ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
योनिश्च हि गीयते ॥ २७ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषुकर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (मु. उ. ३ । १ । ३) इति यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके — ‘पृथिवी योनिरोषधिवनस्पतीनाम्इतिस्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम्क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः योनिष्ट इन्द्र निषदे अकारि’ (ऋ. सं. १ । १०४ । १) इतिवाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यतेयथोर्णनाभिः सृजते गृह्णते ’ (मु. उ. १ । १ । ७) इत्येवंजातीयकात्तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्यत्पुनरिदमुक्तम् , ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् , नोपादानेष्वित्यादि; तत्प्रत्युच्यते लोकवदिह भवितव्यम् ह्ययमनुमानगम्योऽर्थःशब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम्शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचामपुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥

जगन्निमित्तस्येव ब्रह्मणस्तत्प्रकृतित्वे हेत्वन्तरमाह —

योनिश्चेति ।

वेदान्तानेव लेशतो दर्शयति —

कर्तारमिति ।

क्रियाशक्तिवदीशनशक्तिरपि तस्यास्तीत्याह —

ईशमिति ।

ताटस्थ्यं व्यावर्तयति —

पुरुषमिति ।

तस्य पुरि शयानस्य परिच्छेदं व्यवच्छिनत्ति —

ब्रह्मेति ।

आकाशादेरन्यत्वे कथं पूर्णता, तत्राह —

योनिमिति ।

अपश्यन्निति सम्बन्धः । यद्भूतयोनिमित्यत्र तदक्षरं परविद्याधिगम्यमिति सम्बन्धः ।

योनिशब्दे ब्रह्मणि प्रयुक्तेऽपि कथं तस्योपादानत्वं, नहि तस्य प्रकृत्यर्थत्वं प्रसिद्धं, तत्राह —

योनिशब्दश्चेति ।

ननूपादानत्वं विनापि स्त्रीयोनौ योनिशब्दो दृश्यते, तत्राह —

स्रीति ।

अवयवशब्देन योनिप्रभवं शोणितं गृह्यते ।

तर्हि योनिशब्दस्य श्रुतित्वात्प्रथमतो वक्तव्यत्वे किमर्थं पश्चादुच्यते, तत्राह —

क्वचिदिति ।

योनिः । स्थानं ते तव भो इन्द्र निषदे निषदनायोपवेशनाय स्थित्यर्थमकारि कृतमित्यर्थः ।

योनिशब्दस्य व्यभिचा्रित्वेनाश्रुतित्वेनासाधकतेत्याशङ्क्याह —

वाक्येति ।

भूतयोन्यादिवाक्यं सप्तम्यर्थः । वाक्यशेषशब्दो ब्रह्मादिपदस्याप्युपलक्षणः ।

श्रुत्यादिसिद्धं सिद्धान्तमुपसंहरति —

एवमिति ।

परोक्तमनुमानजातमपाकर्तुमनुवदति —

यदिति ।

यथादृष्टमनुमेयम् , इह तु धर्मवन्नानुमानं युक्तं, श्रुतिलिङ्गाम्यां ब्रह्मणोऽन्यत्रैव सामान्यतोदृष्टानां सावकाशत्वेन दुर्बलत्वादित्याह —

तदिति ।

किञ्च श्रौतमीश्वरमनाश्रित्यानुमानमाश्रित्य वा । नाद्यः, अप्रसिद्धविशेषणत्वादिप्रसङ्गादित्याह —

नहीति ।

न द्वितीयो धर्मिग्राहकमानविरोधादित्याह —

शब्देति ।

शब्दानुसारेणापि कथमुभयथा कारणत्वं, तत्राह —

शब्दश्चेति ।

योनिशब्दो यत इति पञ्चमी च शब्दार्थः । चकारात्प्रतिज्ञाद्यनुपरोधलिङ्गमपि गृहीतम् ।

शब्दावगतमपि वैलक्षण्यादियुक्तिविरोधादयुक्तमित्याशङ्क्याह —

पुनश्चेति ।

युक्तिविरोधस्याग्रे निरासादागमविरुद्धानुमानस्य कालातीतत्वेनाप्रामाण्याद्यथागममुभयथा कारणत्वमिति भावः ॥ २७ ॥