अभिध्योपदेशाच्च ॥ २४ ॥
अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति —‘सोऽकामयत बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति, ‘तदैक्षत बहु स्यां प्रजायेय’ (छा. उ. ६ । २ । ३) इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते । बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते ॥ २४ ॥