ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम्शास्त्रार्थपरिशुद्धये तु पुनराक्षिपतिकृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात्यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत् , ततोऽस्यैकदेशः पर्यणंस्यत् , एकदेशश्चावास्थास्यतनिरवयवं तु ब्रह्म श्रुतिभ्योऽवगम्यतेनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) इदं महद्भूतमनन्तमपारं विज्ञानघन एव’ (बृ. उ. २ । ४ । १२) एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यःततश्चैकदेशपरिणामासम्भवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येतद्रष्टव्यतोपदेशानर्थक्यं आपद्येत, अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य ब्रह्मणोऽसम्भवात्अजत्वादिशब्दकोपश्चअथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुप्येयुःसावयवत्वे चानित्यत्वप्रसङ्ग इतिसर्वथायं पक्षो घटयितुं शक्यत इत्याक्षिपति ॥ २६ ॥

स किं सावयवस्यैव नानाकार्योपादानतेति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे वक्ष्यमाणपूर्वपक्षस्य मायामयत्वेन परिहारादधिकरणानारम्भमाशङ्क्य सङ्गतिमाह -

चेतनमिति ।

शास्त्रार्थस्य परिशुद्धिर्नाम परिणामपराकरणेन विवर्तदृढीकरणं तदर्थमधिकरणारम्भे प्रथममाक्षेपसूत्रमित्यर्थः । अत्रापि समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतिचतुष्टयं फलं च द्रष्टव्यम् ।

यदि क्षीरमिव दध्यात्मना ब्रह्म जगदाकारेण परिणमेत्तदा साकल्येन वा तदेकदेशेन वा । आद्यं प्रत्याह -

कृत्स्नेति ।

ततश्च कारणभूतब्रह्माभावे तत्पराधीनस्य कार्यस्यापि सत्त्वायोगान्न किञ्चिदपि स्यादिति शेषः ।

द्वितीयं निरस्यति -

यदीति ।

ब्रह्मणः सावयवत्वाभावादेकदेशपरिणामानुपपत्तिरित्यर्थः ।

भवतु तर्हि ब्रह्मणः सावयवत्वं, नेत्याह -

निरवयवं त्विति ।

अमूर्तत्वादपि ब्रह्म निरवयवमित्याह -

दिव्यो हीति ।

सर्वगत्वनिरवयवत्वाभ्यां नित्यत्वाभ्यां च तन्निरवयवमित्याह -

इदमिति ।

आपेक्षिकमानन्त्यं वारयति -

अपारमिति ।

विज्ञप्तितावन्मात्रत्वाच्च निरवयवमित्याह -

विज्ञानेति ।

मूर्तामूर्तद्वैतनिषेधाच्च तथेत्याह -

स एष इति ।

न हि ब्रह्मणः सावयवत्वमुपादानत्वेऽपि सुवर्णादिवत्प्रतिपत्तुं शक्यं श्रुतिविरोधादित्यर्थः ।

द्वितीयविकल्पासम्भवे प्रथमविकल्पप्राप्तौ फलितमाह -

ततश्चेति ।

कृत्स्नपरिणामपक्षे दोषान्तरमाह -

द्रष्टव्यतेति ।

ब्रह्मणो द्रष्टव्यत्वसम्भवात्कुतस्तदुपदेशानर्थक्यमित्याशङ्क्य परिणतं वा ब्रह्म तदतिरिक्तं वा द्रष्टव्यमिति विकल्प्याद्ये दोषमाह -

अयत्नेति ।

द्वितीयं दूषयति -

तद्व्यतिरिक्तस्येति ।

किञ्च ब्रह्मणः साकल्येन कार्यात्माना जन्माभ्युपगमे ‘न जायते म्रियते वा’ इत्यादिश्रुतिस्मृतिविरोधः स्यादित्याह -

अजत्वादीति ।

प्रथमपक्षदूषणं सङ्क्षेपविस्तराभ्यामुक्त्वा द्वितीयपक्षदूषणं सङ्क्षिप्तं विवृणोति -

अथेत्यादिना ।

न केवलं शब्दविरोधो न्यायविरोधश्चेत्याह -

सावयवत्वे चेति ।

पूर्वपक्षमुपसंहरति -

सर्वथेति ॥ २६ ॥