स किं सावयवस्यैव नानाकार्योपादानतेति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे वक्ष्यमाणपूर्वपक्षस्य मायामयत्वेन परिहारादधिकरणानारम्भमाशङ्क्य सङ्गतिमाह -
चेतनमिति ।
शास्त्रार्थस्य परिशुद्धिर्नाम परिणामपराकरणेन विवर्तदृढीकरणं तदर्थमधिकरणारम्भे प्रथममाक्षेपसूत्रमित्यर्थः । अत्रापि समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतिचतुष्टयं फलं च द्रष्टव्यम् ।
यदि क्षीरमिव दध्यात्मना ब्रह्म जगदाकारेण परिणमेत्तदा साकल्येन वा तदेकदेशेन वा । आद्यं प्रत्याह -
कृत्स्नेति ।
ततश्च कारणभूतब्रह्माभावे तत्पराधीनस्य कार्यस्यापि सत्त्वायोगान्न किञ्चिदपि स्यादिति शेषः ।
द्वितीयं निरस्यति -
यदीति ।
ब्रह्मणः सावयवत्वाभावादेकदेशपरिणामानुपपत्तिरित्यर्थः ।
भवतु तर्हि ब्रह्मणः सावयवत्वं, नेत्याह -
निरवयवं त्विति ।
अमूर्तत्वादपि ब्रह्म निरवयवमित्याह -
दिव्यो हीति ।
सर्वगत्वनिरवयवत्वाभ्यां नित्यत्वाभ्यां च तन्निरवयवमित्याह -
इदमिति ।
आपेक्षिकमानन्त्यं वारयति -
अपारमिति ।
विज्ञप्तितावन्मात्रत्वाच्च निरवयवमित्याह -
विज्ञानेति ।
मूर्तामूर्तद्वैतनिषेधाच्च तथेत्याह -
स एष इति ।
न हि ब्रह्मणः सावयवत्वमुपादानत्वेऽपि सुवर्णादिवत्प्रतिपत्तुं शक्यं श्रुतिविरोधादित्यर्थः ।
द्वितीयविकल्पासम्भवे प्रथमविकल्पप्राप्तौ फलितमाह -
ततश्चेति ।
कृत्स्नपरिणामपक्षे दोषान्तरमाह -
द्रष्टव्यतेति ।
ब्रह्मणो द्रष्टव्यत्वसम्भवात्कुतस्तदुपदेशानर्थक्यमित्याशङ्क्य परिणतं वा ब्रह्म तदतिरिक्तं वा द्रष्टव्यमिति विकल्प्याद्ये दोषमाह -
अयत्नेति ।
द्वितीयं दूषयति -
तद्व्यतिरिक्तस्येति ।
किञ्च ब्रह्मणः साकल्येन कार्यात्माना जन्माभ्युपगमे ‘न जायते म्रियते वा’ इत्यादिश्रुतिस्मृतिविरोधः स्यादित्याह -
अजत्वादीति ।
प्रथमपक्षदूषणं सङ्क्षेपविस्तराभ्यामुक्त्वा द्वितीयपक्षदूषणं सङ्क्षिप्तं विवृणोति -
अथेत्यादिना ।
न केवलं शब्दविरोधो न्यायविरोधश्चेत्याह -
सावयवत्वे चेति ।
पूर्वपक्षमुपसंहरति -
सर्वथेति ॥ २६ ॥