मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
अभ्युपगम्य
चेमं
व्यावहारिकं
भोक्तृभोग्यलक्षणं
विभागम्
‘
स्याल्लोकवत्
’
इति
परिहारोऽभिहितः
।
न
त्वयं
विभागः
परमार्थतोऽस्ति
,
यस्मात्तयोः
कार्यकारणयोरनन्यत्वमवगम्यते
।
कार्यमाकाशादिकं
बहुप्रपञ्चं
जगत्
।
कारणं
परं
ब्रह्म
।
तस्मात्कारणात्परमार्थतोऽनन्यत्वं
व्यतिरेकेणा
भावः
कार्यस्यावगम्यते
।
कुतः
?
आरम्भणशब्दादिभ्यः
।
आरम्भणशब्दस्तावदेकविज्ञानेन
सर्वविज्ञानं
प्रतिज्ञाय
दृष्टान्तापेक्षायामुच्यते
—
‘
यथा
सोम्यैकेन
मृत्पिण्डेन
सर्वं
मृन्मयं
विज्ञातꣳ
स्याद्वाचारम्भणं
विकारो
नामधेयं
मृत्तिकेत्येव
सत्यम्
’ (छा. उ. ६ । १ । ४)
इति
।
एतदुक्तं
भवति
—
एकेन
मृत्पिण्डेन
परमार्थतो
मृदात्मना
विज्ञातेन
सर्वं
मृन्मयं
घटशरावोदञ्चनादिकं
मृदात्मकत्वाविशेषाद्विज्ञातं
भवेत्
।
यतो
वाचारम्भणं
विकारो
नामधेयम्
—
वाचैव
केवलमस्तीत्यारभ्यते
—
विकारः
घटः
शराव
उदञ्चनं
चेति
।
न
तु
वस्तुवृत्तेन
विकारो
नाम
कश्चिदस्ति
।
नामधेयमात्रं
ह्येतदनृतम्
।
मृत्तिकेत्येव
सत्यम्
—
इति
एष
ब्रह्मणो
दृष्टान्त
आम्नातः
।
तत्र
श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि
ब्रह्मव्यतिरेकेण
कार्यजातस्याभाव
इति
गम्यते
।
पुनश्च
तेजोबन्नानां
ब्रह्मकार्यतामुक्त्वा
तेजोबन्नकार्याणां
तेजोबन्नव्यतिरेकेणाभावं
ब्रवीति
—
‘
अपागादग्नेरग्नित्वं
वाचारम्भणं
विकारो
नामधेयं
त्रीणि
रूपाणीत्येव
सत्यम्
’ (छा. उ. ६ । ४ । १)
इत्यादिना
।
आरम्भणशब्दादिभ्य
इत्यादिशब्दात्
‘
ऐतदात्म्यमिदꣳ
सर्वं
तत्सत्यꣳ
स
आत्मा
तत्त्वमसि
’ (छा. उ. ६ । ८ । ७)
‘
इदꣳ
सर्वं
यदयमात्मा
’ (बृ. उ. २ । ४ । ६)
‘
ब्रह्मैवेदं
सर्वम्
’
‘
आत्मैवेदꣳ
सर्वम्
’ (छा. उ. ७ । २५ । २)
‘
नेह
नानास्ति
किञ्चन
’ (बृ. उ. ४ । ४ । १९)
इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं
वचनजातमुदाहर्तव्यम्
।
न
चान्यथा
एकविज्ञानेन
सर्वविज्ञानं
सम्पद्यते
।
तस्माद्यथा
घटकरकाद्याकाशानां
महाकाशादनन्यत्वम्
,
यथा
च
मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम्
,
दृष्टनष्टस्वरूपत्वात्
स्वरूपेणानुपाख्यत्वात्
।
एवमस्य
भोग्यभोक्त्रादिप्रपञ्चजातस्य
ब्रह्मव्यतिरेकेणाभाव
इति
द्रष्टव्यम्
॥
नन्व
नेकात्मकं
ब्रह्म
।
यथा
वृक्षोऽनेकशाखः
,
एवमनेकशक्तिप्रवृत्तियुक्तं
ब्रह्म
।
अत
एकत्वं
नानात्वं
चोभयमपि
सत्यमेव
—
यथा
वृक्ष
इत्येकत्वं
शाखा
इति
नानात्वम्
।
यथा
च
समुद्रात्मनैकत्वं
फेनतरङ्गाद्यात्मना
नानात्वम्
,
यथा
च
मृदात्मनैकत्वं
घटशरावाद्यात्मना
नानात्वम्
।
तत्रैकत्वांशेन
ज्ञानान्मोक्षव्यवहारः
सेत्स्यति
।
नानात्वांशेन
तु
कर्मकाण्डाश्रयौ
लौकिकवैदिकव्यवहारौ
सेत्स्यत
इति
।
एवं
च
मृदादिदृष्टान्ता
अनुरूपा
भविष्यन्तीति
।
नैवं
स्यात्
— ‘
मृत्तिकेत्येव
सत्यम्
’
इति
प्रकृतिमात्रस्य
दृष्टान्ते
सत्यत्वावधारणात्
,
वाचारम्भणशब्देन
च
