ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
यथा लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणाःइत्यनेकविधं वैचित्र्यं दृश्यतेयथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यतेयथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि विचित्राणि कार्याणि भवन्तिएवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थःश्रुतेश्च प्रामाण्यात् , विकारस्य वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्चइत्यभ्युच्चयः ॥ २३ ॥

परस्यैवाविद्याकृतावच्छेदस्य जीवशब्दितस्य सुखदुःखादिसम्बन्धो नतु तत्त्वतो जीवो वा तन्निष्ठदुःखादि वाऽस्तीति पश्यतो हिताकरणादिदोषासंस्पर्शाद्युक्तं तस्य जगत्कारणत्वमित्युक्तम् । इदानीं चिदात्मकत्वेनैकरूपस्य ब्रह्मणो जगत्कार्यं चेत्तदपि चेतनमेव स्यादित्याशङ्क्याह -

अश्मादिवच्चेति ।