ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
नन्वनेकात्मकं ब्रह्म । यथा वृक्षोऽनेकशाखः, एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म । अत एकत्वं नानात्वं चोभयमपि सत्यमेव — यथा वृक्ष इत्येकत्वं शाखा इति नानात्वम् । यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् , यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् । तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति । नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति । एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । नैवं स्यात् — ‘मृत्तिकेत्येव सत्यम्’ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् , वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् , दार्ष्टान्तिकेऽपि ‘ऐतदात्म्यमिदꣳ सर्वं तत्सत्यम्’ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् , ‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति च शारीरस्य ब्रह्मभावोपदेशात् । स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते, न यत्नान्तरप्रसाध्यम् । अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं सम्पद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् । बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्रह्मणः कल्प्येत । दर्शयति च — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् । न चायं व्यवहाराभावोऽवस्थाविशेषनिबन्धनोऽभिधीयते इति युक्तं वक्तुम् , ‘तत्त्वमसि’ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् । तस्करदृष्टान्तेन चानृताभिसन्धस्य बन्धनं सत्याभिसन्धस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्याज्ञानविजृम्भितं च नानात्वम् । उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येत । ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति च भेददृष्टिमपवदन्नेतदेव दर्शयति । न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् । उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते । नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन् , निर्विषयत्वात् , स्थाण्वादिष्विव पुरुषादिज्ञानानि । तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत । मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात् । कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति । अत्रोच्यते — नैष दोषः, सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः, स्वप्नव्यवहारस्येव प्राक्प्रबोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते । विकारानेव तु ‘अहम्’ ‘मम’ इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा । तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः — यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् , न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् । कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पेण दष्टो म्रियते । नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् , अत्र ब्रूमः — यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम् , तथापि तदवगतिः सत्यमेव फलम् , प्रतिबुद्धस्याप्यबाध्यमानत्वात् । न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथा च श्रुतिः — ‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ‘न चिरमिव जीविष्यतीति विद्यात्’ इत्युक्त्वा ‘अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’(ऐ॰आ॰ ३-२-४) इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति । तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः । अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् , नातःपरं किञ्चिदाकाङ्क्ष्यमस्ति । यथा हि लोके यजेतेत्युक्ते, किं केन कथम् इत्याकाङ्क्ष्यते । नैवं ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्युक्ते, किञ्चिदन्यदाकाङ्क्ष्यमस्ति — सर्वात्मैकत्वविषयत्वावगतेः । सति ह्यन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात् । न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, य आकाङ्क्ष्येत । न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम् , ‘तद्धास्य विजज्ञौ’ (छा. उ. ६ । १६ । ३) इत्यादिश्रुतिभ्यः। अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् । अविद्यानिवृत्तिफलदर्शनात् , बाधकज्ञानान्तराभावाच्च । प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशोऽस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते । परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति । नेत्युच्यते — ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्रह्मणः कूटस्थत्वावगमात् । न ह्येकस्य ब्रह्मणः परिणामधर्मवत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम् । स्थितिगतिवत्स्यादिति चेत् , न; कूटस्थस्येति विशेषणात् । न हि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं सम्भवति । कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम । न च यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनम् , एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात् । कूटस्थब्रह्मात्मत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् — ‘स एष नेति नेत्यात्मा’ इत्युपक्रम्य ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इत्येवंजातीयकम् । तत्रैतत्सिद्धं भवति — ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम् , यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्सन्निधावफलं तदङ्गमितिवत् । न तु स्वतन्त्रं फलाय कल्प्यत इति । न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम् , कूटस्थनित्यत्वान्मोक्षस्य । ननु कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत् , न; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः, नाचेतनात्प्रधानादन्यस्माद्वा — इत्येषोऽर्थः प्रतिज्ञातः — ‘जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति; सा प्रतिज्ञा तदवस्थैव, न तद्विरुद्धोऽर्थः पुनरिहोच्यते । कथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ? शृणु यथा नोच्यते — सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते । ताभ्यामन्यः सर्वज्ञ ईश्वरः, ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) इति श्रुतेः, ‘नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) ‘एकं बीजं बहुधा यः करोति’ (श्वे. उ. ६ । १२) इत्यादिश्रुतिभ्यश्च; एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि । स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये । तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते । तथा चोक्तम् — ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ (छा. उ. ७ । २४ । १) इति; ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादि च । एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे । तथेश्वरगीतास्वपि — ‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते’ (भ. गी. ५ । १४) ॥ ‘नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते । व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ (बृ. उ. ४ । ४ । २२) इति । तथा चेश्वरगीतास्वपि — ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ (भ. गी. १८ । ६१) इति । सूत्रकारोऽपि परमार्थाभिप्रायेण ‘तदनन्यत्वम्’ इत्याह । व्यवहाराभिप्रायेण तु ‘स्याल्लोकवत्’ इति महासमुद्रस्थानीयतां ब्रह्मणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणेषूपासनेषूपयोक्ष्यत इति ॥ १४ ॥
नन्विति ; यथेति ; अत इति ; यथेति ; यथा चेति ; यथा चेति ; तत्रेति ; एवं चेति ; नैवमिति ; मृत्तिकेति ; वाचारम्भणेति ; दार्ष्टन्तिकेऽपीति ; स आत्मेति ; स्वयमिति ; अतश्चेति ; बाधिते चेति ; दर्शयतीति ; न चेति ; तत्त्वमिति ; तस्करेति ; उभयेति ; मृत्योरिति ; न चेति ; उभयेति ; नन्विति ; स्थाण्वादिष्विवेति ; तथेति ; मोक्षशास्त्रस्येति ; कथं चेति ; अत्रेति ; नैष दोष इति ; सर्वव्यवहाराणामिति ; स्वप्नेति ; यावद्वीति ; विकारानिति ; तस्मादिति ; यथेति ; प्राकृतस्येति ; नचेति ; तद्वदिति ; कथमिति ; नहीति ; नापीति ; नैष दोष इति ; शङ्केति ; स्वप्नेति ; तत्कार्यमपीति ; तत्रेति ; नहीति ; एतेनेति ; स्वप्नदृश इति ; तथाचेति ; तथेति ; प्रसिद्धं चेति ; तथेति ; अपिचेति ; अन्त्यमिति ; नात इति ; यथेति ; सर्वात्मेति ; सति हीति ; न चेति ; अवगतीति ; न चेयमिति ; अविद्येति ; बाधकेति ; प्राक्चेति ; तस्मादिति ; नन्विति ; परिणामिनो हीति ; नेत्युच्यत इति ; नहीति ; स्थितीति ; नेति ; नहीति ; कूटस्थं चेति ; नचेति ; कूटस्थेति ; तत्रेति ; फलवदिति ; नत्विति ; नहीति ; कूटस्थेति ; नेत्यादिना ; तस्मादित्यादिना ; कथमित्यादिना ; अविद्येति ; तत्त्वान्यत्वाभ्यामिति ; संसारेति ; सर्वज्ञस्येति ; मायेति ; ताभ्यामिति ; आकाश इति ; नामरूपे इति ; सर्वाणीति ; एकमिति ; एवमिति ; व्योमेति ; स चेति ; घटेति ; अविद्येति ; व्यवहारेति ; तदेवमिति ; सर्वज्ञत्वमिति ; नेत्यादिना ; तथाचेति ; एवमिति ; तथेति ; स्वभावस्त्विति ; नादत्त इति ; अज्ञानेनेति ; व्यवहारेति ; सूत्रेति ; व्यवहारेति ; परिणामेति ॥ १४ ॥ ;

