तत्र चोद्यं विवृणोति -
यदीति ।
कार्यकारणयोर्विरुद्धत्वात्कारणात्मना प्रागनवस्थानात्कार्यस्य प्रागसत्त्वं स्यादित्यर्थः ।
इष्टापत्तिमाशङ्क्य निराचष्टे -
अनिष्टं चेति ।
कार्यासत्त्वमेतच्छब्दार्थः ।
तत्र हेतुं सूचयति -
सत्कार्यवादिन इति ।
चेतनकार्यस्य कारणेऽवस्थानस्वीकारादित्यर्थः ।
नेत्यादि व्याकुर्वन्परिहरति -
नैष दोष इति ।
प्राक्कालीनकार्यसत्त्वस्य प्रतिषेध्यत्वात्तदभावासिद्धिरित्याशङ्क्याह -
न हीति ।
यथेह घटो नास्तीति घटसंसर्गसत्ता भूतले वर्तमानकाले निषिध्यते तथा प्रागसदिति कार्यस्य प्राक्कालीनं सत्त्वं शक्यं निषेद्धुमिति शङ्कते –
कथमिति ।
कार्यस्य कारणात्मना सत्त्वं वा निषिध्यम्, सत्त्वान्तरं वा ? नाद्य इत्याह –
यथैवेति ।
कारणात्मना सत्त्वस्य सदातनत्वान्न निषेध्यतेत्यर्थः ।
द्वितीयं प्रत्याह –
न हीति । कारणसत्त्वातिरिक्तसत्त्वाभावे मानमाह -
सर्वमिति ।
सत्यं कारणात्मनैव कार्यस्य सत्त्वं, तदेव कालविशेषे निषेध्यमित्याशङ्क्याह -
कारणात्मनेति ।
किं तदा कार्यं नास्ति, किं वा कारणमपि । नाद्यः । सदापि तस्य कारणातिरिक्तस्यासत्त्वाद्विशेषणवैयर्थ्यम् । न द्वीतियः । तस्य सर्वदा सत्त्वान्निषेधानवकाशादित्यर्थः ।
उक्तमभिप्रायमविद्वान्मिथो विरुद्धयोरैक्यायोगादसदेव शब्दादिमज्जगज्जायत इति शङ्कते -
नन्विति ।
ब्रह्मणः शब्दादिहीनत्वमङ्गीकृत्य परिहरति -
बाढमिति ।
तर्हि प्रागसदेव शब्दादिमज्जगदिदानीं जायते, नेत्याह -
न त्विति ।
ब्रह्मणः शब्दादिहीनत्वे शब्दाद्यात्मकस्य जगतो ब्रह्मणि कल्पितत्वान्न सत्त्वं वास्तवं पृथगस्तीत्यर्थः ।
कल्पितत्वमेव जगतो ब्रह्मणीति स्थिते फलितमाह -
तेनेति ।
जगतो ब्रह्मणि कल्पितत्वमसम्प्रतिपन्नमित्याशङ्क्याह -
विस्तरेणेति ॥ ७ ॥