरूपापादानएव द्रष्टव्येति सम्बन्धः ।

जाड्याद्बद्ध एवेति निमित्तेऽपि पञ्चमीदृष्टेऽरुपादानत्वं कथं गमयेत् , तत्राह —

जनीति ।

जायमानस्य कार्यस्य प्रकृतिरुपादानमपादानसंज्ञं भवतीत्यपादाने पञ्चमीस्मरणान्न कारणमात्रे सा युक्तेत्यर्थः ।

यद्यपि सूत्रे प्रकृतिग्रहणं सर्वकारणसङ्ग्रहार्थमित्युक्तं तथापि तदनादृत्य ‘प्रकृतिश्च’ इतिसूत्रस्थप्रकृतिशब्दवदयमपीति मन्यते, तथापि कथं निमित्तत्वं, तदाह —

निमित्तत्वमिति ।

अधिष्ठात्रन्तराभावं व्यतिरेकदृष्टान्तेन साधयति —

यथेति ।

अन्यस्याधिष्ठातुरपेक्षणीयस्यासत्त्वे हेतुमाह —

प्रागिति ।

ब्रह्मणोऽन्यन्निमित्तं जगतो नेत्यत्रापि सूत्रावयवसामर्थ्यमाह —

अधिष्ठात्रन्तरेति ।

उक्तमेव व्यतिरेकेण स्फोरयति —

अधिष्ठातरीति ।

श्रुतिलिङ्गाभ्यां सिद्धमुपसंहरति —

तस्मादिति ॥ २३ ॥