एकत्वैकान्ताभ्युपगमे द्वैतग्राहिप्रत्यक्षादिविरोधान्नाद्वितीये ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षयन्ननेकान्तवादमुत्थापयति -

नन्विति ।

एकस्यानेकात्मकत्वं विप्रतिषिद्धमितित्याशङ्क्याह -

यथेति ।

अनेकाभिः शक्तिभिश्चिद्रूपाभिस्तदधीनप्रवृत्तिभिश्च युक्तमिति यावत् ।

एकस्यानेकात्मकत्वे सम्भाविते फलितमाह -

अत इति ।

उभयसत्यत्वमपि वृक्षदृष्टान्ते दृष्टमित्याह -

यथेति ।

प्रतिपत्तिदार्ढ्यार्थमुदाहरणान्तरमाह -

यथा चेति ।

अंशांशिभावेन जीवब्रह्मणोर्भिन्नाभिन्नत्वे दृष्टान्तावुक्त्वा कार्यकारणात्मना जगद्ब्रह्मणोस्तथात्वे दृष्टान्तमाह -

यथा चेति ।

दृष्टान्तसामर्थ्यादुक्तार्थसम्भावनायामपि मानं विना निर्धारणासिद्धिरित्याशङ्क्य व्यवस्थानुपपत्तिं प्रमाणयति -

तत्रेति ।

विशिष्टदृष्टान्तप्रदर्शनानुपपत्तिरपि प्रकृतेऽर्थे प्रमाणमित्याह -

एवं चेति ।

जीवजगतोर्ब्रह्मणो भिन्नाभिन्नत्वे प्रत्यक्षाद्यविरोधेऽपि, केवलाभेदे तद्विरोधः स्यादेवेति प्राप्तभेदाभेदवादं दूषयति -

