ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्वपक्षदोषाच्च ॥ २९ ॥
परेषामप्येष समानः स्वपक्षे दोषः — प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः । तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरवयवत्वाभ्युपगमकोपो वा । ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते । सत्त्वरजस्तमांसि हि त्रयो गुणाः । तेषां साम्यावस्था प्रधानम् । तैरेवावयवैस्तत्सावयवमिति — नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते, यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति — समानत्वात्स्वपक्षदोषप्रसङ्गस्य । तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत् — एवमप्यनित्यत्वादिदोषप्रसङ्गः । अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्मवादिनोऽप्यविशिष्टाः । तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्न्येन संयुज्येत, ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः । अथैकदेशेन संयुज्येत, तथापि निरवयवत्वाभ्युपगमकोप इति — स्वपक्षेऽपि समान एष दोषः । समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवति । परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ २९ ॥

सूत्राक्षराणि व्याचष्टे -

परेषामिति ।

तथा च ब्रह्मवादिनि विशेषेणानुद्भाव्यतेति शेषः ।

तत्र प्रधानवादे दोषसाम्यं वक्तुं तत्पक्षमनुभाषते -

प्रधानेति ।

दोषसाम्यमधुना दर्शयति -

तत्रापीति ।

प्रधानं हि महदाद्याकारेण परिणममानं साकल्येन वा परिणमत एकदेशेन वा प्रथमे निरवयवत्वात्प्रधानस्य कृत्स्नस्यैव कार्याकारेण परिणतत्वादवशिष्टस्याभावात्तदाश्रितस्य कार्यस्याप्ययोगात्कार्यं कारणं चेत्युभयमपि समुच्छिद्येत । द्वितीये प्रधानस्य निरवयवत्वस्वीकारो विरुध्येतेत्यर्थः ।

दोषद्वयं परिहर्तुं शङ्कते -

नन्विति ।

निरवयवत्वानुपगमं स्फुटयितुं प्रधानस्वरूपमनुवदति -

सत्त्वेति ।

कथमेतावता निरवयवत्वानभ्युपगमः, तत्राह -

तैरिति ।

सावयवत्वे च प्रधानस्यैकदेशेन परिणामोऽवस्थानं चैकदेशेनेत्यङ्गीकारान्न कृत्स्नप्रसक्त्यादिदोषावकाशोऽस्तीत्यर्थः ।

उक्तं सावयवत्वमङ्गीकृत्य परिहरति -

नेत्यादिना ।

तत्र हेतुमाह -

यत इति ।

समुदायस्य सावयवत्वेऽपि प्रत्येकं सत्त्वादीनां निरवयवत्वात्तेषां च परिणामस्वीकारात्कृत्स्नपरिणामे मूलोच्छित्तेकदेशपरिणामे सावयवत्वम् । अतो दोषद्वयं प्रधानवादे दुर्वारमित्यर्थः ।

सम्भूय सत्त्वादीनां परिणामपरिग्रहान्न दोषद्वयमित्याशङक्याह -

एकैकमेवेति ।

समुदायस्यैव परिणामित्वे कार्यवैषम्यासिद्धिरिति भावः ।

एवं प्रधानवादे कृत्स्नप्रसकत्यादिदोषसाम्यान्न तेन ब्रह्मवादिनि तदुद्भावनीयमित्युपसंहरति -

समानत्वादिति ।

तर्काप्रतिष्ठानन्यायेन निरवयवत्वापादकतर्कस्याप्रतिष्ठानत्वात्प्रधानस्य सावयवत्वमेवेति शङ्कते -

तर्केति ।

अभ्युपेतहानमपिना सूचयन्दूषयति -

एवमपीति ।

आदिशब्देन घटादिवन्मूलकारणत्वासम्भवोऽपि गृहीतः ।

घटादीनामिव द्रव्यावयवत्वेन प्रधानस्य सावयवत्वानभ्युपगमादनेकधर्मवत्तया तदङ्गीकारान्नानित्यात्वादिदोषप्रसक्तिरित्याह -

अथेति ।

ब्रह्मणोऽपि कार्यवैचित्र्यसूचितविचित्रशक्तिरूपावयवोपगमादुक्तदोषसमाधिरित्याह -

ता इति ।

प्रधानवादिनो दोषसाम्यमुक्त्वा परमाणुवादिनोऽपि तत्साम्यमाह -

तथेति ।

अणुवादिनोऽपि समान एव दोष इत्यत्र सम्बन्धः ।

द्वाभ्यामणुभ्यां संयुज्यमानाभ्यां द्व्यणुकमारभ्यते त्रिभिर्द्व्यणुकैः संयुक्तैस्त्र्यणुकं त्र्यणुकैः संयुक्तैश्चतुरणुकमित्यस्यां प्रक्रियायामणुरण्वन्तरेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यत एकदेशेन वेति विकल्प्याद्यमनूद्य दूषयति -

अणुरिति ।

कार्त्स्न्यन संयोगे सत्येकस्मिन्परमाणौ परमाण्वन्तरस्य संमितत्वात्तदारब्धे द्व्यणुके परमाणोरधिकपरिमाणाभावात्तस्यापि पारिमाण्डल्यवत्त्वप्रसङ्गादणुत्वादिपरिमाणान्तराङ्गीकारविरोधः स्यादित्यर्थः ।

द्वितीयमनूद्य प्रत्याह -

अथेति ।

तदेवं परमाणुवादिन्यपि प्रागुक्तदोषसाम्यान्न तेनापि ब्रह्मवादिनि तदुद्भावनमुचितमित्याह -

इति स्वपक्षेऽपीति ।

त्वं चोर इत्युक्ते त्वमपि चोर इतिवत्स्वस्य दोषोद्भावने परस्यापि तदुद्भावनमात्रेण न तत्परिहारसिद्धिरित्याशङ्क्य परस्य यः परिहारः स एवास्माकमपीत्यभिप्रेत्याह -

समानत्वाच्चेति ।

आपाततः साम्यमुक्त्वा पारमार्थिकं कार्यकारणत्वमिच्छतामेव चायं दोषो नास्माकं विवर्तवादिनां कार्यं कारणं च कल्पितमिच्छतामित्याह -

परिहृतस्त्विति ॥ २९ ॥

पूर्वाधिकरणे ब्रह्मणो विचित्रशक्तियुक्तत्वाद् युक्तं कारणत्वमित्युक्तम् ।