ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम् ‘स्याल्लोकवत्’ इति परिहारोऽभिहितः । न त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते । कार्यमाकाशादिकं बहुप्रपञ्चं जगत् । कारणं परं ब्रह्म । तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः ? आरम्भणशब्दादिभ्यः । आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते — ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इति । एतदुक्तं भवति — एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केवलमस्तीत्यारभ्यते — विकारः घटः शराव उदञ्चनं चेति । न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यम् — इति एष ब्रह्मणो दृष्टान्त आम्नातः । तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते । पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति — ‘अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्’ (छा. उ. ६ । ४ । १) इत्यादिना । आरम्भणशब्दादिभ्य इत्यादिशब्दात् ‘ऐतदात्म्यमिदꣳ सर्वं तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदꣳ सर्वम्’ (छा. उ. ७ । २५ । २) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् । न चान्यथा एकविज्ञानेन सर्वविज्ञानं सम्पद्यते । तस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम् , यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम् , दृष्टनष्टस्वरूपत्वात् स्वरूपेणानुपाख्यत्वात् । एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् ॥

अद्वितीयब्रह्मणो जगत्सर्गवादिनः समन्वयस्य पूर्ववद्भेदग्राहिप्रत्यक्षादिविरोधसन्देहे पूर्वाधिकरणेऽपि भेदग्राहिमानाविरोधोपपादनात्पुनरुक्तिमाशङ्क्य सङ्गतिं वदन्नगतार्थत्वमाह -

अभ्युपगम्येति ।

अङ्गीकृत्य हि भेदग्राहिप्रमाणस्य प्रामाण्यं भेदाभेदयो रूपभेदेन विरोधः समाहितः । सम्प्रति स्वीकृतं प्रामाण्यं तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे व्यवस्थाप्यते । तथाच विषयभेदादपौनरुक्त्यम् । सङ्गतिफले तु पूर्ववदिति भावः ।

यथोक्तविभागस्य वस्तुतोऽसत्त्वे हेतुत्वेन तदनन्यत्वमिति सूत्रावयवं विभजते -

यस्मादिति ।

कार्ये विप्रतिपत्तिनिरासार्थं विशिनष्टि -

कार्यमिति ।

कारणेऽपि विप्रतिपत्तिं निराकर्तुं विशेषमादत्ते -

कारणमिति ।

कार्यकारणयोरनन्यत्वमित्युक्ते मिथोऽनन्यत्वं शङ्कितं व्यावर्तयति -

तस्मादिति ।

ननु कार्यप्रपञ्चस्य भेदाभेदाभ्यामनिर्वाच्यतामिच्छन्कारणात्परमार्थतोऽनन्यत्वं व्याचक्षाणः स्वोक्तिविरोधं कथं नाधिगच्छति, तत्राह -

व्यतिरेकेणेति ।

यस्मादेवमवगम्यते तस्मात्परमार्थतो विभागो नास्तीति तद्ग्राहि मानं व्यावहारिकमानत्वात्तात्त्विकमानस्य समन्वयस्याविरोधीत्यर्थः ।

कार्यस्य कारणातिरेकेणाभावे हेतुं पृच्छति -

कुत इति ।

बुभुत्सितहेतुविषयं सूत्रभागमवतारयति -

आरम्भणेति ।

तत्र भेदनिषेधहेतुमारम्भणशब्दं व्याकरोति -

आरम्भणशब्दस्तावदिति ।

घटादिविषयत्वादेषशब्दो जगद्विषयो न भवति, तत्कथं मिथ्यात्वं तेन सिध्यतीत्याशङ्क्य जगतो मिथ्यात्वसाधनार्थमादिष्टदृष्टान्तनिविष्टं वाचारम्भणत्वं दार्ष्टान्तिकेऽपि साम्यार्थमास्थेयमित्यभिप्रेत्याह -

एतदुक्तमिति ।

परमार्थतो विज्ञातमिति सम्बन्धः ।

कथमन्यस्मिन्विदितेऽन्यद्विज्ञातं स्यादित्याशङ्क्याह -

यत इति ।

कारणमपि विकारवदनृतमेव शब्दमात्रत्वाविशेषादित्याशङ्क्याह -

मृत्तिकेति ।

एवशब्देनेतिशब्दः सम्बध्यते ।

तथापि ब्रह्मणि किमायातं, तत्राह -

एष इति ।

दृष्टान्तस्य कारणातिरिक्तकार्याभावविषयत्वेऽपि दार्ष्टान्तिकस्य नैवमित्याशङ्क्य फलितमाह -

तत्रेति ।

संनिहितो दृष्टान्तः सप्तम्यर्थः ।

प्रकारान्तरेणारम्भणशब्दं व्याचष्टे -

पुनश्चेति ।

दृष्टान्तवशाद्दार्ष्टान्तिके ब्रह्मातिरेकिकार्याभावप्रतिपत्त्यनन्तरं चेत्यर्थः । ब्रह्मकार्याणां मिथ्यात्वं तत्कार्याणां मिथ्यात्वोक्त्यापि दर्शितमिति भावः ।

आदिशब्दं व्याख्याति -

आरम्भणेति ।

एवमादीत्यादिशब्दात् ‘तदात्मनं स्वयमकुरुत’ इत्यादि गृहीतम् । एकविज्ञानेन सर्वविज्ञानप्रिज्ञानुपपत्तिरपि भेदाभावे मानतया सौत्रेणादिशब्देन गृहीतेत्याह -

न चेति ।

यदि जगतो ब्रह्मैव तत्त्वं तदा तज्ज्ञानेन तत्त्वतो ज्ञायेत, यथा रज्जुतत्त्वज्ञानेन भुजङ्गादितत्त्वम् । तत्त्वज्ञानमेव च ज्ञानं ततोऽन्यस्य मिथ्याज्ञानत्वेनाज्ञानत्वादिति भावः ।

सिद्धान्तमुपसंहरति -

तस्मादिति ।

जीवप्रपञ्चयोर्ब्रह्मणोऽनन्यत्वे क्रमेण दृष्टान्तद्वयम् । तेषामूषरादिभ्योऽनन्यत्वे हेतुमाह -

दृष्टेति ।

कदाचिद्दृष्टं पुनर्नष्टम् । अनित्यमिति यावत् । तत्स्वभावत्वान्मृगतृष्णिकोदकादीनामूषरादिभ्यो भेदेन नास्तित्वम् । विमतमधिष्ठानातिरिक्तसत्ताशून्यं, सावधित्वात् , चिदात्मवदिति व्यतिरेकानुमानादित्यर्थः ।

दृष्टग्रहणसूचितं प्रतीतिकालेऽपि सत्ताराहित्यं तत्रैव हेत्वन्तरमाह -

स्वरूपेणेति ।