नैवमिति ।

यदुक्तमेकत्वं नानात्वं चोभयमपि सत्यमिति, तत्राह -

मृत्तिकेति ।

न केवलमेवकारसामर्थ्याद्विकारानृतत्वं किन्तु वाचारम्भणश्रुतेश्चेत्याह -

वाचारम्भणेति ।

तथापि कथमाकाशादिविकारवैतथ्यं दार्ष्टन्तिके पूर्वोक्तावधारणादेरभावादित्याशङ्क्य तत्रापि दृष्टान्तनिविष्टार्थानुषक्तेर्मैवमित्याह -

दार्ष्टन्तिकेऽपीति ।

किञ्च कार्यप्रपञ्चस्यापि ब्रह्मवत्सत्यत्वे तद्विशिष्टजीवस्य तद्भावोपदेशासिद्धिरित्याह -

स आत्मेति ।

जीवस्य ब्रह्मैक्यं ध्यानादिसाध्यमभिसन्धायोपदेशो भविष्यतीत्यशङ्क्याह -

स्वयमिति ।

जीवब्रह्मणोः संसारित्वासंसारित्वेन विरुद्धत्वादैक्यायोगात्तत्त्वं भविष्यसीति वाक्यविपरिणामः स्यादित्याशङ्क्याह -

अतश्चेति ।

उपदेशवशादित्येतत् । स्वाभाविकस्यानाद्यविद्याकृतस्येति यावत् । विरुद्धत्वस्य काल्पनिकत्वेनोपपत्तौ वाक्यस्वारस्यं भङ्क्त्वा विपरिणामकल्पना न युक्तेति भावः ।

यदुक्तं नानात्वांशेन सर्वव्यवहारोपपत्तिरिति, तत्र किमैक्यज्ञानोत्तरकालीनव्यवहारसिद्धये भेदांशस्य सत्यत्वं कल्प्यते किं वा प्राक्तनव्यवहारसिद्ध्यर्थमिति विकल्प्याद्यं दूषयति -

बाधिते चेति ।

प्रमातृत्वादिबाधात्तदाश्रयव्यवहारो नास्तीति व्यवहाराभावेऽर्थापत्तिमुक्त्वा श्रुतिमुपन्यस्यति -

दर्शयतीति ।

द्वितीये प्राक्तनव्यवहारस्य भ्रान्तत्वमभ्रान्तत्वं वा । प्रथमे तथाविधव्यवहारस्य काल्पनिकभेदेनोपपत्तिरिति मत्वा चरमं निरस्यति -

न चेति ।

तत्र श्रुतितात्पर्यविरोधं हेतुमाह -

तत्त्वमिति ।

‘पुरुषं सोम्योत हस्तगृहीतमानयन्ति’ इत्यादिना सत्यानृताभिसन्धपुरुषनिदर्शनप्रदर्शनसामर्थ्यादपि सिद्धमैक्यस्यैव सत्यत्वमित्याह –

तस्करेति ।

कथमेतावता सत्यत्वमेकस्यैव नियम्यते, तत्राह -

उभयेति ।

विपरीतमपि किं न स्यादित्यपेरर्थः ।

इतश्चैकत्वमेवैकं पारमार्थिकं न नानात्वमपीत्याह -

मृत्योरिति ।

एकत्वधियो मुक्तिहेतुत्वोक्तिरपि भेदाभेदवादेऽनुपपन्नेत्याह -

न चेति ।

भेदांशधियोऽभेदांशधिया बाध्यत्वादपनोदनीयाभवासिद्धिरित्याशङ्क्य वैपरीत्यस्यापि सम्भवान्मैवमित्याह -

उभयेति ।

इदानीं पूर्ववादी स्वाभिप्रायं प्रकटयति -

नन्विति ।

प्रत्यक्षादेरागमेन स्वसिद्ध्यर्थमपेक्ष्यमाणत्वाददृष्टव्यभिचारत्वादव्याकुलत्वादन्यत्रानवकाशत्वात्पूर्वभावित्वेन प्रतिष्ठितत्वात्पदपदार्थविभागव्यवहारहेतुत्वाच्च प्राबल्यात्तद्विरोधे सत्याम्नायतो नात्यन्तिकमैक्यमादेयमिति भावः ।

निरालम्बनत्वेनाप्रामाण्ये दृष्टान्तः -

स्थाण्वादिष्विवेति ।

न केवलमेकत्वैकान्ताभ्युपगमे प्रत्यक्षादिविरोधः किन्तु कर्मकाण्डविरोधश्चेत्याह -

तथेति ।

भेदापेक्षत्वात् । भावनाभाव्यकरणेतिकर्तव्यतादिसापेक्षत्वादिति यावत् ।

ननु प्रत्यक्षादीनां कर्मकाण्डस्य चाप्रामाण्यमद्वैतवादिनां नानिष्टं, ते हि ज्ञानकाण्डमेवैकं प्रमाणमाश्रयन्ते, तत्राह -

