अतिदेशत्वादुपदेशवत्पादादिसङ्गतिचतुष्टयं फलभेदश्च । चेतनाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किमीश्वरो न द्रव्योपादानं, व्यापित्वात् , दिगादिवदित्यादिना तार्किकन्यायेन तदनाभासत्वाभासत्वाभ्यां विरुध्यते न वेति सन्देहे पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावेन सम्बन्धे कारणमाह -
वैदिकस्येति ।
कार्यकारणयोरभेदस्यात्मनः स्वप्रकाशत्वासङ्गत्वयोः सम्यग्दर्शनस्यासहायस्य मुक्तिहेतुतेत्येवमादीनामभ्युपगमात्प्रत्यासन्नत्वम् । परिमाणसमन्वयादिर्गुरुतरस्तर्कः । देवलप्रभृतयः शिष्टाः ।
केनचिदंशेन ।
कार्यकारणयोरनन्यत्वादिनेति यावत् ।
अण्वादीति ।
आदिपदेन स्वभावाभाववादौ गृहीतौ ।
तर्कनिमित्त आक्षेप इति ।
अयमर्थः - विमतं कार्यद्रव्यं नेश्वरोपादानकं, गुणत्वानधिकरणत्वात् ईश्वरवत् । ईश्वरो न कार्यद्रव्योपादानं, कार्यद्रव्ये समानजातीयविशेषगुणारम्भकविशेषगुणानधिकरणत्वाद्व्यापित्वाद्वा, दिगादिवत् ।
ब्रह्मचैतन्यं जगत्समवायिकारणविशेषगुणो न भवति, कार्ये समानजातीयविशेषगुणानारम्भकत्वात् , यथा तन्तुगतं शौक्ल्यं न घटसमवायिकारणविशेषगुण इत्येवंविधानुमानविरोधं समन्वयस्य कश्चिच्चोदयेदिति तामेतामाशङ्कां निराकर्तुमिदं सूत्रमित्याह -
इत्यत इति ।
सूत्राक्षराणि व्याचष्टे -
परिगृह्यन्त इति ।
शिष्टापरिग्रहशब्दस्य समासमुक्त्वा वाक्यार्थमाह -
शिष्टैरिति ।
अतिदेशेन निराकरणे हेतुमाह -
तुल्यत्वादिति ।
पूर्वोक्तानुमानेष्वदूषितेषु कथमिष्टसिद्धिरित्याशङ्क्याह -
नात्रेति ।
समन्वयः सप्तम्यर्थः । गुणत्वानधिकरणत्वादित्यत्रानुपादानत्वस्यैवोपाधित्वादीश्वरो द्रव्योपादानवृत्तिद्रव्यत्वावान्तरजातिमानश्रावणविशेषगुणवत्त्वात्पृथिवीवदिति परमतेन व्यापित्वादेः सत्प्रतिपक्षत्वात्कार्ये समानजातीयगुणान्तरानारम्भकत्वस्यातिलोहितवृश्चिकसमवायिकारणगोमयविशेषगुणश्यामत्वे व्यभिचारत् । विमतमीश्वरोपादानकं, उपादानवत्त्वात् , ईश्वरनिष्ठसंयोगवदित्यनुमानान्न प्रकृते समन्वये किञ्चिदाशङ्कितव्यमिति भावः ।
यदुक्तं तुल्यत्वान्निराकरणकारणस्येति तदेव व्यनक्ति -
तुल्यमिति ।
वैशेषिकादिपक्षानुसारि चोद्यं सप्तम्यर्थः । तुल्यमत्रापि निराकरणकारणमिति सम्बन्धः ।
तदेवं प्रागुक्तं सङ्क्षिपति -
परमगम्भीरस्येत्यादिना ॥ १२ ॥