ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
एतेन योगः प्रत्युक्तः ॥ ३ ॥
एतेन साङ्ख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशतितत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम् , महदादीनि कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्तेनन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम्; किमर्थं पुनरतिदिश्यतेअस्ति ह्यत्राभ्यधिकाशङ्कासम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितःश्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) इति; त्रिरुन्नतं स्थाप्य समं शरीरम्’ (श्वे. उ. २ । ८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यतेलिङ्गानि वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्तेतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्’ (क. उ. २ । ३ । ११) इति, विद्यामेतां योगविधिं कृत्स्नम्’ (क. उ. २ । ३ । १८) इति चैवमादीनियोगशास्त्रेऽपि — ‘अथ तत्त्वदर्शनोपायो योगःइति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियतेअतः सम्प्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीतिइयमभ्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थैकदेशसम्प्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु साङ्ख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतःसाङ्ख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन श्रौतेनोपबृंहितौतत्कारणं साङ्ख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः’ (श्वे. उ. ६ । १३) इतिनिराकरणं तु साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इतिश्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयतितमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इतिद्वैतिनो हि ते साङ्ख्या योगाश्च नात्मैकत्वदर्शिनःयत्तु दर्शनमुक्तम्तत्कारणं साङ्ख्ययोगाभिपन्नम्इति, वैदिकमेव तत्र ज्ञानं ध्यानं साङ्ख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्येन त्वंशेन विरुध्येते, तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम्; तद्यथाअसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन साङ्ख्यैरभ्युपगम्यतेतथा यौगैरपि अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः’ (जा. उ. ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यतेएतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानितान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत् , उपकुर्वन्तु नामतत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवतिनावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३ । १२ । ९ । ७) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥

चेतनं जगदुपादानं वदतः समन्वयस्य प्रधानं वास्तवमीश्वराधिष्ठितं जगदुपादानमिति वदन्त्या योगस्मृत्या विरोधोऽस्ति न वेति प्रधानादिविषये तत्प्रामाण्याप्रामाण्याभ्यां सन्देहे पूर्वपक्षमग्रे दर्शयिष्यन्नतिदेशसूत्रं व्याकरोति -

एतेनेत्यादिना ।

श्रुत्यादिसङ्गतिचतुष्टयं फलं च पूर्वन्यायातिदेशत्वात्पूर्ववदत्रापि द्रष्टव्यम् ।

अर्थसाम्याभावे तुल्यन्यायाविषयत्वादतिदेशानुपपत्तिरित्याशङ्क्यार्थसाम्यमाह -

तत्रापीति ।

अधिकाशङ्काभावादधिकरणारम्भमाक्षिपति -

नन्विति । एवं सतीति ।

साङ्ख्ययोगस्मृत्योरर्थसाम्ये सतीति यावत् ।

अधिकाशङ्कां दर्शयन्नधिकरणारम्भं समर्थयते -

अस्तीति ।

तामेव दर्शयितुमादौ योगस्मृतेः श्रुतिमूलत्वमाह -

सम्यगिति ।

ननु श्रवणमनननिदिध्यासनान्येवात्र सम्यग्धीहेतुत्वेन विधीयन्ते न त्वष्टाङ्गयोगविधिरत्रास्तीत्याशङ्क्य श्रुत्यन्तरमाह -

त्रिरुन्नतमिति ।

त्रीणि देहग्रीवाशिरांस्युन्नतानि यस्मिन् । ‘समं कायशिरोग्रीवं धारयन्’ इत्यादिस्मृतेः । तच्छरीरं तथा समं संस्थाप्य युञ्जीतेति योजना ।

न केवलं श्रुत्यनुगृहीतो योगः किन्तु श्रौतलिङ्गानुगृहीतश्चेत्याह -

लिङ्गानि चेति ।

तान्येव दर्शयति -

तां योगमित्यादिना ।

इन्द्रियाणामन्तर्बहिर्भावेन व्यवस्थितानां स्थिरामविचालिनीं धारणामैकाग्र्यलक्षणां योगविदो योगं मन्यन्ते । यथोक्तमैकाग्र्यमेव परमं तप इति वक्तुं योगशब्दादुपरिष्टादितिशब्दः ।

एतां ब्रह्मविषयां विद्यां योगप्रकारं च सर्वं मृत्योः सकाशान्नचिकेता लब्ध्वा ब्रह्म प्राप्तोऽभूदित्याह -

विद्यामेतामिति ।

श्रुतिवल्लिङ्गानुगृहीतयोगस्य सम्यग्ज्ञानोपायत्वेऽपि किमायातं योगस्मृतेरित्याशङ्क्याह -

योगशास्त्रेऽपीति ।

आत्मज्ञानस्य मोक्षोपायत्वनिश्चयात्तज्जिज्ञासानन्तरमित्यथशब्दार्थः ।

एवं योगस्य सम्यग्धीहेतुत्वमुपपाद्याधिकां शङ्कां दर्शयति -

अत इति ।

योगः सम्यग्दर्शनोपायः सम्प्रतिपन्नार्थैकदेशस्तद्वत्त्वाद्योगस्मृतिरनिराकार्येत्यत्र दृष्टान्तमाह -

