परस्यैवाविद्याकृतावच्छेदस्य जीवशब्दितस्य सुखदुःखादिसम्बन्धो नतु तत्त्वतो जीवो वा तन्निष्ठदुःखादि वाऽस्तीति पश्यतो हिताकरणादिदोषासंस्पर्शाद्युक्तं तस्य जगत्कारणत्वमित्युक्तम् । इदानीं चिदात्मकत्वेनैकरूपस्य ब्रह्मणो जगत्कार्यं चेत्तदपि चेतनमेव स्यादित्याशङ्क्याह -
अश्मादिवच्चेति ।