चेतनाद्ब्रह्मणो जगदुत्पत्तिं ब्रुवन्समन्वयो विषयः । स किमाकाशादि न चेतनप्रकृतिकं द्रव्यत्वाद्धटादिवदिति साङ्ख्ययोगन्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वाधिकरणेनोत्तराधिकरणसन्दर्भस्य सङ्गतिमाह -
ब्रह्मेति ।
अत्र च समन्वयस्य यथोक्तन्यायविरोधसमाधेरेव श्रुत्यादिसङ्गतयः । फलं तु पूर्वोत्तरपक्षयोः समन्वयासिद्धिस्तत्सिद्धिश्चेति ।
पूर्वपक्षमाक्षिपति -
कुत इति ।
ब्रह्मणो मानान्तराविषयत्वेनातर्क्यत्वेन चानपेक्षाम्नायैकगम्यत्वात्तर्कागमयोरतुल्यार्थत्वेनाविरोधादागमार्थे तर्कनिमित्ताक्षेपस्य निरवकाशतेत्यर्थः ।
ननु तर्कोपकरणेतिकर्तव्यताया वेदान्तमीमांसायास्तर्कोपकरणत्वमुक्तं प्रथमसूत्रे, तथाच तर्कस्य वेदान्तैस्तुल्यार्थत्वमिष्टम् , करणोपकरणयोरेकार्थत्वावगमात् , तत्राह -
नन्विति ।
शक्तितात्पर्यावधारणे परं तर्कस्योपकरणत्वं नतु तस्य ब्रह्मविषयता । ‘नैषा तर्केण’ इति श्रुतेरित्यर्थः ।
सिद्धस्य ब्रह्मणः साध्याद्धर्माद्वैलक्षण्येनाध्यक्षादिविषयत्वसम्भवात्तर्कगम्यत्वमपि सम्भवति । अतस्तुल्यविषयत्वादागमार्थेऽपि तर्कनिमित्ताक्षेपस्यावकाशोऽस्तीति समाधत्ते -
भवेदित्यादिना ।
एकविषयत्वेन विरोधेऽपि किमिति मानान्तरमेव श्रुतिविरोधान्न बाध्यते, तत्र दृष्टान्तेनोत्तरमाह -
यथाचेति ।
यथा सावकाशा भूयस्योऽपि श्रुतयो निरवकाशैकश्रुतिविरोधे तदनुरोधेन नीयन्ते तथा निरवकाशैकतर्कविरोधे तदनुगुणतया भूयस्योऽपि श्रुतयो गुणकल्पनया व्याख्येयाः । सावकाशनिरवकाशयोर्निरवकाशस्य बलीयस्त्वादित्यर्थः ।
ब्रह्मण्याम्नायात्तर्कस्य बलीयस्त्वे हेत्वन्तरमाह -
दृष्टेति ।
ब्रह्मसाक्षात्कारस्य मोक्षोपायतया प्राधान्यात्तत्र शब्दादपि परोक्षगोचरादपरोक्षार्थसाधर्म्यगोचरस्तर्कोऽन्तरङ्गमिति तस्यैव बलवत्त्वमित्यर्थः । ऐतिह्यमात्रेण प्रवादपारम्पर्यमात्रेण । परोक्षतयेति यावत् । अनुभवस्य प्राधान्ये तर्कस्योक्तन्यायेन तस्मिन्नन्तरङ्गत्वादागमस्य च बहिरङ्गत्वात् ‘अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवत्’ इति न्यायादुक्तं तर्कस्य बलवत्त्वम् ।
अनुभवप्राधान्यं तु नाद्यापि सिद्धमित्याशङ्क्याह -
अनुभवेति ।
ननु ब्रह्मज्ञानं वैदिकत्वाद्धर्मवददृष्टफलमेष्टव्यं, तत्कुतोऽस्यानुभवावसानाविद्यानिवर्तकत्वं, तत्राह -
मोक्षेति ।
अधिष्ठानसाक्षात्कारस्य शुक्त्यादिज्ञाने तदविद्यातत्कार्यनिवर्तकत्वदृष्टेर्ब्रह्मज्ञानस्यापि तर्कवशादसम्भावनादिनिरासद्वारा साक्षात्कारावसायिनस्तदविद्यानिवर्तकत्वेनैव मुक्तिहेतुतेति नादृष्टफलतेत्यर्थः ।
यत्तु ‘नैषा’ इत्यादिश्रुतेर्ब्रह्मणि न प्रवेशस्तर्कस्येति, तत्राह -
श्रुतिरपीति ।
विधिविरोधेऽर्थवादश्रुतिरदृढीभवतीति भावः ।
ब्रह्मणि तर्कप्रवेशे फलितमाह -
अत इति ।