मोक्षशास्त्रस्येति ।

ननु मिथ्याभूतशिष्यादिभेदपराधीनस्य मोक्षशास्त्रस्य मिथ्यात्वेऽपि तत्प्रमेयस्य प्रत्यगैक्यस्य सत्यत्वादस्मत्पक्षसिद्धिरिति, तत्राह -

कथं चेति ।

प्रत्यक्षादिना काण्डद्वयेन न विरोधान्न समन्वयाधिगम्यमैक्यं सम्भावितमिति चोदिते परिहरति -

अत्रेति ।

यत्तावदेकत्वैकान्ताभ्युपगमे लौकिकवैदिकव्यवहारव्याहतिरिति, तत्राह -

नैष दोष इति ।

तत्त्वज्ञानादूर्ध्वं प्राचि वा काले व्यवहारानुपपत्तिरिति विकल्प्याद्यमङ्गीकृत्य द्वितीयं प्रत्याह -

सर्वव्यवहाराणामिति ।

प्रत्यक्षादीनां द्वैतावगाहिनां तात्त्विकप्रमाणत्वाभावेऽपि व्यवहारे बाधाभावाद्व्यवहारसमर्थवस्त्वङ्गतारूपप्रामाण्यसिद्धेः सम्यग्ज्ञानात्पूर्वं सर्वव्यवहारसिद्धिरित्यर्थः ।

तत्त्वज्ञानात्पूर्वं सत्यत्वाभिमानद्वारा व्यवहारोपपत्तौ दृष्टान्तमाह -

स्वप्नेति ।

आत्मनो ब्रह्मात्मतायाः स्वाभाविकत्वाद्विकारेष्वनृतत्वमनीषासमन्मेषे कथं सर्वव्यवहारसिद्धिरित्याशङ्क्याह -

यावद्वीति ।

तथापि स्वभावसिद्धब्रह्मात्मतानुरोधेन विकारेष्वौदासीन्यसम्भवात्कुतो व्यवहारोपपत्तिरित्याशङ्क्याह -

विकारानिति ।

मिथ्याभिमानवतो वस्तुस्वाभाव्यमपहाय प्राक्तत्त्वज्ञानाद्व्यवहारोपपत्तिं निगमयति -

तस्मादिति ।

यदुक्तं स्वप्नव्यवहारस्येव प्राग्बोधादिति, तद्विवृणोति -

यथेति ।

‘या निशा सर्वभूतानाम्’ इत्यादिस्मृतेर्ज्ञानी व्यवहारावस्थायां सुप्तो भवति, ततो व्यावर्तयति -

प्राकृतस्येति ।

प्रत्यक्षाभिमतमित्युक्तत्वादाभसत्वाभिमाने प्राप्ते प्रत्याह -

नचेति ।

उक्तदृष्टान्तवशात्तत्वज्ञानात्प्राच्यामवस्थायां प्रमाणादिषु सत्यत्वाभिमानद्वारा सर्वव्यवहारसिद्धिरिति दार्ष्टान्तिकमाह -

तद्वदिति ।

कथं चानृतेन मोक्षशास्त्रेणेत्युक्तमनुभाषते -

कथमिति ।

असत्यान्न सत्यप्रतिपत्तिरित्यत्र दृष्टान्तमाह -

नहीति ।

असत्यादपि मरणातिरिक्तं सत्यमेव कार्यं भविष्यतीत्याशङ्क्याह -

नापीति ।

इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ।

सत्यस्यासत्यादुत्पत्तिर्वा प्रतिपत्तिर्वा प्रतिषिध्यते । नाद्य, सत्यस्योत्पत्तेरनिष्टत्वादुत्पद्यमानस्य सर्वस्यैव वाचारम्भणत्वादित्यभिप्रत्याह -

नैष दोष इति ।

सत्यस्यापि केचिदुत्पत्तिमुपगच्छन्ति, तत्पक्षेऽपि न दोष इत्याह -

शङ्केति ।

शङ्कायाः स्वरूपेण सत्यत्वेऽपि विषयविशेषितत्वेनासत्यतेति भावः ।

द्वितीयेऽपि सत्या वाऽसत्या वा प्रतिपत्तिरसत्यान्नेति विकल्प्याद्यं निरस्यति -

स्वप्नेति ।

स्वप्नदर्शनवत्तत्कार्यस्यापि सर्पदंशनादेरसत्यत्वात्तद्विशेषितदर्शनमपि तथेति नासत्यात्सत्यप्रतिपत्त्युत्पत्ताविदमुदाहरणमिति शङ्कते -

