ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः, परिहृतःइदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्येत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशतिपरिगृह्यन्त इति परिग्रहाः परिग्रहाः अपरिग्रहाःशिष्टानामपरिग्रहाः शिष्टापरिग्रहाःएतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेनशिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याःतुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्तितुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वम् , तर्कस्य चाप्रतिष्ठितत्वम् , अन्यथानुमानेऽप्यविमोक्षः, आगमविरोधश्चइत्येवंजातीयकं निराकरणकारणम् ॥ १२ ॥

समन्वयस्व साङ्ख्यन्यायाविरोधेऽपि परमाण्वादिवादिभिरुद्भावितन्यायविरोधान्नासौ सिध्यति तेषां तार्किकत्वेन प्रसिद्धत्वात्तदीयन्यायानामबाध्यत्वादित्याशङ्क्य तन्निरासायोक्तन्यायमतिदिशति -

एतेनेति ।