ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
अन्यथा पुनश्चेतनकारणवाद आक्षिप्यतेचेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्तेकुतः ? इतरव्यपदेशात्इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति प्रतिबोधनात्यद्वाइतरस्य ब्रह्मणः शारीरात्मत्वं व्यपदिशतितत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात्; अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति परा देवता जीवमात्मशब्देन व्यपदिशन्ती, ब्रह्मणो भिन्नः शारीर इति दर्शयतितस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेतिअतस्सः स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात् , नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात्कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात्सुखकरं चोपाददीतस्मरेच्चमयेदं जगद्बिम्बं विचित्रं विरचितमितिसर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरतिमयेदं कृतमितियथा मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत्स्वकीयमपि तावच्छरीरं शारीरो शक्नोत्यनायासेनोपसंहर्तुम्एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते ॥ २१ ॥

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये कार्यस्य कारणादनन्यत्वं वदता तेनैव न्यायेन जीवस्यापि ततोऽनन्यत्वमुक्तं, तर्हि जीवधर्मा हिताकरणादयो ब्रह्मणि प्रसज्येरन्निति शङ्कते -

इतरव्यपदेशादिति ।