मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
अन्यथा
पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते
।
यद्यपि
श्रुतिः
प्रमाणं
स्वविषये
भवति
,
तथापि
प्रमाणान्तरेण
विषयापहारेऽन्यपरा
भवितुमर्हति
,
यथा
मन्त्रार्थवादौ
।
तर्कोऽपि
स्वविषयादन्यत्राप्रतिष्ठितः
स्यात्
,
यथा
धर्माधर्मयोः
।
किमतो
यद्येवम्
?
अत
इदमयुक्तम्
,
यत्प्रमाणान्तरप्रसिद्धार्थबाधनं
श्रुतेः
।
कथं
पुनः
प्रमाणान्तरप्रसिद्धोऽर्थः
श्रुत्या
बाध्यत
इति
।
अत्रोच्यते
—
प्रसिद्धो
ह्ययं
भोक्तृभोग्यविभागो
लोके
—
भोक्ता
चेतनः
शारीरः
,
भोग्याः
शब्दादयो
विषया
इति
।
यथा
भोक्ता
देवदत्तः
,
भोज्य
ओदन
इति
।
तस्य
च
विभागस्याभावः
प्रसज्येत
,
यदि
भोक्ता
भोग्यभावमापद्येत
भोग्यं
वा
भोक्तृभावमापद्येत
।
तयोश्चे
तरेतरभावापत्तिः
परमकारणाद्ब्रह्मणोऽनन्यत्वात्प्रसज्येत
।
न
चास्य
प्रसिद्धस्य
विभागस्य
बाधनं
युक्तम्
।
यथा
त्वद्यत्वे
भोक्तृभोग्ययोर्विभागो
दृष्टः
,
तथातीतानागतयोरपि
कल्पयितव्यः
।
तस्मात्प्रसिद्धस्यास्य
भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं
ब्रह्मकारणतावधारणमिति
चेत्कश्चिच्चोदयेत्
,
तं
प्रति
ब्रूयात्
—
स्याल्लोकवदि
ति
।
उपपद्यत
एवायमस्मत्पक्षेऽपि
विभागः
,
एवं
लोके
दृष्टत्वात्
।
तथा
हि
—
समुद्रादुदकात्मनोऽनन्यत्वेऽपि
तद्विकाराणां
फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग
इतरेतरसंश्लेषादिलक्षणश्च
व्यवहार
उपलभ्यते
।
न
च
समुद्रादुदकात्मनोऽनन्यत्वेऽपि
तद्विकाराणां
फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति
।
न
च
तेषामितरेतरभावानापत्तावपि
समुद्रात्मनोऽन्यत्वं
भवति
।
एवमिहा
पि
—
न
भोक्तृभोग्ययोरितरेतरभावापत्तिः
,
न
च
परस्माद्ब्रह्मणोऽन्यत्वं
भविष्यति
।
यद्यपि
भोक्ता
न
ब्रह्मणो
विकारः
‘
तत्सृष्ट्वा
तदेवानुप्राविशत्
’ (तै. उ. २ । ६ । १)
इति
स्रष्टुरेवाविकृतस्य
कार्यानुप्रवेशेन
भोक्तृत्वश्रवणात्
,
तथापि
कार्यमनुप्रविष्टस्या
स्त्युपाधिनिमित्तो
विभाग
आकाशस्येव
घटाद्युपाधिनिमित्तः
—
इत्यतः
,
परमकारणाद्ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते
भोक्तृभोग्यलक्षणो
विभागः
समुद्रतरङ्गादिन्यायेनेत्युक्तम्
॥ १३ ॥
भोक्त्रापत्तेरिति
;
वैशेषिकादितर्कविरोधं समन्वयस्य परिहृत्याध्यक्षादिविरोधमाशङ्क्य परिहरति -
भोक्त्रापत्तेरिति ।