तत्कार्यमपीति ।

विषयस्यासत्यत्वेऽपि विषयिणो ज्ञानस्य सत्यत्वान्मैवमिति परिहरति -

तत्रेति ।

नन्ववगतिशब्देन स्वरूपचैतन्यं वृत्तिज्ञानं वोच्यते । प्रथमे तस्याजन्यत्वादसत्यान्न सत्यप्रतिपत्त्युत्पत्तौ दृष्टान्तत्वम् । द्वितीये तस्य विषयातिरिक्ताकाराभावात् ‘अर्थेनैव विशेषो हि निराकारतया धियाम्’ इत्यङ्गीकारात्तदनिर्वाच्यतायामनिर्वाच्यत्वेनासत्यत्वान्नासत्यात्सत्यप्रतिपत्त्युत्पत्तिः, तत्राह -

नहीति ।

परपक्षे सत्यस्यापि ज्ञानस्य जन्यत्वाभ्युपगमादस्मत्पक्षे चाभिव्यक्तिस्वीकाराद्वृत्तिरूपस्यापि ज्ञास्य लौकिकाभिप्रायेण सत्यत्वादसत्यात्सत्यप्रतिपत्त्युत्पत्तौ दृष्टान्तत्वमविरुद्धमिति भावः ।

नन्ववगतिर्न स्वरूपचैतन्यं नापि वृत्तिज्ञानं किन्तु शरीराकारपरिणतभूतचतुष्टयनिविष्टं रूपादितुल्यं ज्ञानमिति लौकायतिकमतमाशङ्क्याह -

एतेनेति ।

एतच्छब्दार्थमेव विशदयति -

स्वप्नदृश इति ।

स्वप्नजाग्रद्देहयोर्व्यभिचारेऽपि प्रत्यभिज्ञानात्तदनुगतात्मैक्यसिद्धेः, चैतन्यस्य च देहधर्मत्वे रूपादिवत्तदनुपलब्धावनुपलब्धिप्रसङ्गात् , अवगतेश्चाबाधात्तद्रूपस्यात्मनो देहद्वयातिरेकसिद्धेर्देहमात्रात्मवादो न युक्त इत्यर्थः ।

सत्या प्रतिपत्तिरसत्याद्भवतीत्युपपाद्य सत्यस्य प्रतिपत्तिर्नासत्यादिति पक्षं श्रुत्या निराचष्टे -

तथाचेति ।

असत्यात्सत्यप्रतिपत्त्युत्पत्तौ छान्दोग्यश्रुतिवदैतरेयकश्रुतिरपि भवतीत्याह -

तथेति ।

सत्यस्य प्रतिपत्तिरसत्याद्भवति, तत्रान्वयव्यतिरेकावपि प्रमाणमित्याह -

प्रसिद्धं चेति ।

असत्यात्सत्यस्य प्रतिपत्तौ दृष्टान्तान्तरमाह -

तथेति ।

रेखास्वरूपस्य सत्यत्वेऽप्यकारादिरूपतया तथात्वाभावादसत्यात्सत्यप्रतिपत्तिरित्यभिसन्धायानृतेति विशेषणम् ।

आगमादसत्यादेव सत्यस्य ब्रह्मात्मनः सुज्ञानत्वेऽपि पूर्वोक्तनीत्या बलवतोऽध्यक्षादेरागमबाध्यत्वं कथमित्याशङ्क्याह -

अपिचेति ।

उक्तशङ्कानिवृत्त्यर्थमपिचेत्युक्तम् ।

निरपेक्षत्वे सत्युत्तरभाविप्रमाणत्वात्प्रत्यक्षादिबाधकत्वमागमस्येत्याह -

अन्त्यमिति ।

आगमप्रामाण्यस्य फलपर्यन्तत्वात्तस्य क्रियासाध्यत्वात्तस्या भेदप्रमितिपूर्वकत्वात्कथमात्मैक्यज्ञानस्यान्त्यतेत्याशङ्क्याह -

नात इति ।

तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -

यथेति ।

तत्त्वमसीत्युक्ते सर्वाकाङ्क्षोपशान्तिरित्यत्र हेतुमाह -

सर्वात्मेति ।

या वाक्यादवगतिरुत्पद्यते सा सर्वस्य पूर्णस्य ब्रह्मणः प्रत्यगात्मनश्चैकरस्यमधिकृत्य भवति । तथाच प्रत्यगात्मातिरिक्तस्याकाङ्क्षणीयस्यानवशिष्टत्वाद्युक्ता सर्वाकाङ्क्षोपशान्तिरित्यर्थः ।

श्रुताद्वाक्यादवगतौ सत्यामवशिष्यमाणार्थाभावेनाकाङ्क्षाभावं विवृणोति -

सति हीति ।

प्रत्यक्षादिविरोधादवगतिरेवाद्वैतमवगाहमाना नोत्पद्यते, कुतः सर्वकाङ्क्षानिवृत्तिरित्याशङ्क्याह -

