सूत्रं विभजते -
यथा चेत्यादिना ।
तेषामात्यन्तिकं निरोधं व्यासेधति -
कारणमात्रेति ।
पुनःप्रवृत्तानां प्राणभेदानां भिन्नत्वमेवेत्याशङ्क्याह -
नचेति ।
दृष्टान्तोक्तमर्थं दार्ष्टान्तिके दर्शयति -
एवमिति ।
अधिकरणार्थमुपसंहरति -
अतश्चेति ॥ २० ॥