ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
यदि चेतनं शुद्धं शब्दादिहीनं ब्रह्म तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, असत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येतअनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत्नैष दोषः, प्रतिषेधमात्रत्वात्प्रतिषेधमात्रं हीदम्नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोतिकथम् ? यथैव हीदानीमपीदं कार्यं कारणात्मना सत् , एवं प्रागुत्पत्तेरपीति गम्यते हीदानीमपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्तिसर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्यादिश्रवणात्कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम्ननु शब्दादिहीनं ब्रह्म जगतः कारणम्बाढम् तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वा अस्तितेन शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमितिविस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः ॥ ७ ॥

असत्कार्यवादापत्तिमाशङ्क्य परिहरति -

असदिति चेदिति ।