विकारजातस्यानृतत्वाभिधानात्
,
दार्ष्टान्तिकेऽपि
‘
ऐतदात्म्यमिदꣳ
सर्वं
तत्सत्यम्
’
इति
च
परमकारणस्यैवैकस्य
सत्यत्वावधारणात्
, ‘
स
आत्मा
तत्त्वमसि
श्वेतकेतो
’
इति
च
शारीरस्य
ब्रह्मभावोपदेशात्
।
स्वयं
प्रसिद्धं
ह्येतच्छारीरस्य
ब्रह्मात्मत्वमुपदिश्यते
,
न
यत्नान्तरप्रसाध्यम्
।
अत
श्चेदं
शास्त्रीयं
ब्रह्मात्मत्वमवगम्यमानं
स्वाभाविकस्य
शारीरात्मत्वस्य
बाधकं
सम्पद्यते
,
रज्ज्वादिबुद्धय
इव
सर्पादिबुद्धीनाम्
।
बाधिते
च
शारीरात्मत्वे
तदाश्रयः
समस्तः
स्वाभाविको
व्यवहारो
बाधितो
भवति
,
यत्प्रसिद्धये
नानात्वांशोऽपरो
ब्रह्मणः
कल्प्येत
।
दर्शयति
च
—
‘
यत्र
त्वस्य
सर्वमात्मैवाभूत्तत्केन
कं
पश्येत्
’ (बृ. उ. ४ । ५ । १५)
इत्यादिना
ब्रह्मात्मत्वदर्शिनं
प्रति
समस्तस्य
क्रियाकारकफललक्षणस्य
व्यवहारस्याभावम्
।
न
चायं
व्यवहाराभावोऽवस्थाविशेषनिबन्धनोऽभिधीयते
इति
युक्तं
वक्तुम्
, ‘
तत्त्वमसि
’
इति
ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात्
।
तस्कर
दृष्टान्तेन
चानृताभिसन्धस्य
बन्धनं
सत्याभिसन्धस्य
च
मोक्षं
दर्शयन्
एकत्वमेवैकं
पारमार्थिकं
दर्शयति
,
मिथ्याज्ञानविजृम्भितं
च
नानात्वम्
।
उभयसत्यतायां
हि
कथं
व्यवहारगोचरोऽपि
जन्तुरनृताभिसन्ध
इत्युच्येत
।
‘
मृत्योः
स
मृत्युमाप्नोति
य
इह
नानेव
पश्यति
’ (बृ. उ. ४ । ४ । १९)
इति
च
भेददृष्टिमपवदन्नेतदेव
दर्शयति
।
न
चास्मि
न्दर्शने
ज्ञानान्मोक्ष
इत्युपपद्यते
,
सम्यग्ज्ञानापनोद्यस्य
कस्यचिन्मिथ्याज्ञानस्य
संसारकारणत्वेनानभ्युपगमात्
।
उभयसत्यतायां
हि
कथमेकत्वज्ञानेन
नानात्वज्ञानमपनुद्यत
इत्युच्यते
।
नन्वे
कत्वैकान्ताभ्युपगमे
नानात्वाभावात्प्रत्यक्षादीनि
लौकिकानि
प्रमाणानि
व्याहन्येरन्
,
निर्विषयत्वात्
,
स्थाण्वादिष्विव
पुरुषादिज्ञानानि
।
तथा
विधिप्रतिषेधशास्त्रमपि
भेदापेक्षत्वात्तदभावे
व्याहन्येत
।
मोक्षशास्त्रस्यापि
शिष्यशासित्रादि
भेदापेक्षत्वात्तदभावे
व्याघातः
स्यात्
।
कथं
चानृतेन
मोक्षशास्त्रेण
प्रतिपादितस्यात्मैकत्वस्य
सत्यत्वमुपपद्येतेति
।
अत्रोच्यते
—
नैष
दोषः
,
सर्वव्यवहाराणामेव
प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः
,
स्वप्नव्यवहारस्येव
प्राक्प्रबोधात्
।
यावद्धि
न
सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु
विकारेष्वनृतत्वबुद्धिर्न
कस्यचिदुत्पद्यते
।
विकारानेव
तु
‘
अहम्
’ ‘
मम
’
इत्यविद्यया
आत्मात्मीयेन
भावेन
सर्वो
जन्तुः
प्रतिपद्यते
स्वाभाविकीं
ब्रह्मात्मतां
हित्वा
।
तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः
सर्वो
लौकिको
वैदिकश्च
व्यवहारः
—
यथा
सुप्तस्य
प्राकृतस्य
जनस्य
स्वप्ने
उच्चावचान्भावान्पश्यतो
निश्चितमेव
प्रत्यक्षाभिमतं
विज्ञानं
भवति
प्राक्प्रबोधात्
,
न
च
प्रत्यक्षाभासाभिप्रायस्तत्काले
भवति
,
तद्वत्
।
कथं
त्वसत्येन
वेदान्तवाक्येन
सत्यस्य
ब्रह्मात्मत्वस्य
प्रतिपत्तिरुपपद्येत
?