न चेति ।

अस्य पितुर्वचनात्तदात्मततत्त्वं श्वेतकेतुर्विज्ञातवान्किलेति यावत् । आदिशब्दात् ‘आनन्दो ब्रह्मेति व्यजानात्’ इत्याद्या श्रुतिर्गृह्यते ।

किञ्चावगतिमुद्दिश्यान्तरङ्गबहिरङ्गसाधनविधानादपि तदुत्पत्तिरेष्टव्येत्याह -

अवगतीति ।

नन्ववगतिरुत्पन्नापि नार्थवती, सिद्धेऽर्थे स्वरूपेण फलाभावान्मानान्तरविरोधाद्वा भ्रान्तिरेवेत्याशङ्क्याह -

न चेयमिति ।

आनर्थक्याभावे हेतुमाह -

अविद्येति ।

भ्रान्तित्वाभावे हेतुमाह -

बाधकेति ।

नहि प्रत्यक्षादि बाधकं, तस्य कल्पितद्वैतविषयत्वेन तात्त्विकाद्वैतप्रमित्यविरोधित्वादित्यर्थः ।

ननु सर्वस्य कल्पितत्वे सत्यासत्यव्यवहारो लौकिको वैदिकश्च न स्यादित्याशङ्क्य स्वप्नदृष्टान्तेनोक्तं स्मारयति -

प्राक्चेति ।

आगमादर्थवती सर्वाकाङ्क्षाशान्तिहेतुर्ब्रह्मात्मप्रतिपत्तिर्भवतीति स्थिते फलितमाह -

तस्मादिति ।

कल्पनाममृष्यमाणः श्रौतमेव ब्रह्मणोऽनेकात्मकत्वमिति शङ्कते -

नन्विति ।

कथं यथोक्तदृष्टान्तावष्टम्भात्परिणामि ब्रह्म श्रौतमित्याशङ्क्य दृष्टान्तदार्ष्टान्तिकयोः साम्यध्रौव्यादित्याह -

परिणामिनो हीति ।

दृष्टान्तगतं विवक्षितमंशं हित्वा मानान्तरविरुद्धोंऽशो दार्ष्टान्तिके नाभ्युपेतव्योऽतिप्रसङ्गात् । अस्ति च परिणामित्वे ब्रह्मणो मानान्तरविरोधस्तस्य कौटस्थ्यश्रुतेरिति परिहरति -

नेत्युच्यत इति ।

श्रुतिद्वयानुरोधात्कूटस्थत्वपरिणामित्वे स्यातामित्याशङ्क्य युगपत्क्रमेण वेति विकल्प्याद्यं विरोधेन निरस्यति -

नहीति ।

द्वितीयं शङ्कते -

स्थितीति ।

कूटस्थस्य ब्रह्मणो न परिणामितेति विशेषणान्न तस्य कदाचिदपि परिणामयोग्यता स्वरूपप्रच्युतिप्रसङ्गादित्याह -

नेति ।

तदेव स्फुटयति -

नहीति ।

परिणामिनां हि बाणपाषाणादीनां क्रमेण स्थितिगती युक्ते, नतु परिणामायोग्यस्य क्रमेण परिणामतद्राहित्ये ब्रह्मणः स्यातामित्यर्थः ।

ब्रह्मणि विरुद्धधर्मासम्भवे कूटस्थत्वं हित्वा परिणामित्वमेवेष्यतामित्याशङ्क्याह -

कूटस्थं चेति ।

अनवयवावच्छिन्नकूटस्थब्रह्मणः स्वरूपादप्रच्युतस्वभावस्य सर्वप्रकारतद्विपरीतकार्याकारपरिणामश्रुत्यनुपपत्त्या कार्यप्रपञ्चस्य स्वरूपादप्रच्युतशुक्त्यादे रजतादिपरिणामवन्मिथ्याविवर्तत्वं सिध्यतीत्युक्तम् । सम्प्रति परिणामश्रुतेः स्वार्थे फलाभावादपि परिणामो न विवक्षित इत्याह -

नचेति ।

यद्ब्रह्मज्ञानस्य फलं तदेव परिणामिब्रह्मज्ञानस्यापि शास्त्रमेव चात्र प्रमाणमित्याशङ्क्याह -

कूटस्थेति ।

तर्हि परिणामिश्रुतीनामानर्थक्यादध्ययनविधिविरोधः स्यादित्याशङ्क्य फलवच्छेषतया साफल्यान्मैवमित्याह -

