उक्तन्यायेन प्रधानस्याशब्दत्वेऽपि न ब्रह्मण्येव जगत्कारणे समन्वयः । ‘अणोरणीयान्', ‘अण्व्य इवेमा धानाः', ‘असदेवेदम्’ इत्यादिशब्दादणुस्वभावशून्यानां जगद्धेतुत्वसम्भवादित्याशङ्क्याह—
एतेनेति ।
अतिदेशेनाण्वादिवादं निरस्य जगद्धेतौ ब्रह्मणि समन्वयस्थापनादस्य श्रुत्यादिसङ्गतिः । फलं तु पूर्ववत् ।
अतिदेशाधिकरणस्य तात्पर्यं वक्तं वृत्तं कीर्तयति —
ईक्षतेरिति ।
तस्यैव विशेषतो निरासे हेतुमाह —
तस्येति ।
प्रधानवादस्यैव प्राधान्येन निरासे हेत्वन्तरमाह —
स चेति ।
न केवलमभ्यर्हितत्वात्तस्य प्राधान्यं, स्मृतिमूलत्वादपीत्याह —
देवलेति ।
उक्तहेतुफलमाह—
तेनेति ।
तर्हि तावतैव ब्रह्मकारणत्वसिद्धेरलमतिदेशेनेत्याशङ्क्याह—
तेऽपीति ।
अण्वादिवादानामशब्दत्वादेव निषेधे पुनरुत्थानाभावान्न निषेध्यतेत्याशङ्क्याह —
तेषामिति ।
‘अणोरणीयान्’ इत्याद्यब्रह्मपरं ब्रह्मपरं वेत्यण्वादिशब्दस्य परमाण्वादिविषयत्वाविषयत्वाभ्यां सन्देहे, परमाणुष्वणुशब्दस्य प्रसिद्धत्वात् , कुलालो मृदा घटं करोतीतिवत्पतत्रैर्द्यावापृथिवी देवः सञ्जनयन्निति तेषां हेतुत्वोक्तेः, ‘असद्वा इदम्', ‘असदेवेदम्’ इति शून्यवादात् ‘तन्नामरूपाभ्यामेव व्याक्रियत’ इति कर्मकर्तरि लकारेण स्वभाववादादनुपादानं ब्रह्मेति प्रतीतेः, ‘अण्व्य इवेमा धानाः’ इति च जगतो मृद्दृष्टान्तात् , ब्रह्मणः प्रकृतित्वे वटधानादृष्टान्तात् , अण्वादीनामपि तत्प्रकृतित्वयोगाद्गतिसामान्यासिद्धिरित्यर्थः ।
अथैवं पूर्वपक्षभानेऽपि किमिति साङ्ख्यमतनिरसनन्यायेन तन्निरसनं क्रियते किमिति न विपरीतमित्याशङ्क्य पूर्वपक्षप्राप्तिमितिशब्दसमापितामनूद्य सिद्धान्तमाह —
अत इति ।
उक्तन्यायस्य तेषु प्राप्तिमाह —
तेषामिति ।
अणोरणीयानित्यात्मनः सूक्ष्मतया प्रत्यक्षाद्यगोचरत्ववचनात् , पतत्रशब्दस्य परमाणुवाचकत्वासिद्धेः, ‘अणुः पन्था’ इति ज्ञानमार्गस्तुतेः, ‘असदेवेदम्’ इत्यादेः समाहितत्वात् , मृदादिदृष्टान्तानां च प्रतिज्ञानुरोधित्वात् , धानादृष्टान्तस्यापि तदनुरोधेन भाक्तत्वात् , अण्वादीनां प्रधानवदशब्दत्वात् , ब्रह्मकारणवादिशब्दविरोधित्वादुक्तान्यपि वाक्यानि ब्रह्मपराणीति ब्रह्मणि कारणे सिद्धः समन्वयो वेदान्तानामित्यार्थः ।
पुनरुक्तेस्तात्पर्यमाह —
व्याख्याता इति ॥ २८ ॥