ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
साक्षाच्चोभयाम्नानात् ॥ २५ ॥
प्रकृतित्वस्यायमभ्युच्चयःइतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेतेसर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति’ (छा. उ. १ । ९ । १) इतियद्धि यस्मात्प्रभवति, यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् , यथा व्रीहियवादीनां पृथिवी । ‘साक्षात्इति उपादानान्तरानुपादानं दर्शयतिआकाशादेवइतिप्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥

निमित्तत्वमुपेत्योपादानत्वे हेत्वन्तरमाह —

साक्षाच्चेति ।

सूत्रस्य तत्पार्यमाह —

प्रकृतित्वस्येति ।

अक्षराणि व्याकरोति —

इतश्चेति ।

आकाशस्य ब्रह्मत्वं ‘आकाशस्तल्लिङ्गात्’ इत्युक्तम् ।

नन्वाकाशं ब्रह्मोक्त्वा सर्वभूतानां तदधीनप्रभवप्रलयाभिधानेऽपि कथं ब्रह्मणः सर्वभूतोपादानत्वं, तत्राह —

यद्धीति ।

सूत्रावयवसूचितमर्थमाह —

साक्षादिति ।

आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ।

उपादानान्तरव्यावृत्तिरेवकारार्थो न भवति किन्तु निमित्तस्याकाशस्योपादान्तत्वव्यावृत्तिरित्याशङ्क्याह —

प्रतीति ।

निमित्ते कार्यस्य लयादृष्टेराकाशस्य तन्मात्रत्वमत्र नेष्ठमित्यर्थः ॥ २५ ॥