न
हि
रज्जुसर्पेण
दष्टो
म्रियते
।
नापि
मृगतृष्णिकाम्भसा
पानावगाहनादिप्रयोजनं
क्रियत
इति
।
नैष
दोषः
,
शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः
,
स्वप्नदर्शनावस्थस्य
च
सर्पदंशनोदकस्नानादिकार्यदर्शनात्
।
तत्कार्यमप्य
नृतमेवेति
चेद्ब्रूयात्
,
अत्र
ब्रूमः
—
यद्यपि
स्वप्न
दर्शनावस्थस्य
सर्पदंशनोदकस्नानादिकार्यमनृतम्
,
तथापि
तदवगतिः
सत्यमेव
फलम्
,
प्रतिबुद्धस्याप्यबाध्यमानत्वात्
।
न
हि
स्वप्नादुत्थितः
स्वप्नदृष्टं
सर्पदंशनोदकस्नानादिकार्यं
मिथ्येति
मन्यमानस्तदवगतिमपि
मिथ्येति
मन्यते
कश्चित्
।
एतेन
स्वप्नदृशोऽवगत्यबाधनेन
देहमात्रात्मवादो
दूषितो
वेदितव्यः
।
तथा
च
श्रुतिः
—
‘
यदा
कर्मसु
काम्येषु
स्त्रियं
स्वप्नेषु
पश्यति
।
समृद्धिं
तत्र
जानीयात्तस्मिन्स्वप्ननिदर्शने
’ (छा. उ. ५ । २ । ८)
इत्यसत्येन
स्वप्नदर्शनेन
सत्यायाः
समृद्धेः
प्रतिपत्तिं
दर्शयति
,
तथा
प्रत्यक्षदर्शनेषु
केषुचिदरिष्टेषु
जातेषु
‘
न
चिरमिव
जीविष्यतीति
विद्यात्
’
इत्युक्त्वा
‘
अथ
स्वप्नाः
पुरुषं
कृष्णं
कृष्णदन्तं
पश्यति
स
एनं
हन्ति
’(ऐ॰आ॰ ३-२-४)
इत्यादिना
तेन
तेनासत्येनैव
स्वप्नदर्शनेन
सत्यं मरणं
सूच्यत
इति
दर्शयति
।
प्रसिद्धं
चेदं
लोकेऽन्वयव्यतिरेककुशलानामीदृशेन
स्वप्नदर्शनेन
साध्वागमः
सूच्यते
,
ईदृशेनासाध्वागम
इति
।
तथा
अकारादि
सत्याक्षरप्रतिपत्तिर्दृष्टा
रेखानृताक्षरप्रतिपत्तेः
।
अपि
चान्त्य
मिदं
प्रमाणमात्मैकत्वस्य
प्रतिपादकम्
,
नातःपरं
किञ्चिदाकाङ्क्ष्यमस्ति
।
यथा
हि
लोके
यजेतेत्युक्ते
,
किं
केन
कथम्
इत्याकाङ्क्ष्यते
।
नैवं
‘
तत्त्वमसि
’ ‘
अहं
ब्रह्मास्मि
’
इत्युक्ते
,
किञ्चिदन्यदाकाङ्क्ष्यमस्ति
—
सर्वात्मैकत्वविषयत्वावगतेः
।
सति
ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे
आकाङ्क्षा
स्यात्
।
न
त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति
,
य
आकाङ्क्ष्येत
।
न
चेयम
वगतिर्नोत्पद्यत
इति
शक्यं
वक्तुम्
,
‘
तद्धास्य
विजज्ञौ
’ (छा. उ. ६ । १६ । ३)
इत्यादिश्रुतिभ्यः
।
अवगतिसाधनानां
च
श्रवणादीनां
वेदानुवचनादीनां
च
विधानात्
।
न
चेयम
वगतिरनर्थिका
भ्रान्तिर्वेति
शक्यं
वक्तुम्
।
अविद्यानिवृत्तिफलदर्शनात्
,
बाधकज्ञानान्तराभावाच्च
।
प्राक्चा
त्मैकत्वावगतेरव्याहतः
सर्वः
सत्यानृतव्यवहारो
लौकिको
वैदिकश्चेत्यवोचाम
।
तस्माद
