सिद्धान्तसूत्रं विभजते -
तुशब्द इति ।
व्यावर्त्यपक्षमनूद्य तद्व्यावृत्तिप्रकारमेव विवृणोति -
यदुक्तमिति ।
वैलक्षण्ये प्रकृतिविकृतिभावासिद्धिरिति नियमभङ्गे हुतेमाह -
दृश्यते हीति ।
दृष्टान्ते वैलक्षण्यमसिद्धमिति शङ्कते -
नन्विति ।
तत्राचेतनानां कार्यकारणभावमभ्युपेत्यैव वैलक्षण्यं साधयति -
उच्यत इति ।
ईदृशं वैलक्षण्यमविवक्षितं कारणगतासाधारणधर्माननुगतिरूपं तु तदिष्टमित्याशङ्क्याह -
महांश्चेति ।
पारिणामिकः । तत्तत्केशादिगतपरिणामात्मक इति यावत् । रूपादीत्यादिशब्देन परिमाणादि परिगृह्यते । किञ्च वैलक्षण्यात्प्रकृतिविकृतित्वं प्रत्याचक्षाणः सालक्षण्यात्तदिच्छति तच्च कारणधर्माणां सर्वेषामनुगमो वा कस्यचिदेव वा कारणस्वभावस्येति विकल्प्याद्ये दोषमाह -
अत्यन्तेति ।
द्वितीयमुत्थापयति -
अथेति ।
तर्हि जगद्ब्रह्मणोरपि किञ्चित्स्वभावानुगतिरूपसारूप्यसम्भवान्न प्रकृतिविकृतित्वप्रत्याख्यानमित्याह -
ब्रह्मणोऽपीति ।
प्रकृतिविकृतित्वहेतुं सालक्षण्यं विकल्प्य दूषयित्वा तदभावहेतुं वैलक्षण्यं विकल्पयति -
विलक्षणत्वेनेति ।
आद्यमप्रयोजकत्वेन प्रत्याचष्टे -
प्रथम इति ।
अस्तु समस्तस्य ब्रह्मस्वभावस्य जगत्यननुवर्तनमस्तु च जगतो ब्रह्मप्रकृतिकत्वं का हानिः । नच जगतो ब्रह्मप्रकृतिकत्वे समस्ततत्स्वभावस्य जगत्यनुवर्तनानुपत्तिः, सर्वस्यापि कार्ये सर्वकारणरूपानुवृत्तावसति विशेषे प्रकृतिविकृतित्वासिद्धेरित्युक्तमुपपादयति -
नहीति ।
मध्यमकल्पमसिध्या निरस्यति -
द्वितीये चेति ।
अन्तिममसाधारणत्वेन निराकरोति -
तृतीये त्विति ।
दृष्टान्ताभावमेव स्पष्टयति -
किं हीति ।
आकाशादेर्दृष्टान्तत्वमाशङ्क्याह -
समस्तस्येति ।
पक्षत्रयेऽपि साधारणं कालातीतत्वमाह -
आगमेति ।
ब्रह्मणो मानान्तरगम्यत्वमङ्गीकृत्योक्तं तदपि नास्तीत्युक्तानुवादपूर्वकमाह -
यत्त्विति ।
यथा कार्यत्वाविशेषेऽपि ‘आरोग्यकामः पथ्यमश्नीयात्’ ‘स्वर्गकामो यजेत’ इत्यत्रैकस्य मानान्तरयोग्यत्वं नेतरस्येति स्वीकृतं तथा भूतत्वाविशेषेऽपि पृथिव्यादेर्मानान्तरगम्यत्वं ब्रह्मणस्त्वाम्नायैकगम्यतेति मन्वानः सन्नाह -
आगममात्रेति ।
ब्रह्मणो मानान्तरायोग्यत्वे मानमाह -
तथाचेति ।
ब्रह्मविषया मतिरेषा तर्केण नापनेया नापनीया । न प्रापणीयेत्यर्थः । यद्वा कुतर्केण नापनेया निरस्या न भवति किं त्वन्येनैवाचार्येण वेदविदा प्रोक्ता सुज्ञानाय फलावसायिसाक्षात्काराय भवति । हे प्रेष्ठ प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् । क इह ब्रह्म व्यवहारभूमावद्धा साक्षाद्वेद । को वा तत्प्रावोचत । छान्दसो दैर्घ्यलोपः छन्दसि कालानियमात् । ब्रह्म प्रब्रूयादित्यर्थः । यतो यस्मात्परस्मादात्मनः सकाशादियं विसृष्टिर्विविधा सृष्टिर्बभूव स एव स्वरूपं वेद नान्य इति मन्त्रप्रतीकयोरर्थः ।
प्रतीकतो दर्शितयोर्मन्त्रयोस्तात्पर्यमाह -
एते इति ।
ब्रह्मणस्तर्काद्यगोचरत्वे पौराणिकसंमतिमाह -
अचिन्त्या इति ।
भावानामचिन्त्यत्वेन तर्कागोचरत्वेऽपि ब्रह्मणि किमायातमित्याशङ्क्य भगवद्वाक्यमुदाहरति -
अव्यक्तोऽयमिति ।
कथमविकार्योऽयमित्याशङ्क्य जन्ममरणयोर्मानाभावादित्याह -
न म इति ।
तेषामीश्वरप्रभवाप्रमितिकर्तृत्वे हेतुमाह -
