ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अधिकं तु भेदनिर्देशात् ॥ २२ ॥
तुशब्दः पक्षं व्यावर्तयतियत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत् , तत् वयं जगतः स्रष्टृ ब्रूमः तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते हि तस्य हितं किञ्चित्कर्तव्यमस्ति, अहितं वा परिहर्तव्यम् , नित्यमुक्तस्वभावत्वात् तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्चशारीरस्त्वनेवंविधःतस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः तु तं वयं जगतः स्रष्टारं ब्रूमःकुत एतत् ? भेदनिर्देशात्आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५) सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) शारीर आत्मा प्राज्ञेनात्मनान्वारूढः’ (बृ. उ. ४ । ३ । ३५) इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयतिनन्वभेदनिर्देशोऽपि दर्शितः — ‘तत्त्वमसिइत्येवंजातीयकःकथं भेदाभेदौ विरुद्धौ सम्भवेताम् ? नैष दोषः, आकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात्अपि यदातत्त्वमसिइत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति; अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम्समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात्तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाःअविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः, तु परमार्थतोऽस्तीत्यसकृदवोचामजन्ममरणच्छेदनभेदनाद्यभिमानवत्अबाधिते तु भेदव्यवहारेसोऽन्वेष्टव्यः विजिज्ञासितव्यःइत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ २२ ॥

तद्व्याचष्टे -

तुशब्द इति ।

यदुक्तं हिताकरणादयो दोषा ब्रह्मणि प्रादुःष्युरिति, तत्राह -

यत्सर्वज्ञमिति ।

तत्र हेतुमाह -

नहीति ।

नित्यमुक्तस्यापि ब्रह्मणो मायाशक्तियोगाद्विश्वनिर्मातृत्वमविरुद्धमिति भावः ।

यत्तु कर्तृत्वेन स्मर्तृत्वेन च भवितव्यं स्वयमेव चोपसंहर्तव्यमिति, तत्राह -

नचेति ।

क्वचिदपि ज्ञानप्रतिबन्धो नेत्यत्र हेतुमाह -

सर्वज्ञात्वादिति ।

क्वचिदपि शक्तिप्रतिबन्धो नास्तीत्यत्रापि हेतुमाह -

सर्वशक्तित्वाच्चेति ।

तर्हि क्वचिदपि ज्ञानप्रतिबन्धाद्यभावादस्मदादिष्वपि स्मरणादिप्रसक्तिरित्याशङ्क्याह -

शारीरस्त्विति ।

तदभेदात्परस्मिन्नपि स्रष्टरि तेषां प्रसक्तिमाशङ्क्योक्तम् -

न त्विति ।

सत्यभेदे दर्शितव्यवस्थानुपपत्तिरिति शङ्कते -

कुत इति ।

सूत्रावयवं हेतुमवतार्थ व्याचष्टे -

भेदनिर्देशादिति ।

कर्तृकर्मादीत्यादिशब्दो व्यक्तिभेदविषयः । सर्वस्यापि जीवब्रह्मणोर्भेदनिर्देशस्य कर्तृकर्मान्तर्भावात् ।

इदानीं पूर्ववादी पूर्वोक्तं स्मारयन्भेदनिर्देशस्यासाधकत्वमाशङ्कते -

नन्विति ।

तुल्यबलतया द्वयोरपि निर्देशयोः साधकत्वमाशङ्क्याह -

कथमिति ।

वास्तवमेकत्वमौपाधिकं नानात्वमित्युभयनिर्देशोपपत्तिरिति परिहरति -

नैष दोष इति ।

इतश्च ब्रह्मगतं स्रष्टृत्वं जीवगतं वा हिताकरणादि परस्परं न सम्भवतीत्याह -

अपि चेति ।

तत्त्वमसीति वाक्यार्थज्ञानादूर्ध्वमभेदावगमाद्ब्रह्मणः स्वष्टृत्वं जीवस्य तस्य हिताकरणादि ब्रह्मणः स्यादिति वा प्रागेव वा तदवगमादिति विकल्प्याद्ये दोषमाह -

यदेति ।

भेदव्यवहारस्य भिथ्याज्ञानविजृम्भितत्वमसिद्धमित्याशङ्क्याह -

अविद्येति ।

कार्यकरणाविवेककृता भ्रान्तिरित्यत्र दृष्टान्तमाह -

जन्मेति ।

द्वितीयं प्रत्याह -

अबाधिते त्विति ॥ २२ ॥