अष्टकादीति ।

अष्टकाः कर्तव्याः । गुरुरनुगन्तव्यः । तडागं खनितव्यम् । इत्यादिस्मृतयो न प्रमाणं, धर्मस्य वेदैकप्रमाणकत्वात् । अष्टकादेरिष्टसाधनत्वे वेदादृष्टे स्मृतेश्च भ्रान्त्यापि सम्भवादिति प्रापय्य वेदार्थानुष्ठातॄणामेव स्मृतिषु सनिबन्धनासु कर्तृत्वान्मूलभूतं वेदमनुमापयन्त्यः स्मृतयो मानमिति प्रमाणलक्षणे राद्धान्तितम् । तथा योगस्मृतिरपि मानमित्यर्थः ।

अधिकां शङ्कामनूद्य तन्निवर्तकत्वेनातिदेशाधिकरणस्यार्थवत्त्वमाह -

इयमिति ।

कथं तर्हि निराकरणं, तदाह -

अर्थैकदेशेति ।

योगस्मृतिर्योगविषये वेदाविसंवादान्मानमपि प्रधानादौ तद्विसंवादादमानमर्थवादस्य विधिशेषत्वेन प्रामाण्येऽपि विसंवादिनि स्वार्थे तदनभ्युपगमादित्यर्थः ।

नन्वध्यात्मविषयाः सन्ति सहस्रं बौद्धार्हतादिस्मृतयस्ताः किमित्युपदेशातिदेशाभ्यां न निराक्रियन्ते, तत्राह -

सतीष्वपीति ।

तत्र हेतूनाह -

साङ्ख्येत्यादिना ।

ननु लोके पशुसदृशानां प्राकृतानां परमपुरुषार्थसाधनत्वेन बौद्धादिदर्शनमपि प्रसिद्धमित्याशङ्क्याह -

शिष्टैश्चेति ।

ननु शिष्टपरिग्रहस्यापि विशिष्टप्रमाणमूलत्वमेष्टव्यम् ‘आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनाम्’ इति न्यायात् , तत्राह -

लिङ्गेन चेति ।

‘एको बहूनां यो विदधाति कामान्’ इत्युपक्रम्य श्रुतं तत्कारणमिति तेषां कामानां कारणं साङ्ख्यैर्ज्ञानिभिर्योगैर्ध्यायिभिश्चाभिपन्नमाभिमुख्येन प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिक्लेशैर्मुच्यत इत्यर्थः ।

तर्हि श्रुतिसिद्धत्वादिकारणवशान्निराकरणमशक्यमन्यथा श्रुत्यादिविरोधादित्याशङ्क्याह -

निराकरणं त्विति ।

किमत्र प्रमाणमित्यपेक्षायामुक्तम् -

श्रुतिर्हीति ।

ननु वैदिकादात्मज्ञानादेव साङ्ख्यादयोऽपि निःश्रेयसं वदन्ति तत्कथमवैदिकत्वेन ते निरस्यन्ते, तत्राह -

द्वैतिनो हीति ।

तर्हि श्रौतस्य लिङ्गस्य का गतिरित्यत आह -

यत्त्विति ।

प्रसिद्धिविरोधेन कथमभ्युपगम्यते, प्रमाणवशादित्याह -

प्रत्यासत्तेरिति ।

वैदिकी सम्यग्बुद्धिः सङ्ख्या तया सह वर्तत इति साङ्ख्यम् । योगो ध्यानं चित्तवृत्तिनिरोधस्तस्य योगस्य तदुपायत्वात्प्रत्ययैकतानताया ध्यानस्य तेनाभेदोपचारात् । अतः संनिकृष्टं सम्यग्ज्ञानं वैदिकं साङ्ख्यादिशब्दितमित्यर्थः ।

तर्हि प्रसिद्धयोः साङ्ख्ययोगस्मृत्योः सर्वथा नास्ति प्रामाण्यं, नेत्याह -

येन त्विति ।

अविरुद्धमंशमेव स्मृतिद्वयेऽपि विभज्य दर्शयति -

तद्यथेति ।

प्रव्रज्यादीत्यादिशब्देन तद्धर्मसङ्ग्रहः ।

अथोक्तविधया साङ्ख्ययोगस्मृतिविरोधाभावेऽपि काणादादिस्मृतिविरोधान्न समन्वयसिद्धिरित्यत आह -

एतेनेति ।

साङ्क्ययोगस्मृतिनिराकरणन्यायेनेति यावत् ।

तेषां निराकर्तव्यताममृष्यन्नाशङ्कते -

तान्यपीति ।

तर्कोऽनुमानमनुग्राह्यं मानम् । उपपत्तिरनुग्राहिकायुक्तिरिति भेदः ।

तर्कस्मरणानां तत्त्वज्ञानोपकारकत्वमङ्गीकरोति -

उपकुर्वन्त्विति ।

तर्हि वैदिकवाक्येभ्यस्तेषां को विशेषः, तत्राह -

तत्त्वज्ञानं त्विति ।

तत्र मानमाह -

नावेदविदिति ॥ ३ ॥