ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
इतरेषां चानुपलब्धेः ॥ २ ॥
प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि, तानि वेदे लोके वोपलभ्यन्तेभूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम्अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य स्मृतिरवकल्पतेयदपि क्वचित्तत्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम्आनुमानिकमप्येकेषाम्’ (ब्र. सू. १ । ४ । १) इत्यत्रकार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायःतस्मादपि स्मृत्यनवकाशप्रसङ्गो दोषःतर्कावष्टम्भं तु विलक्षणत्वात्’ (ब्र. सू. २ । १ । ४) इत्यारभ्योन्मथिष्यति ॥ २ ॥

सूत्राक्षराणि व्याचष्टे -

प्रधानादिति ।

तथा च मूलप्रमाणाभावादप्रमाणं महदादिविषया स्मृतिरिति शेषः ।

भूतानामिन्द्रियाणां च लोकवेदप्रसिद्धत्वान्न तद्विषयस्मृत्यप्रामाण्यमित्याशङ्क्याङ्गीकरोति -

भूतेति ।

तथापि महदहङ्कारपञ्चतन्मात्राणां मूलाभावान्न स्मृतिः सम्भवतीत्याह -

अलोकेति ।

महदादीनामपि ‘महतः परमव्यक्तम्’ इत्यादावस्ति प्रसिद्धिरित्याशङ्क्याह -

यदपीति ।

महदादिस्मृतेर्मूलाभावात्तदप्रामाण्येऽपि किमायातं प्रधानस्मृतेरित्याशङ्क्य सूत्रस्य तात्पर्यमाह -

कार्येति ।

साङ्ख्यस्मृत्यप्रामाण्ये सिद्धे फलितमुपसंहरति -

तस्मादिति ।

मूलप्रमाणाभावस्तच्छब्दार्थः । अपिना स्मृत्यादिविरोधः समुच्चितः ।

स्मृतिविरोधाभावेऽपि ब्रह्मकारणवादो न्यायविरोधान्न सिध्यतीत्याशङ्क्याह -

तर्केति ॥ २ ॥