अहमिति ।
श्रुतिस्मृतिभ्यां ब्रह्मणस्तर्काविषयत्वे सिद्धे कथं श्रवणातिरिक्तमननविधानमित्याशङ्कामनुवदति -
यदपीति ।
मननविधानसामर्थ्यात्तर्कमात्रस्य ब्रह्मण्यनुप्रवेशो विवक्षितः श्रुत्यनुगृहीतस्य वेति विकल्प्याद्यं दूषयति -
नानेनेति ।
मिषेण । मननविधिव्याजेनेति यावत् ।
अनुग्राह्यमानहीनतया निरालम्बनत्वं तर्कस्य शुष्कत्वम् । तत्र हेतुं वदन्द्वितीयमङ्गीकरोति -
श्रुतीति ।
श्रुत्यनुग्राहको हि तर्कस्तद्विषयासम्भावनादिप्रतिबन्धप्रध्वंसेन ब्रह्मण्यनुभवाङ्गम् । तदननुगृहीतस्तु निरालम्बनत्वान्नात्रोपयुज्यते । तथाच तर्कमात्रस्यात्राप्रवेशात्तर्कविशेषस्य च श्रुतिद्वाराऽनुप्रवेशाविरोधात्तर्कागोचरत्वं मननविधानं चेत्यर्थः ।
श्रुत्याकाङ्क्षितं तर्कमेव मननविधिविषयमुदाहरति -
स्वप्नान्तेति ।
स्वप्नजागरितयोर्मिथो व्यभिचारादात्मनः स्वभावतस्तद्वत्त्वाभावादवस्थाद्वयेन तस्य स्वतोऽसम्पृक्तत्वम् । अतो जीवस्यावस्थावत्त्वेन नाब्रह्मत्वमित्यर्थः ।
तथापि देहादितादात्म्येनात्मनो भानान्न निष्प्रपञ्चब्रह्मतेत्याशङ्क्याह -
सम्प्रसादे चेति ।
‘सता सोम्य तदा सम्प्रन्नो भवति’ इति श्रुतेः सुषुप्ते निष्प्रपञ्चसदात्मत्वावगमादात्मनस्तथाविधब्रह्मत्वसिद्धिरित्यर्थः ।
द्वैतग्राहिप्रत्यक्षादिविरोधात्कथमात्मनोऽद्वितीयब्रह्मत्वमित्याशङ्क्य तज्जत्वादिहेतुना ब्रह्मातिरिक्तवस्त्वभावसिद्धेरध्यक्षादीनामतत्त्वावेदकप्रामाण्यादविरोधाद्युक्तमात्मनोऽद्वितीयब्रह्मत्वमित्याह -
प्रपञ्चस्येति ।
ब्रह्मणि सावकाशं तर्कं दर्शयित्वा श्रुत्यननुगृहीततर्कस्य तस्मिन्ननवकाशत्वं सूत्रकृतोऽपि संमतमित्याह -
तर्केति ।
विप्रलम्भकत्वमर्थविशेषाव्यवस्थापकत्वम् ।
ब्रह्मणि निरालम्बनस्य तर्कस्याप्रवृत्तेः, श्रुत्यनुगृहीतस्य प्रवृत्तावपि जगन्न ब्रह्मकार्यं चैतन्येनाननुगतत्वादित्यस्य श्रुत्यनुगृहीतत्वाभावात्तद्विरोधिनो न प्रवृत्तिरित्युक्तम् । इदानीं घटः प्रकाशत इति प्रत्यक्षेण श्रुतार्थापत्त्या च जगतश्चैतन्यानुगमावगमादसिद्धं चैतन्येनाननुगतत्वमित्याह -
योऽपीति ।
श्रुतार्थापत्तेः श्रुतिविरोधे नास्ति मानतेत्युक्तमाशङ्क्याह -
तस्यापीति ।
सावकाशानवकाशन्यायेन सावकाशा विभागश्रुतिरनवकाशार्थापत्त्या विभावनाविभावनविषयतया व्यवस्थापनीयेत्यर्थः ।
स्वमते विभागश्रुतिविरोधं समाधाय प्रधानवादे तद्विरोधमाह -
परस्येति ।
घटः स्फुरतीति प्रत्यक्षसङ्ग्रहार्थमपीत्युक्तम् ।
सत्त्वरजस्तमसामज्ञानात्मकत्वात्पुरुषस्य चातदात्मकत्वादस्मन्मते विभागश्रुतेर्नानुपपत्तिरिति शङ्कते -
कथमिति ।
उक्तरीत्या विभागासम्भवं वक्तुं श्रुत्यभिमतमर्थमाह -
परमकारणस्येति ।
प्रधानस्यैव मूलकारणत्वादशेषजगदात्मनाऽवस्थानमित्याशङ्क्याह -
तत्रेति ।
विभागश्रवणे सतीति यावत् ।
तर्हि त्वन्मतेऽपि चेतनस्याचेतनभावानुपपत्तिस्तुल्येत्याशङ्क्य चेतनस्यापि कारणस्य स्वापादाविवानाविर्भावितचैतन्यत्वमुक्तमित्याह -
प्रत्युक्तत्वादिति ।
यद्वा वैलक्षण्ये कार्यकारणत्वं नेत्युपेत्योक्तम् । वस्तुतस्त्वचेतनस्यापि चेतनकार्यत्वमविरुद्धम् , गोमयवृश्चिकादौ हेतोर्व्यभिचारस्योक्तत्वादित्याह -
प्रत्युक्त्त्वादिति ॥ ६ ॥