ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
आत्मकृतेः परिणामात् ॥ २६ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् तदात्मानं स्वयमकुरुत’ (तै. उ. २ । ७ । १) इत्यात्मनः कर्मत्वं कर्तृत्वं दर्शयति; आत्मानमिति कर्मत्वम् , स्वयमकुरुतेति कर्तृत्वम्कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम् ? परिणामादिति ब्रूमःपूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमितिविकारात्मना परिणामो मृदाद्यासु प्रकृतिषूपलब्धःस्वयमिति विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते । ‘परिणामात्इति वा पृथक्सूत्रम्तस्यैषोऽर्थःइतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते सच्च त्यच्चाभवत्निरुक्तं चानिरुक्तं ’ (तै. उ. २ । ६ । १) इत्यादिनेति ॥ २६ ॥

ब्रह्मणो जगन्निमित्तस्य तत्प्रकृतित्वे हेत्वन्तरमाह —

आत्मेति ।

सूत्रं व्याकरोति —

इतश्चेति ।

उक्तमेव विभज्य निर्दिशति —

आत्मानमिति ।

पूर्वसिद्धस्य कर्तृत्वं, क्रियमाणत्वं त्वसिद्धस्य, तन्नोभयमेकस्य स्यादिति शङ्कते —

कथमिति ।

सूत्रावयवमवतार्य व्याचष्टे —

परिणामादिति ।

आत्मानमिति विशेषणादेतद्धीरित्यर्थः ।

इत्थं मिथ्यापरिणामेऽपि कथं विरोधसमाधिरित्याशङ्क्याह —

विकारेति ।

एकेन रूपेण पूर्वसिद्धस्याप्यसिद्धरूपान्तरेण परिणामो दृष्टत्वाद्युक्तः स्यादित्यर्थः ।

श्रौतेन विशेषणान्तरेण सूचितमर्थमाह —

स्वयमिति ।

आत्मकृतेरिति हेतुसाधनार्थं परिणामादिति पदमित्युक्तम् । सम्प्रति स्वतन्त्रहेत्वन्तरमेतदित्याह —

परिणामादिति वेति ।

अर्थभेदाभावे कथं पार्थक्यं, तत्राह —

तस्येति ।

अर्थविशेषमेव दर्शयति —

इतश्चेति ।

मृद्धटः सुवर्णं कुण्डलमितिवद्ब्रह्मणः सच्च त्यच्चेति जगतः सामानाधिकरण्यादुपादानत्वम् । निमित्ते तदयोगादित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् । त्यत्परोक्षं भूतद्वयम् । निरुक्तमिदमेवमिति निर्वचनार्हम् । ततोऽन्यदनिरुक्तम् ॥ २६ ॥