न्त्येन
प्रमाणेन
प्रतिपादिते
आत्मैकत्वे
समस्तस्य
प्राचीनस्य
भेदव्यवहारस्य
बाधितत्वात्
न
अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति
।
ननु
मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म
शास्त्रस्याभिमतमिति
गम्यते
।
परिणामिनो
हि
मृदादयोऽर्था
लोके
समधिगता
इति
।
नेत्युच्यते
—
‘
स
वा
एष
महानज
आत्माजरोऽमरोऽमृतोऽभयो
ब्रह्म
’ (बृ. उ. ४ । ४ । २५)
‘
स
एष
नेति
नेत्यात्मा
’ (बृ. उ. ३ । ९ । २६)
‘
अस्थूलमनणु
’ (बृ. उ. ३ । ८ । ८)
इत्याद्याभ्यः
सर्वविक्रियाप्रतिषेधश्रुतिभ्यः
ब्रह्मणः
कूटस्थत्वावगमात्
।
न
ह्येकस्य
ब्रह्मणः
परिणामधर्मवत्वं
तद्रहितत्वं
च
शक्यं
प्रतिपत्तुम्
।
स्थिति
गतिवत्स्यादिति
चेत्
,
न
;
कूटस्थस्ये
ति
विशेषणात्
।
न
हि
कूटस्थस्य
ब्रह्मणः
स्थितिगतिवदनेकधर्माश्रयत्वं
सम्भवति
।
कूटस्थं
च
नित्यं
ब्रह्म
सर्वविक्रियाप्रतिषेधादित्यवोचाम
।
न
च
यथा
ब्रह्मण
आत्मैकत्वदर्शनं
मोक्षसाधनम्
,
एवं
जगदाकारपरिणामित्वदर्शनमपि
स्वतन्त्रमेव
कस्मैचित्फलायाभिप्रेयते
,
प्रमाणाभावात्
।
कूटस्थब्रह्मात्मत्वविज्ञानादेव
हि
फलं
दर्शयति
शास्त्रम्
— ‘
स
एष
नेति
नेत्यात्मा
’
इत्युपक्रम्य
‘
अभयं
वै
जनक
प्राप्तोऽसि
’ (बृ. उ. ४ । २ । ४)
इत्येवंजातीयकम्
।
तत्रैतत्सिद्धं
भवति
—
ब्रह्मप्रकरणे
सर्वधर्मविशेषरहितब्रह्मदर्शनादेव
फलसिद्धौ
सत्याम्
,
यत्तत्राफलं
श्रूयते
ब्रह्मणो
जगदाकारपरिणामित्वादि
,
तद्ब्रह्मदर्शनोपायत्वेनैव
विनियुज्यते
,
फलवत्सन्निधावफलं
तदङ्गमितिवत्
।
न
तु
स्वतन्त्रं
फलाय
कल्प्यत
इति
।
न
हि
परिणामवत्त्व
विज्ञानात्परिणामवत्त्वमात्मनः
फलं
स्यादिति
वक्तुं
युक्तम्
,
कूटस्थ
नित्यत्वान्मोक्षस्य
।
ननु
कूटस्थब्रह्मात्मवादिन
एकत्वैकान्त्यात्
ईशित्रीशितव्याभावे
ईश्वरकारणप्रतिज्ञाविरोध
इति
चेत्
,
न
;
अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य
।
‘
तस्मा
द्वा
एतस्मादात्मन
आकाशः
सम्भूतः
’ (तै. उ. २ । १ । १)
इत्यादिवाक्येभ्यः
नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः
,
नाचेतनात्प्रधानादन्यस्माद्वा
—
इत्येषोऽर्थः
प्रतिज्ञातः
—
‘
जन्माद्यस्य
यतः
’ (ब्र. सू. १ । १ । २)
इति
;
सा
प्रतिज्ञा
तदवस्थैव
,
न
तद्विरुद्धोऽर्थः
पुनरिहोच्यते
।
कथं
नोच्यते
,
अत्यन्तमात्मन
एकत्वमद्वितीयत्वं
च
ब्रुवता
?