तत्रेति ।

सृष्ट्यादिश्रुतीनां स्वार्थे फलवैकल्ये सतीति यावत् ।

तत्र मीमांसकसंमतमुदाहरणमाह -

फलवदिति ।

यथाहि स्वर्गादिफलवतो दर्शपूर्णमासादेः संनिधाने श्रुतं प्रयाजादि स्वतो विफलं तदङ्गमित्यङ्गीक्रियते, तथा सृष्ट्यादिदर्शनमपि ब्रह्मज्ञानशेषतया तत्फलेनैव फलवत्त्वात्तदङ्गमित्यर्थः ।

ननु प्रयाजादेः श्रूयमाणफलेनैव फलवत्त्वसम्भवे फलवदङ्गत्वं किमित्यङ्गीकर्तव्यमित्याशङ्क्य प्रधानफलेनैव फलवत्त्वसिद्धौ फलान्तरकल्पने गौरवादङ्गेषु च फलश्रुतेरर्थवादत्वाङ्गीकारादित्याह -

नत्विति ।

इतिशब्दः सिद्धं भवतीत्यनेन सम्बध्यते ।

‘तं यथा यथोपासते तदेव भवति’ इति श्रुत्या परिणामिब्रह्मज्ञानात्तत्प्राप्तिरेव फलमित्याशङ्क्याह -

नहीति ।

‘तस्य तावदेव’ इत्यादिना प्रतिपन्नं कैवल्यं विहाय सामान्यशास्त्रसिद्धफलाकर्षणे वाक्यभेदः स्यादिति भावः ।

कूटस्थाद्वयत्वे ब्रह्मणः श्रुतिप्रतिज्ञयोर्विरोधः स्यादिति शङ्कते -

कूटस्थेति ।

विरोधद्वयं परिहरति -

नेत्यादिना ।

अविद्यात्मके नामरूपे एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य प्रतिज्ञासूत्रस्य तदनुसारिश्रुतिवचनस्य च पारमार्थिककूटस्थाद्वयत्वे न विरोधोऽस्तीत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति -

तस्मादित्यादिना ।

उक्तमेवार्थं चोद्यपरिहाराभ्यां स्फोरयति -

कथमित्यादिना ।

नामरूपयोरात्मभूतत्वे वस्तुत्वशङ्कायामिवेत्युक्तमुपमार्थत्वमिवकारस्य वारयन्नाभासार्थत्वं स्फुटयति -

अविद्येति ।

तयोरविद्याकल्पितत्वं साधयति -

तत्त्वान्यत्वाभ्यामिति ।

न हीश्वरत्वेन ते निरुच्येते, जडाजडयोरभेदायोगात् । नापि ततोऽन्यत्वेन निरुक्तिमर्हतः, स्वातन्त्र्येण सत्तास्फूर्त्यसम्भवात् । नहि जडमजडानपेक्षं सत्तास्फूर्तिमदुपलक्ष्यते, जडत्वभङ्गप्रसङ्गात् । तस्मादविद्यात्मके नामरूपे इत्यर्थः ।

तयोश्च कार्यलिङ्गकमनुमानं प्रमाणयति -

संसारेति ।

तयोराश्रयं विषयं च दर्शयति -

सर्वज्ञस्येति ।

तयोरेव श्रुतिस्मृती प्रमाणयति -

मायेति ।

‘मायां तु प्रकृतिं विद्यात् , ‘ ‘देवात्मशक्तिम्’ इत्येवंविधा श्रुतिः । ‘प्रकृतिं पुरुषं चैव’ ‘मायाह्येषा’ इत्येवंप्रकारा च स्मृतिः ।

नामरूपे चेदीश्वरात्मभूते तर्हि सोऽपि ताभ्यामभिन्नत्वात्तद्वदेव जडः स्यादित्याशङ्क्याह -

ताभ्यामिति ।

ईश्वरस्य नामरूपाभ्यामर्थान्तरत्वे प्रमाणमाह -

आकाश इति ।

यत्तु नामरूपबीजव्याकरणापेक्षमैश्वर्यमिति, तत्र तद्व्याकरणे प्रमाणमाह -

नामरूपे इति ।

जीवस्य व्याकर्तृत्वं व्यासेद्धुं वाक्यान्तरमुदाहरति -

सर्वाणीति ।

नामरूपव्याकरणस्य नानाविधत्वसिद्ध्यर्थं श्रुत्यन्तरं पठति -

एकमिति ।

आदिशब्देन ‘सच्च त्यच्चाभवत्’ इत्याद्या श्रुतिर्गृह्यते । दर्शितश्रुतिभ्यो नामरूपव्याकरणमीश्वरायत्तं सिद्धं तदपेक्षं चास्यैश्वर्यमित्यर्थः ।

