श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
तुशब्देनाक्षेपं परिहरति ।
न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति ।
न तावत्कृत्स्नप्रसक्तिरस्ति ।
कुतः ?
श्रुतेः —
यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते,
एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते —
प्रकृतिविकारयोर्भेदेन व्यपदेशात् ‘सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति,
‘तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इति चैवंजातीयकात् ।
तथा हृदयायतनत्ववचनात्;
सत्सम्पत्तिवचनाच्च —
यदि च कृत्स्नं ब्रह्म कार्यभावेनोपयुक्तं स्यात् ,
‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् ,
विकृतेन ब्रह्मणा नित्यसम्पन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् ।
तथेन्द्रियगोचरत्वप्रतिषेधात् ब्रह्मणो,
विकारस्य चेन्द्रियगोचरत्वोपपत्तेः ।
तस्मादस्त्यविकृतं ब्रह्म ।
न च निरवयवत्वशब्दकोपोऽस्ति,
श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् ।
शब्दमूलं च ब्रह्म शब्दप्रमाणकम् ।
नेन्द्रियादिप्रमाणकम् ।
तद्यथाशब्दमभ्युपगन्तव्यम् ।
शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयति —
अकृत्स्नप्रसक्तिं निरवयवत्वं च ।
लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ।
ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते —
अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ।
किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत ।
तथा चाहुः पौराणिकाः — ‘
अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्’
इति ।
तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः ।
ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् —
निरवयवं च ब्रह्म परिणमते न च कृत्स्नमिति ।
यदि निरवयवं ब्रह्म स्यात् ,
नैव परिणमेत,
कृत्स्नमेव वा परिणमेत ।
अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति,
रूपभेदकल्पनात्सावयवमेव प्रसज्येत ।
क्रियाविषये हि ‘
अतिरात्रे षोडशिनं गृह्णाति’ ‘
नातिरात्रे षोडशिनं गृह्णाति’
इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति,
पुरुषतन्त्रत्वाच्चानुष्ठानस्य ।
इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सम्भवति,
अपुरुषतन्त्रत्वाद्वस्तुनः ।
तस्माद्दुर्घटमेतदिति ।
नैष दोषः,
अविद्याकल्पितरूपभेदाभ्युपगमात् ।
न ह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते ।
न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति ।
अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते ।
पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते,
वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य —
इति न निरवयवत्वं ब्रह्मणः कुप्यति ।
न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था,
तत्प्रतिपत्तौ फलानवगमात् ।
सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा,
तत्प्रतिपत्तौ फलावगमात्; ‘
स एष नेति नेत्यात्मा’
इत्युपक्रम्याह ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) इति;
तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति ॥ २७ ॥