शृणु
यथा
नोच्यते
—
सर्वज्ञस्येश्वरस्यात्मभूते
इवाविद्याकल्पिते
नामरूपे
तत्त्वान्यत्वाभ्या
मनिर्वचनीये
संसारप्रपञ्चबीजभूते
सर्वज्ञस्येश्वरस्य
माया
शक्तिः
प्रकृतिरिति
च
श्रुतिस्मृत्योरभिलप्येते
।
ताभ्यामन्यः
सर्वज्ञ
ईश्वरः
,
‘
आकाशो
वै
नाम
नामरूपयोर्निर्वहिता
ते
यदन्तरा
तद्ब्रह्म
’ (छा. उ. ८ । १४ । १)
इति
श्रुतेः
,
‘
नामरूपे
व्याकरवाणि
’ (छा. उ. ६ । ३ । २)
‘
सर्वाणि
रूपाणि
विचित्य
धीरो
नामानि
कृत्वाभिवदन्यदास्ते
’ (तै. आ. ३ । १२ । ७)
‘
एकं
बीजं
बहुधा
यः
करोति
’ (श्वे. उ. ६ । १२)
इत्यादिश्रुतिभ्यश्च
;
एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो
भवति
,
व्योमेव
घटकरकाद्युपाध्यनुरोधि
।
स
च
स्वात्मभूता
नेव
घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो
जीवाख्यान्विज्ञानात्मनः
प्रतीष्टे
व्यवहारविषये
।
तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं
सर्वज्ञत्वं
सर्वशक्तित्वं
च
,
न
परमार्थतो
विद्यया
अपास्तसर्वोपाधिस्वरूपे
आत्मनि
ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार
उपपद्यते
।
तथा
चो
क्तम्
—
‘
यत्र
नान्यत्पश्यति
नान्यच्छृणोति
नान्यद्विजानाति
स
भूमा
’ (छा. उ. ७ । २४ । १)
इति
;
‘
यत्र
त्वस्य
सर्वमात्मैवाभूत्तत्केन
कं
पश्येत्
’ (बृ. उ. ४ । ५ । १५)
इत्यादि
च
।
एवं
परमार्थावस्थायां
सर्वव्यवहाराभावं
वदन्ति
वेदान्ताः
सर्वे
।
तथेश्वरगीतास्वपि
—
‘
न
कर्तृत्वं
न
कर्माणि
लोकस्य
सृजति
प्रभुः
।
न
कर्मफलसंयोगं
स्वभावस्तु
प्रवर्तते
’ (भ. गी. ५ । १४)
॥
‘
नादत्ते
कस्यचित्पापं
न
चैव
सुकृतं
विभुः
।
अज्ञानेनावृतं
ज्ञानं
तेन
मुह्यन्ति
जन्तवः
’ (भ. गी. ५ । १५)
इति
परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः
प्रदर्श्यते
।
व्यवहारावस्थायां
तूक्तः
श्रुतावपीश्वरादिव्यवहारः
—
‘
एष
सर्वेश्वर
एष
भूताधिपतिरेष
भूतपाल
एष
सेतुर्विधरण
एषां
लोकानामसम्भेदाय
’ (बृ. उ. ४ । ४ । २२)
इति
।
तथा
चेश्वरगीतास्वपि
—
‘
ईश्वरः
सर्वभूतानां
हृद्देशेऽर्जुन
तिष्ठति
।
भ्रामयन्सर्वभूतानि
यन्त्रारूढानि
मायया
’ (भ. गी. १८ । ६१)
इति
।
सूत्रकारोऽपि
परमार्थाभिप्रायेण
‘
तदनन्यत्वम्
’
इत्याह
।
व्यवहाराभिप्रायेण
तु
‘
स्याल्लोकवत्
’
इति
महासमुद्रस्थानीयतां
ब्रह्मणः
कथयति
,
अप्रत्याख्यायैव
कार्यप्रपञ्चं
परिणामप्रक्रियां
चा
श्रयति
सगुणेषूपासनेषूपयोक्ष्यत
इति
॥ १४ ॥
तदनन्यत्वमिति
;
परिणामवादमवलम्ब्यापाततो विरोधं समाधाय विवर्तवादमाश्रित्य परमसमाधानमाह -
तदनन्यत्वमिति ।