स्वाभाविकत्वादैश्वर्यस्य कुतो व्याकरणापेक्षेत्याशङ्क्याह -

एवमिति ।

उक्तश्रुतिस्मृत्यनुरोधादविद्याकृते तदात्मके ये नामरूपे तद्रूपानवच्छिन्नोपाध्यभिव्यक्तश्चिदात्मा ताभ्यामेव नामरूपाभ्यां विरचितं विचित्रं प्रपञ्चं नियमयन्नीश्वरो नाम । ततो न स्वाभाविकमैश्वर्यमित्यर्थः ।

ईश्वरस्योपाध्यनुरोधित्वे दृष्टान्तमाह -

व्योमेति ।

अविद्याकृतजगदीशितृत्वेऽपि जीवानामतत्कृतत्वात्कुतस्तान्प्रत्यैश्वर्यमित्याशङ्क्याह -

स चेति ।

स्वात्मभूतत्वे भेदाभावात्कुतो नियम्येत्याशङ्क्याह -

घटेति ।

ननु घटवदुपाधेरनधिगमे कथमौपाधिकभेदानुरोधेन नियम्यनियन्तृत्वं कल्प्यते, तत्राह -

अविद्येति ।

ईश्वरस्येश्वरत्वं काल्पनिकमिति स्पष्टयितुं विशिनष्टि -

व्यवहारेति ।

कल्पितमीश्वरत्वमित्युपपादितं निगमयति -

तदेवमिति ।

सर्वज्ञत्वादिवदीश्वरत्वस्य वास्तवत्वमाशङ्क्याह -

सर्वज्ञत्वमिति ।

सर्वज्ञत्वं चाविद्यात्मकोपाधिपरिच्छेदापेक्षमिति सम्बन्धः । पूर्वत्रोक्तेन प्रकारेणाविद्यात्मको योऽसावुपाधिस्तेन कृतो यो जीवप्रपञ्चाख्यः परिच्छेदस्तदपेक्षमिति यावत् ।

अन्वयमुखेनोक्तमर्थं व्यतिरेकद्वारा निरूपयति -

नेत्यादिना ।

परमार्थतश्चिद्धातोरीश्वरत्वानुपपत्तौ श्रुतिं प्रमाणयति -

तथाचेति ।

ननु परमार्थावस्थायां दर्शनादिव्यवहारराहित्यमिहोच्यते न पुनरीशित्रीशितव्यादिव्यवहारासत्त्वमित्याशङ्क्य दर्शनादिव्यवहाराभावस्योपलक्षणत्वादत्र समस्तव्यवहारराहित्यं विवक्षितमित्याह -

एवमिति ।

बहुवचनं ‘स एष नेति नेत्यात्मा’ ‘अदृश्येऽनात्म्ये’ ‘यत्तदद्रेश्यम्’ ‘अस्थूलम्’ इत्यादिवाक्यसङ्ग्रहार्थम् ।

श्रौतेऽर्थे भगवतोऽपि संमतिमाह -

तथेति ।

वेदान्तेष्विव भगवद्गीतास्वपि परमार्थावस्थायां व्यवहाराभावः प्रदर्श्यत इति सम्बन्धः ।

कथं तर्हि क्रियाकारकफलतत्सम्बन्धबुद्धिः, तत्राह -

स्वभावस्त्विति ।

अनाद्यविद्यावशात्क्रियाकारकादिप्रवृत्तिरित्यर्थः ।

तथापि भक्तानितरांश्चानुगृह्णन्निगृह्णंश्च तदीयसुकृतदुष्कृते परमेश्वरो वस्तुतो नाशयतीत्याशङ्क्याह -

नादत्त इति ।

सर्वेषां परमात्मैक्य कुतः सुकृतदुष्कृतयोर्विभागेन प्रवृत्तिरित्याशङ्क्याह -

अज्ञानेनेति ।

ऐश्वर्यादेर्वस्तुतोऽनुपपत्तिमुक्त्वा कल्पनयोपपत्तौ श्रुतिस्मृती क्रमेणोदाहरति -

व्यवहारेति ।

श्रुताविवेश्वरगाीतास्वपि व्यवहारावस्थायामीश्वरादिव्यवहार उक्त इति सम्बन्धः ।

परमार्थावस्थायां सर्वव्यवहाराभावे सूत्रकारस्यापि संमतिमाह -

सूत्रेति ।

‘तदनन्यत्वम्’ इत्यनेनायुक्तं कार्यमिथ्यात्वं कथ्यते, ‘स्याल्लोकवत्’ इति पूर्वसूत्रे तत्सत्यत्ववचनादित्याशङ्क्याह -

व्यवहारेति ।

‘आत्मकृतेः परिणामात् ‘ ‘क्षीरवद्धि’ इत्यादिना परिणामोक्तेरेष्टव्यं कार्यप्रपञ्चस्य सत्यत्वमित्याशङ्क्यान्यार्थत्वात्परिणामवादस्य न तद्विवक्षेत्याह -

परिणामेति ॥ १४ ॥