ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम्शास्त्रार्थपरिशुद्धये तु पुनराक्षिपतिकृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात्यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत् , ततोऽस्यैकदेशः पर्यणंस्यत् , एकदेशश्चावास्थास्यतनिरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यतेनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इदं महद्भूतमनन्तमपारं विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यःततश्चैकदेशपरिणामासम्भवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येतद्रष्टव्यतोपदेशानर्थक्यं आपद्येत, अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य ब्रह्मणोऽसम्भवात्अजत्वादिशब्दकोपश्चअथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुःसावयवत्वे चानित्यत्वप्रसङ्ग इतिसर्वथायं पक्षो घटयितुं शक्यत इत्याक्षिपति ॥ २६ ॥

पूर्वाधिकरणोक्तक्षीरादिदृष्टान्तात्परिणामित्वभ्रमे तन्निराकरणार्थमधिकरणमवतारयन्पूर्वपक्षयति -

कृत्स्नप्रसक्तिरिति ।

निरवयवाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः ।